________________ 346 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकस्तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषपबन्धोच्छेदेऽपवर्ग इति / प्रादुर्भावतिरोधानधर्मका इत्येवमायुक्तं दोषाणामिति // 2 // _ " प्रवर्तनालक्षणा दोषाः 1-1-18" इत्युक्तं तथा चेमे मानेाऽसूयाविचिकित्सामत्सरादयः ते कस्मान्नोपसंख्यायन्ते ? इत्यत आह तत्रैराश्यम- रागद्वेषमोहार्थान्तरभावात् // 3 // तेषां दोषाणां त्रयो राशयः त्रयः पक्षा:- रागपक्ष:- कामो मत्सरः स्पृहा तृष्णा लोभ इति. द्वेषपक्ष:- क्रोध ईर्ष्याऽसूया द्रोहोऽमर्ष इति, मोहपक्ष:- मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति. त्रैराश्यानोपसंख्यायन्ते इति / लक्षणस्य तीऽभेदात् त्रित्वमनुपपन्नम् ?. नानुपपन्नम्- रागद्वेषमोहार्थान्तरभावात्= आसक्तिलक्षणो रागः. अमर्षलक्षणो द्वेषः. मिथ्याप्रतिपत्तिलक्षणो मोह इति, एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्= विजानात्ययं शरीरी रागमुत्पन्नम्- 'अस्ति मेऽध्यात्मं रागधर्मः' इति, विरागं च विजानाति- 'नास्ति मेऽध्यात्मं रागधर्मः' इति. एवमितरयोरपीति / मानेास्याप्रभृतयस्तु त्रैराश्यमनुपतिता इति नोपसंख्यायन्ते // 3 // दोषाणामात्मगुणत्वं सिद्धम्- बुद्धेरात्मगुणत्वात् / दोषाणां संसारहेतुत्वमाह- प्रवृत्तीति, प्रवृत्तिहेतु. त्वात्= धर्माधर्महेतुत्वात् तदेतद् दुःखजन्मेतिसूत्रभाष्ये स्पष्टम् , पुनर्भवप्रतिसंधानसामर्थ्यात्= पुनर्जन्मसंपादनसमर्थत्वात् विविधसंस्कारजनकत्वादितियावत् / दोषाणामनादित्वमाह-संसारस्येति, दोषकार्यस्य संसारस्याऽनादित्वे दोषाणामनादित्वं स्पष्टमेव / दोषाणां निवृत्तिकारणमाह- मिथ्येति, तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तिः तन्निवृत्तौ= मिथ्याज्ञाननिवृत्तौ रागादिदोषाणां निवृत्तिस्ततश्चापवर्गः / प्रादुर्भावतिरोधानधर्मकाः= उत्पादविनाशशालिनो दोषाः / उपसंहरति- इत्येवमिति, इत्येवमादि-इत्यादिकं दोषाणाम्= दोषविषयकं यद्वक्तव्यमस्ति तदुक्तमेवेत्यन्वयः / अन्यत् वीतरागेतिसूत्रप्रकरणे द्रष्टव्यमित्यलम् / / 2 / / ___ अग्रिमसूत्रमवतारयति- प्रवर्तनेति, इमे मानादयोपि तथा प्रवर्तनालक्षणा:= प्रवर्तका एवेति दोपलक्षणाक्रान्ता एवेति ते मानादय कस्माद् दोषेषु नोक्ताः ? इत्यन्वयः / उत्तरमाह- तदिति- तत्= तेषाम्= दोषाणां त्रैराश्यम्= राशित्रयम्= समुदायत्रयमस्ति- रागद्वेषमोहानाम् अर्थान्तरभावात्= अवा न्तरभेदवत्त्वादिति मानादीनां मोहादिसमुदायान्तर्गतत्वेन मोहादिग्रहणेन मानादीनां ग्रहणं जातमेवेति न पृथग विशेषरूपेण मानादीनां ग्रहणं कृतमिति सूत्रार्थः / अन्यद् भाष्ये स्पष्टमेव / व्याचष्टे- तेषामिति / राशिपदार्थमाह- पक्षा इति, पक्षाः= समुदायाः। रागसमुदायमाह- काम इति / द्वेषसमुदायमाहक्रोध इति / मोहसमुदायमाह- मिथ्येति / पर्यवसितमाह- त्रैराश्यादिति, कामादयो रागादिराशिवयान्तर्गता इतिहेतोरेव पृथक् नोपसंख्यायन्ते- रागादिशब्दैरुक्तरागादिराशेरेव ग्राह्यत्वात् इत्यन्वयः / अत्र- "कामः स्त्रीगतोऽभिलापः, प्रक्षीयमाणवस्त्वपरित्यागेच्छा मत्सरः, अस्ववस्त्वादानेच्छा स्पृहा, पुनर्भवप्रतिसंधानहेतुभूता तृष्णा= या पुनर्भवप्रार्थना सा तृष्णा, प्रमाणविरुद्धपरद्रव्यापहारेच्छा लोभः, शरीरेन्द्रियाधिष्ठानवैकृत्यहेतुः क्रोधः, साधारणे वस्तुनि पराभिनिवेशप्रतिषेधेच्छा ईर्ष्या, परगुणाक्षमता असूया, परापकारेच्छा द्रोहः, कृतापकराक्षमता अमर्षः, विपर्ययज्ञानं मिथ्याज्ञानम् , संशयो विचिकित्सा, विद्यमानाविद्यमानगुणाध्यारोपेणात्मोत्कर्षप्रत्ययो मानः, शक्तस्य कर्तव्याकरणं प्रमादः" इति वार्तिकम् / ननु यदि मानादीनां मोहादिष्वन्तर्भावस्तदा रागद्वेषमोहानामपि प्रवर्तकत्वलक्षणलक्षणस्याभेदादेकत्वमेव वक्तव्यं न त्रित्वमित्याशङ्कते- लक्षणस्येति / निराकरोति, नेति, त्रित्वं नानुपपन्नमित्यर्थः / अत्र हेतु. माह- रागेति, रागद्वेषमोहानामर्थान्तरभावात्= परस्परं भेदादित्यर्थः / रागलक्षणमाह- आसक्तीति,