________________ 344 न्यायभाष्यम् / इतिविरुद्धयते, सेयं पापिष्ठानां मिथ्यादृष्टिः- ' अकर्मनिमित्ता शरीरसृष्टिरकर्मनिमित्तः सुख दुःखयोगः' इति // 75 // // इति वात्स्यायनीये न्यायभाष्ये तृतीयाध्यायद्वितीयमाह्निकं समाप्तम् // // तृतीयाध्यायश्च समाप्तः // पूर्वपक्षिदर्शने तचोभयम्= उक्तप्रवृत्तिनिवृत्तिलक्षणमुपदेशफलं विरुध्यते- पुण्यपापयोरभावे तत्प्रवृत्तिनिवृ. त्योरसंभवादित्यन्वयः, किं वा 'नास्ति कर्म नास्ति च कर्मफलम् / इत्युभयमागमेन विरुध्यते इत्यन्वयः / किं वा तच्चोभयम्= ऋषीणां धर्माधर्मप्रतिपादनम् "नास्ति कर्म सुचरितं दुश्चरितं वा” इत्येतस्यां दृष्टौदर्शने= नास्तिकमते "कर्मनिमित्तः पुरुषाणां सुखदुःखयोगः” इतिहेतोविरुध्यते इत्यन्वयः। उपसंहरतिसेयमिति, मिथ्यादृष्टिः भ्रान्तिः, मिथ्यादृष्टिस्वरूपमाह- अकर्मनिमित्तेति / तथा च सांसारिकपदार्थमात्रस्य कर्मनिमित्तकत्वादकर्मनिमित्तकत्वं न स्वीकार्यमित्यर्थः / स्पष्टमन्यत् // // इति शरीरस्यादृष्टजन्यत्वप्रतिपादनं समाप्तम् // अत्र- "आत्मा शरीरं करणमर्थों बुद्धिर्मनस्तथा / यद् यथा वस्तु तत्त्वेन तत् तथेहोपपादितम् // " इत्येतदध्यायप्रतिपादितपदार्थसंग्रहपरं वार्तिकम् // 75 // // इति पञ्चनदीयसुदर्शनाचार्यशास्त्रिनिर्मिता न्यायभाष्यतृतीयाध्यायस्य प्रसन्नपदाख्या व्याख्या समाप्ता //