________________ शरीरस्यादृष्टजन्यत्वप्रतिपादनम् ] न्यायभाष्यम्। तथाऽनुमानविरोधः- दृष्टं हि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्= यः खलु चेतनावान् साधननिर्वर्तनीयं मुखं बुद्धा तदीप्सन् साधनावाप्तये यतते स सुखेन युज्यते न विपरीतः, यश्च साधननिर्वर्तनीयं दुःखं बुद्धा तजिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते न विपरीतः, नास्ति चेदं यत्नमन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तर व्यवस्थाकृतेन भवितव्यमित्यनुमानम्. तदेतद् अकर्मनिमित्ते सुखदुःखयोगे विरुध्यते इति, तच्च गुणान्तरम् असंवेद्यत्वाददृष्टं विपाककालानियमाचाऽव्यवस्थितम् / बुद्धयादयस्तु संवेद्याश्चाऽपवर्गिणश्चेति / ___अथाऽऽगमविरोधः-बहु खल्विदमार्षम् ऋषीणामुपदेशजातम् अनुष्ठानपरिवर्जनाश्रयम्. उपदेशफलं च शरीरिणां वर्णाश्रमविभागेनाऽनुष्ठानलक्षणा प्रवृत्तिः परिवर्जनलक्षणा निवृत्तिः / तच्चोभयमेतस्यां दृष्टौ 'नास्ति कर्म सुचरितं दुश्चरितं वाऽकर्मनिमित्तः पुरुषाणां सुखदुःखयोगः' अकृताभ्यागमपक्षेऽनुमानविरोधमुपपादयति- तथेति, पुरुषगुणस्य= आत्मगुणभूतस्य यत्नस्य व्यवस्थया सुखादिव्यवस्था भवतीत्यन्वयः, यत्नानुसारेण सुखादिकं भवतीत्यर्थः / उक्तं ब्याचष्टे- य इति, यश्चेतनावान् = ज्ञानवान् जीवः साधननिवर्तनीयम्= सुखसाधनसाध्यं सुखं ज्ञात्वा तत्- सुखमीप्सन्= अभिलषन् साधनावाप्तये= सुखसाधनसिद्धयथै यतते स सुखं लभते न विपरीतः= तादृशयत्नरहित इत्यन्वयः, अत्र 'जानाति इच्छति यतते' इति क्रमोनुसंधेयः / यश्च चेतनावान् केनचित् साधनेन निर्वर्तनीयं दुःखं ज्ञात्वा तजिहासुः= दुःखनिवृत्तीच्छावान् साधनपरिवर्जनाय= दुःखसाधनपरित्यागाय यतते स दुःखेन त्यज्यते न विपरीत:= तादृशयत्नरहितः, इदं सुखदुःखव्यवस्थानं चेतनानां यत्नं विना न संभवतीति सुखादिसाधको यत्नोत्र सिद्धः, तेन यत्नेनापि, यथा सुखादिकं पुरुषगुणभूतयत्नं विना न संभवति तथा स यत्नोपि विविधरूपत्वात् चेतनस्य गुणान्तरभूतेन कर्मणा विना न संभवतीति कर्मणामनुमानं सिद्धं. तथा हि यत्नः चेतनगुणान्तरपूर्वकश्चेतनधर्मत्वात् सुखादिवदिति प्रयोगः, चेतनगुणान्तरं चात्रादृष्टशब्दवाच्यं कर्मैवेत्यन्वयः / एवमनुमानं प्रसाध्य पूर्वपक्षिमते तद्विरोधमाहतदेतदिति, पूर्वपक्षिमते कर्म कारणं नास्तीति यत्नस्योक्तानुमानसिद्धं कर्मपूर्वकत्वं न संभवतीत्युक्तानुमानविरोध इत्यर्थः / यत्नकारणीभूतं पुरुषगुणान्तरमाह- तचेति, अस्यादृष्टपदवाच्यत्वकारणमाह- असंवेद्यत्वादिति, अस्याव्यवस्थितत्वकारणमाह- विपाकेति, फलकालस्याव्यवस्थयैव कर्मणामव्यवस्थितत्वमुच्यते न तु स्वरूपेणेत्यर्थः / पुरुषगुणेभ्यो बुद्धयादिभ्यः कर्मणां व्यतिरेकमाह- बुद्धयादय इति, बुद्धयादयः पुरुषगुणा: पुरुषस्य संवेद्या:= प्रत्यक्षाः अपवर्गिणः= क्षणिकाश्च सन्ति. आदिपदात् सुखदुःखेच्छादयो ग्राह्याः, कर्म तु न क्षणिकं नापि प्रत्यक्षं किं तु फलप्राप्तिपर्यन्तं तिष्ठति अनुमानगम्यं चेत्यर्थः॥ ___ पूर्वपक्षिमते आगमविरोधमुपपादयति- अथेति, आर्षपदं व्याचष्टे- ऋषीणामिति, उपदेशजातं श्रुतिस्मृत्यादिरूपम् / अनुष्ठानेति-धर्मोपदेशस्यानुष्टानमेवाश्रयः- मूलम् प्रयोजनमिति यावत्. अधोंपदेशस्य परिवर्जनमेवाश्रय इत्यन्वयः- परिवर्जनार्थत्वादधर्मोपदेशस्य, अनुष्ठानपरिवर्जने आश्रयो यस्य तद् अनुष्ठानपरिवर्जनाश्रयमुपदेशजातम् / तादृशोपदेशस्य फलमाह- उपदेशफलमिति, शरीरिणां स्ववर्णाश्रमानुकूल्येनानुष्ठानलक्षणा या प्रवृत्तिः सैव धर्मोपदेशस्य फलम् , वर्णो ब्राह्मणादिः, आश्रमो ब्रह्मचर्यादिः, तयोः कर्तव्यं शास्त्रेषु द्रष्टव्यम् यथा सोमयागेषु ब्राह्मणस्याधिकारः राजसूये च राज्ञः क्षत्रियस्यैवेति, गृहस्थधर्मेषु गृहस्थस्यैवाधिकार इति / स्ववर्णाश्रमानुकूल्येन या परिवर्जनलक्षणा निवृत्तिः सैवाऽधर्मोपदेशस्य फलम्. परिवर्जनीयमपि धर्मशास्त्रेषु प्रसिद्धं यथा ब्राह्मणेन भद्यपानादिकं त्याज्यं ब्रह्मचारिणा मध्वादिसेवनं त्याज्यमिति / एवमागमं प्रतिपाद्य पूर्वपक्षिमते तद्विरोध प्रदर्शयति- तच्चेति, 'नास्ति कर्म पुण्यरूपं पापरूपं च न च कर्महेतुकः पुरुषाणां सुखदुःखयोगः' इति= इतिहेतोरेतस्यां दृष्टौ= इत्युक्त.