________________ न्यायभाष्यम्। दोषविवेचनम् ] __न- एकप्रत्यनीकभावात् // 4 // नाऽर्थान्तरं रागादयः, कस्मात् ?, एकमत्यनीकभावात्= तत्त्वज्ञानम्= सम्यङ्मतिः= आर्यप्रज्ञा= संवोध इत्येकमिदं प्रत्यनीकं त्रयाणामिति // 4 // व्यभिचारादहेतुः // 5 // एकात्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन. एकयोनयश्च पाकजा इति // 5 // सति चार्थान्तरभावे तेषां मोहः पापीयान-नामूढस्येतरोत्पत्तेः॥६॥ मोहः पापः पापतरो वा द्वावभिप्रेत्योक्तम्, कस्मात् 1. नाऽमूढस्येतरोत्पत्तेः= अमूढस्य रागद्वेषौ नोत्पद्येते, मूढस्य तु यथासंकल्पमुत्पत्तिः-विषयेषु रञ्जनीयाः संकल्पा रागहेतवः आसक्तिः= प्रीतिः, द्वेषलक्षणमाह- अमर्षेति, मोहलक्षणमाह- मिध्येति / रागद्वेषमोहानां पार्थक्ये प्रत्यक्षं प्रमाणयति- एतदिति, प्रत्यात्मवेदनीयम्=स्वस्वात्मविदितमेवेत्यर्थः / प्रत्यक्षमुदाहरति- अस्तीति, अध्यात्मम्= आत्मनि / रागलक्षणो धर्मो रागधर्मः। रागाभावेपि प्रत्यक्षं प्रमाणयति- विरागमिति, विरागम्= रागाभावम् / अत्र प्रत्यक्षमुदाहरति- नास्तीति / उक्तमन्यत्रातिदिशति- एवमिति, एवं इतरयोः= द्वेषमोहयोरप्युदाहार्यमित्यर्थः, यथा 'अस्ति मे आत्मनि द्वेषः' 'अस्ति मे आत्मनि मोहः' इति सर्वविदितमेव / उपसंहरति- मानेति, मानादय उक्तरीत्या त्रैराश्यम्= रागद्वेषमोहानां समुदायत्रये अनुपतिताः= अन्तर्भूता एवेति न पृथगुच्यन्ते इत्यन्वयः // 3 // रागादीनां भेदं पूर्वपक्षी निराकरोति-नेति, रागद्वेषमोहा न परस्परं भिन्ना इत्यर्थः, हेतुमाहएकेति, एकप्रत्यनीकभावात्= एकप्रत्यनीकत्वात् त्रयाणामप्येकेन तत्त्वज्ञानेन नाश्यत्वात् , एकनाश्यत्वं चैकत्वं विना न संभवतीत्यभिन्ना रागादय इतिसूत्रार्थः / व्याचष्टे- नेति, अर्थान्तरम्= अर्थान्तरभूताः= भिन्नाः / हेतुमाह- एकेति / एकं नाशकमाह- तत्त्वेति, उत्तरोत्तरं व्याचष्टे- सम्यगित्यादिना / आर्याणां प्रज्ञा आर्यप्रज्ञा= यथार्थज्ञानम् / इदम् तत्त्वज्ञानम् , त्रयाणाम्= रागद्वेषमोहानाम् प्रत्यनीकम्= नाशकमित्यन्वयः, तथा चैकेन तत्त्वज्ञानेन नाश्यत्वाद्रागद्वेषमोहानामभेदः सिद्ध इत्यर्थः // 4 // उक्तं सिद्धान्ती परिहरति- व्यभिचारादिति, एकविनाश्यानामभेद इति व्यभिचारात्= अनियमात् रागादीनामभेदे य एकप्रत्यनीकत्वं हेतुरुक्तः सोऽहेतुः= रागादीनामभेदसाधको न भवतिएकाग्निविनाश्यानामपि पटपुस्तकादीनामभेदासंभवादिति सूत्रार्थः / व्याचष्टे- एकेति, पृथिव्यां ये श्यामादयो गुणास्ते एकेनाग्निसंयोगेन नाश्या इत्येकप्रत्यनीकाः पाकजत्वादेकयोनयः= एककारणकाश्च अथापि नाऽभिन्नास्तथैकप्रत्यनीका रागादयोपि नाऽभिन्ना इत्यर्थः // 5 // . - अग्रिमसूत्रमवतारयति- सतीति, रागद्वेषमोहानामुक्तेनाऽर्थान्तरभावे= भेदे सिद्धे तेषां विशेष. माहेत्यर्थः / तेषामिति- तेषां रागद्वेषमोहानां मध्ये मोहः पापीयान् = अत्यन्तदुष्टः= प्रबल:- रागद्वेषजनकत्वादित्यर्थः / उक्ते हेतुमाह- नेति, अमूढस्य= मोहरहितस्य जनस्य नेतरोत्पत्तेः= इतरोत्पत्तरभावात्= द्वेषरागयोरसंभवादित्यन्वयः, तथा च रागद्वेषजनकत्वान्मोहस्य पापिष्ठत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- मोह इति, द्वावभिप्रेत्य= रागद्वेषाभ्यां मोहः पापतर इत्युक्तमित्यर्थः / हेतुं जिज्ञासतेकस्मादिति / हेतुमाह- नेति, एतद् व्याचष्टे- अमूढस्येति, अमूढस्य= मोहरहितस्य / समोहस्य रागद्वेषोत्पत्तिमाह- मूढस्येति, यथासंकल्पम्= संकल्पानुसारेण रागद्वेषयोरुत्पत्तिर्भवतीत्यन्वयः / उक्तं विशदयति-विषयेष्विति, विषयत्वं सप्तम्यर्थः, विषयेषु शब्दस्पर्शादिषु ये रजनीयाः= हर्षोत्पादकाः