________________ 348 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेकोपनीयाः संकल्पा द्वेषहेतवः उभये च संकल्पा न मिथ्याप्रतिपत्तिलक्षणत्वाद् मोहादन्ये, ताविमौ मोहयोनी रागद्वेषाविति, तत्त्वज्ञानाच्च मोहनिवृत्तौ रागद्वेषानुत्पत्तिरित्येकात्यनीकभावोपपत्तिः, एवं च कृत्वा तत्त्वज्ञानात् “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तद. नन्तरापायादपवर्गः 1-1-2" इति व्याख्यातमिति // 6 // प्राप्तस्तर्हि निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः // 7 // अन्यद्धि निमित्तमऽन्यच्च नैमित्तकमिति दोषनिमित्तत्वाददोषो मोह इति // 7 // न- दोषलक्षणावरोधान्मोहस्य // 8 // "प्रवर्तनालक्षणा दोषाः 1-1-18" इत्यनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति॥८॥ निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः // 9 // द्रव्याणां गुणानां वाऽनेकविधविकल्पो निमित्तनैमित्तकभावो तुल्यजातीयानां दृष्ट इति // 9 // संकल्पाः= सुखसाधनत्वप्रत्ययास्ते रागहेतवः, कोपनीयाः= विक्षेपजनका ये संकल्पा:= दुःखसाधनत्वप्रत्ययास्ते द्वेषहेतवः, संकल्पाश्चैते मोहं विना न संभवन्तीति मोहस्य रागद्वेषजनकत्वं सिद्धमित्याहउभये इति, उभये= उक्ता द्विविधा अपि संकल्पा मिथ्याप्रतिपत्तिलक्षणत्वात् न मोहादन्ये भवन्ति तथा च मोहोपि मिथ्याज्ञानरूप एव उक्तसंकल्पा अपि मिथाज्ञानरूपा एवेति मोहस्योक्तसंकल्पानां चाभेदः सिद्धः- मिथ्याप्रतिपत्तिलक्षणत्वात् तथा च रागद्वेषयोरुक्तसंकल्पजन्यत्वेन मोहजन्यत्वमपि प्राप्तमित्याह- ताविति, ताविमौ रागद्वेषौ मोहयोनी= मोहजन्यावितिसिद्धमित्यर्थः / वस्तुतस्तु " मिथ्याप्रतिपत्तिलक्षणत्वात् / इत्यत्र 'मिथ्याप्रतिपत्तिलक्षणात्' इतियुक्तं स्यात् / अत्र- "मोहाद्विषयस्य सुखसाधनत्वानुस्मृतिः दुःखसाधनत्वानुस्मृतिश्च संकल्पः” इतितात्पर्यटीका / रागद्वेषमोहानामेकप्रत्यनीकत्वप्रकारमाह- तत्त्वेति, तत्त्वज्ञानेन मोहस्य निवृत्तिर्भवतीति मोहकार्ययोरागद्वेषयोरपि तत्त्वज्ञानेन मोहनिवृत्तिद्वारा निवृत्तिर्भवतीति हेतोरेव त्रयाणामेकतत्त्वज्ञाननाश्यत्वमभिमतमित्यन्वयः / उपसंहरति- एवमिति, एवं च कृत्वा= इतिहेतोः= त्रयाणामेकतत्त्वज्ञाननाश्यत्वादेव तत्त्वज्ञानादपवर्ग उक्तः अन्यथा त्रयाणामेकतत्त्वज्ञानानाश्यत्वे तत्त्वज्ञानान्मोक्षो न स्यात्- एकदोषनाशेप्यपरदोषस्थितिसंभवादित्यर्थः / अपवर्गसाधनबोधकसूत्रं स्मारयति- दु:खेति / स्पष्टमन्यत् // 6 // ___ अग्रिमसूत्रमवतारयति- प्राप्त इति, तर्हि= उक्तकार्यकारणभावेन दोषेभ्यो मोहस्यार्थान्तरभावः प्राप्तः- दोषकारणत्वादित्यर्थः / निमित्तेति- निमित्तनैमित्तकभावात्= कार्यकारणभावात् मोहस्योक्तरीत्या दोषकारणत्वादू दोषेभ्योऽर्थान्तरभावः= पदार्थान्तरत्वम्= अदोषत्वं प्राप्तमिति सूत्रार्थः / व्याचष्टे- अन्यदिति, नैमित्तकम्= कार्यम् / स्पष्टमन्यत् // 7 // ___ उक्तं सिद्धान्ती निराकरोति-नेति, मोहस्य दोषेभ्योऽर्थान्तरत्वं न संभवतीत्यर्थः, उक्ते हेतुमाहदोषेति, मोहस्य दोषलक्षणेन= प्रवर्तकत्वेनाऽवरोधात्= आक्रान्तत्वाद् दोष एव मोह इतिसूत्रार्थः / व्याचप्टे- प्रवर्तनेति, स्पष्टार्थ भाष्यम् // 8 // ____ मोहस्य दोषकारणत्वेपि दोषत्वोपपत्तिमाह- निमित्तेति, तुल्यजातीयानाम्= सदृशानामपि निमित्तनैमित्तकोपपत्तेः= कार्यकारणभावसंभवात् दोषस्यापि मोहस्य दोषकारणत्वसंभवेन दोषत्वस्य प्रतिषेधो नोपपद्यते इति सिद्ध मोहस्य दोषत्वमिति सूत्रार्थः / व्याचष्टे- द्रव्याणामिति, तुल्यजाती