________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेतस्मान्नायं दृष्टान्तः- न प्रत्यक्षं न चानुमानं किंचिदुच्यते इति, तदिदं दृष्टान्तस्य साध्यसमत्मभिधीयते इति / अथ वा- नाकृताभ्यागमप्रसङ्गात्= अणुश्यामतादृष्टान्तेनाऽकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्य अकृताभ्यागमप्रसङ्गः= अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत, ओमितिब्रवतः प्रत्यक्षानुमानागमविरोधः। प्रत्यक्षविरोधस्तावत्-भिन्नमिदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम् को भेदः?, तीव्र मन्दं चिरमाशु नानाप्रकारमेकप्रकारम् इत्येवमादिविशेपः / न चास्ति प्रत्या त्मनियतः सुखदुःखहेतुविशेषः, न चाऽसति हेतुविशेष फलविशेपो दृश्यते / कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसंचयानां चोत्कर्षापकर्षभावाद् नानाविधैकविधभावाच्च कर्मणां सुखदुःखभेदोपपत्तिः, सोयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्यादिति प्रत्यक्षविरोधः॥ अभ्यागमपदार्थमाह- अभ्युपपत्तिरिति, व्यवसायः= स्वीकारः। पर्यवसितमाह- एतदिति, एतत् प्रमाणतोनुपपन्नमित्यन्वयः, किं वा एतत्श्रद्दधानेन= जैनमतश्रद्धाविशिष्टेनेत्यन्वयः / उपसंहरति- तस्मादिति, तस्मात्= उक्तदृष्टान्तस्यानुपपन्नत्वात् , उक्ते हेतुमाह- नेति, प्रत्यक्षं वाऽनुमानं वा प्रमाणं स्वमते नोच्यते दृष्टान्तमात्रमुच्यते स च दृष्टान्तोप्यनुपपन्न इति न तेन स्वपक्षसिद्धिः संभवतीत्यन्वयः / अणुश्यामतावत् शरीरोत्पत्त्यादीनां कर्मनिरपेक्षत्वस्वीकारे ह्यकृताभ्यागमदोषः= फलभोगस्य निर्हेतुकत्वापत्तिदोषोस्ती. त्यर्थः / उक्ते दोषान्तरमप्याह- तदिदमिति / शरीरोत्पत्त्यादीनां यथा निर्हेतुकत्वं साध्यमस्ति न तु सिद्ध तथाऽणुश्यामताया अपि पुनरनुत्पत्तेदृष्टान्तभूताया निर्हेतुकत्वं साध्यमेवास्तीति दृष्टान्ते साध्यसमत्वं दोष इत्यर्थः, अत्र= " न च परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात् लोहितादिवदित्यनुमानेन तस्या अपि पाकजत्वाभ्युपगमादितिभावः" इति तात्पर्यटीका / सूत्रस्य सरलार्थमाह- अथ वेति / अणुश्यामतेति- यथा परमाणुश्यामता कर्मनिरपेक्षैव जायते नश्यति च तथा शरीरमपि कर्मनिरपेक्षमेव जायते नश्यति चेति समादधानस्य जैनस्य मतेऽकृताभ्यागमदोषः प्रसज्यते इत्यन्वयः / उक्तं व्याचष्टे- अकृते इति, कर्मनिरपेक्षत्वमते सुखदुःखादिकं सर्वमकारणकं स्यात् न चैतद् युक्तम्- कार्यमात्रस्य सकारणत्वनियमादित्यर्थः, अभ्यागच्छति= प्राप्नोति, स्पष्टमन्यत् / अकृताभ्यागमदोषस्वीकारे बाधकमाह- ओ. मिति, ओमितिब्रुवत:= अकृताभ्यागमदोषं स्वीकुर्वतः / प्रत्यक्षादिविरोधश्चाग्रे स्पष्टः / / प्रत्यक्षविरोधमुपपादयति- प्रत्यक्षविरोध इति, प्रत्यात्मवेदनीयत्वात् सर्वशरीरिणामिदं सुखदुःखं भिन्नमिति प्रत्यक्षं तत्राऽकृताभ्यागमपक्षे सुखादीनां निर्हेतुकत्वेन भेदो न संभवतीति भेदप्रत्यक्षविरोध इत्यन्वयः, कारणभेदं विना कार्यभेदानुपपत्तेरित्यर्थः / सुखादीनां भेदं जिज्ञासते- क इति / भेदमाहतीब्रमिति, किंचित् सुखादिकं तीव्र किंचित् मन्दमिति तीव्रत्वादिलक्षणो विशेष एवात्र भेदपदार्थः / चिरम्= चिरेण चिरस्थायि. आशु=अचिरस्थायि इति चार्थः / पूर्वपक्षिमते सुखादिहेतुभेदस्याभावमाहन चेति / हेतुभेदाभावे फलभेदासंभवमाह- न चासतीति, फलविशेषः= फलभेदः, दृश्यते= उपपद्यते / स्वमते सुखादिभेदस्योपपत्तिमाह- कर्मनिमित्ते इति, अस्मन्मते तु सुखादियोगः कर्मनिमित्तक इति कर्मणां तीव्रत्वमन्दत्वाभ्यां सुखादीनां तीव्रत्वमन्दत्वे कर्मसंचयानामुत्कर्षात् आशु= शीघ्रम् अपकर्षाच चिरेण सुखादिकं भवतीति. कर्मणां नानाविधत्वात सुखादीनां नानाप्रकारत्वम् एकविधत्वाच्चैकप्रकारत्वमुपपद्यते इत्यन्वयः / उपसंहरति- सोयमिति, पूर्वपक्षिमते हेतुभेदाभावात्= कर्मभेदाभावात्= कर्मणामकारणत्वात् दृष्टः= प्रत्यक्षोपि सुखदुःखभेदो न संभवतीति प्रत्यक्षविरोधः- कार्यभेदस्य कारणभेदाधीनत्वादित्यर्थः //