________________ प्रत्यभावविवेचनम् ] न्यायभाष्यम्। 349 दोषानन्तरं प्रेत्यभावः, तस्याऽसिद्धिः- आत्मनो नित्यत्वात्= न खलु नित्यं किंचित् जायते म्रियते वा इति. जन्ममरणयोर्नित्यत्वादात्मनोऽनुपपत्तिः उभयं च प्रेत्यभाव इति / तत्रायं सिद्धानुवादः आत्मनित्यत्वे प्रेत्यभावसिद्धिः॥ 10 // नित्योयमात्मा प्रति= पूर्वशरीरं जहाति= म्रियते इति. प्रेत्य च= पूर्वशरीरं हित्वा भवति= जायते= शरीरान्तरमुपादत्ते इति. तचैतदुभयम्= पुनरुत्पत्तिः प्रेत्यभाव इति. तच्चैतत नित्यत्वे संभवतीति / यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावस्तस्य कृतहानमकृताभ्यागमश्च दोषः, उच्छेदहेतुवादे ऋष्युपदेशाश्वानर्थका इति // 10 // कथमुत्पत्तिरितिचेत् ?. व्यक्ताद् व्यक्तानाम्- प्रत्यक्षप्रामाण्यात् // 11 // यानामपि द्रव्याणां गुणानां चाऽनेकविधविकल्पः= विविधरूपो निमित्तनैमित्तकभावो दृष्ट इति दोषस्यापि मोहस्य दोषकारणत्वमुपपद्यते इत्यन्वयः, द्रव्याणां यथा मृद्घटयोः, गुणानां यथा कार्यगुणं प्रति कारणगुणस्य कारणत्वम् , विविधरूपत्वं च कारणस्य समवायित्वासमवयित्वनिमित्तत्वभेदात् // 9 // // इति दोषविवेचनं समाप्तम् // क्रमप्राप्तं प्रेत्यभावविवेचनमारभते- दोषानन्तरमिति, विवेचनार्थ प्राप्त इतिशेषः / तस्य= प्रेत्यभावस्य= जन्ममरणयोः / असिद्धौ पूर्वपक्षी हेतुमाह- आत्मन इति, प्रेत्यभाव उत्पादविनाशावेव तौ च नित्यस्यात्मनो न संभवत इत्याशयः / उक्तं विशदयति- नेति / पर्यवसितं प्रकृतमाह- जन्मेति, आत्मनो नित्यत्वात् जन्ममरणयोरनुपपत्तिः, जन्ममरणेत्युभयमेव प्रेत्यभाव इति प्रेत्यभावस्याप्यनुपपत्तिरित्यन्वयः, एवं पूर्वपक्षमनूद्याग्रिमसूत्रमवतारयति तत्रेति, तत्र= एवं पूर्वपक्षे प्राप्ते सिद्धानुवादः= सूत्रेण सिद्धान्त उच्यते इत्यर्थः / आत्मेति- आत्मनो नित्यत्वेनैव प्रेत्यभावः सिध्यतीत्यन्वयः, पूर्वशरीरं त्यक्त्वा शरीरान्तरग्रहणमेव प्रेत्यभावः स चात्मनो नित्यत्वे एव संभवति नाऽनित्यत्वेपि- अनित्यस्यात्मनः पूर्वशरीरेण सह विनाशसंभवात् शरीरान्तरग्रहणानुपपत्तेरिति स्पष्टमेवेति सूत्रार्थः / व्याचष्टे- नित्य इति / प्रतिपदार्थमाह- पूर्वेति / पूर्वशरीरत्यागपदार्थमाह- म्रियते इति / प्रेत्यभावमाह-प्रेत्येति, तदेतदुत्तरोत्तरं व्याचष्टे- पूर्वेत्यादिना / तच्चैतत् जन्ममरणलक्षणमुभयं प्रेत्यभाव इत्युच्यते / पर्यवसितमाह- तचैतदिति / नित्यस्य पूर्वशरीरं त्यक्त्वा शरीरान्तरग्रहणं संभवतीत्यर्थः / पूर्वपक्षिमते बाधकमाह- यस्येति, यस्य मते सत्त्वोत्पादः= आत्मोत्पत्तिः, सत्त्वनिरोधः= आत्मविनाशः प्रेत्यभावस्तस्य मते आत्मन उत्पादविनाशयोः प्रेत्यभावत्वे कृतहान्यकृताभ्यागमदोषः स्पष्ट एवेत्यन्वयः / दोषान्तरमाहउच्छेदेति, उच्छेदहेतुवादे= आत्मोच्छेदहेतुभिरात्मोच्छेद इतिमते आत्मनो विनाशित्वेन विहितयागादिफलभोगो न संभवतीति ऋष्युपदेशानामानर्थक्यमपि दोष इति तत्परिहारार्थम् आत्मनो नित्यत्वं स्वीकार्य तेन प्रेत्यभावः सिद्ध इत्यर्थः // 10 // . ___ शरीरोत्पत्तिप्रकारं जिज्ञासते- कथमिति / सूत्रेणोत्तरमाह- व्यक्तादिति, व्यक्तानाम्= शरीरादीनां मूर्तपदार्थानां व्यक्तात्= कारणीभूतात् मूर्तादेव भूतपदार्थादुत्पत्तिर्भवति- प्रत्यक्षस्य प्रामाण्यात्= प्रत्यक्षसिद्धत्वाद् यथा व्यक्तादू मृत्पदार्थाद् व्यक्तस्य घटस्योत्पत्तिर्दृश्यते तथा शरीरस्यापि शुक्रशोणितादिभ्य उत्पत्तिर्विज्ञेयेति सूत्रार्थः / वस्तुतस्तु सूत्रे- 'अव्यक्ताद् व्यक्तानामुत्पत्तिः' इतिवक्तव्यमासीत् /