________________ अथ सटीके / न्यायभाष्ये चतुर्थाध्यायस्य प्रथममाह्निकम् / / मनसोऽनन्तरं प्रवृत्तिः परीक्षितव्या, तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितं सर्वा सा प्रवृत्तेः परीक्षेत्याह प्रवृत्तिर्यथोक्ता // 1 // तथा परीक्षितेति // 1 // प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह तथा दोषाः॥२॥ परीक्षिता इति, बुद्धिसमानाश्रयत्वादात्मगुणाः. प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसंधानसाम•च्च संसारहेतवः. संसारस्याऽनादित्वादनादिना प्रबन्धेन प्रवर्तन्ते / मिथ्याज्ञाननिवृत्ति अथ चतुर्थाध्यायप्रसन्नपदा नमस्कृत्वा हृषीकेशं वाजिवक्त्रविराजितम् / चतुर्थाध्यायटीकेयं न्यायभाष्यस्य तन्यते // चतुर्थाध्यायमारभते- मनस इति, मनोनिरूपणानन्तरं संप्रतीत्यर्थः, क्रमश्चायं प्रमेयसंग्रहसूत्रे द्रष्टव्यः / प्रवृत्तिश्च धर्माधर्मस्वरूपेति पूर्वमुक्तम् / अग्रिमसूत्रमवतारयति- तत्रेति, धर्माधर्मों आश्रयः= कारणं यस्य शरीरादेस्तद् धर्माधर्माश्रयं शरीरादि, किं वा शरीरे एव धर्माधर्मयोराचरणसंभवात् शरीरस्य धर्माधर्माश्रयत्वं विज्ञेयम् , धर्माधर्मकार्यभूतानां शरीरादीनां परीक्षणेन तत्कारणीभूतयोधर्माधर्मयोः सत्त्वं सिद्धं सत्त्वव्यवस्थापनमेव च परीक्षणमिति प्रवृत्तिपरीक्षा जातैवेत्यर्थः, धर्मलक्षणं च "चोदनालक्षणोथों धर्मः" इति. धर्मविपरीतश्चाधर्मस्तदेतद् दुःखजन्मेतिसूत्रभाष्ये व्युत्पादितमेव, कल्याणकर्मणां धर्मत्वे तद्विपरीतानां चाधर्मत्वे न कस्यापि वैमत्यमिति न प्रवृत्तेर्विशेषपरीक्षणावश्यकता / प्रवृत्तिरिति- प्रवृत्तियथोक्ता= " प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः 1-1-17" इतिसूत्रे यादृश्युक्ता तादृश्येव मन्तव्येति सूत्रार्थः। ध्याचष्टे- तथेति, अत्र शेष इतिशेषः, यथा उक्ता लक्षिता तथा शरीरादिपरीक्षणेन परीक्षिता-शरीरादिकारणीभूता प्रवृत्तिरित्यर्थः // 1 // // इति प्रवृत्तिपरीक्षणं समाप्तम् / / अध्यायत्रयवाक्यानां व्याख्याविशदविस्तरैः। शङ्के स्वल्पमिदं भाष्यं क्लिष्टं शिष्टमितः परम् // अग्रिमसूत्रमवतारयति- प्रवृत्त्यनन्तरा इति, प्रवृत्त्यनन्तरमुक्ता इत्यर्थः / तथेति- तथा= प्रवृत्तिवद दोषा अपि यथोक्ताः= "प्रवर्तनालक्षणा दोषाः 1-1-18" इति सूत्रोक्तस्वरूपाः परीक्षिता एव विज्ञेया:- दोषस्वरूपेपि वादिनां वैमत्याभावादिति सूत्रार्थः / व्याचष्टे- परीक्षिता इति, अत्रापि शेष इतिशेषः / विशेषवक्तव्यमाह- बुद्धीति, पदार्थज्ञानं विना तद्विषया रागादयो न संभवन्तीति यत्रात्मनि ज्ञानं तत्रैव रागादय इति सामानाधिकरण्यस्य लोके दर्शनाद् रागादयो दोषा बुद्धिसमानाश्रया इति 44