________________ शरीरस्यादृष्टजन्यत्वप्रतिपा न्यायभाष्यम। नित्यत्वप्रसङ्गश्च-प्रायणानुपपत्तेः // 73 // विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम्. कर्माशयान्तराच्च पुनर्जन्म / भूतमात्रात्तु कर्मनिरपेक्षात् शरीरोत्पत्तौ कस्य क्षयात् शरीरपात:= प्रायणमिति ? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः, यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिरिति // 73 // "पुनस्तत्प्रसङ्गोऽपवर्गे७१" एतत्समाधिसुराह अणुश्यामतानित्यत्ववदेतत् स्यात् // 74 // यथाऽणोः श्यामता नित्या अग्निसंयोगेन प्रतिबद्धा न पुनरुत्पद्यते एवमदृष्टकारितं शरीरमपवर्गे पुनर्नोत्पद्यते इति // 74 // न-अकृताभ्यागमप्रसङ्गात् // 75 // नायमस्ति दृष्टान्तः, कस्मात् ?, अकृताभ्यागमप्रसङ्गात्= अकृतम्= प्रमाणतोऽनुपपन्न तस्याऽभ्यागमः= अभ्युपपत्तिः= व्ययसायः, एतत्वधानेन प्रमाणतोऽनुपपन्नं मन्तव्यम् , पूर्वपक्षिमते शरीरसंयोगस्य नित्यत्वापत्तिदोषमाह- नित्यत्वेति, प्रायणानुपपत्तेः= उक्तरीत्या मरणानुपपत्त्या शरीरसंयोगस्य नित्यत्वं स्यात् ततश्चापवर्गानुपपत्तिरपि पूर्वपक्षिमते विज्ञेयेति सूत्रार्थः / व्याचष्टे-विपाकेति, विपाकसंवेदनात्= कर्मफलभोगात् , जन्मकारणमाह- कर्मेति, तदनेन स्वमते कर्मभिर्जन्ममरणयोरुपपत्तिः प्रदर्शिता / पूर्वपक्षिमते काका मरणानुपपत्तिमाह- भूतेति / मरणानुपपत्तौ शरीरसंयोगस्य नित्यत्वापत्तिमाह- प्रायणानुपपत्तेरिति / ननु मरणं यादृच्छिकम्= निर्हेतुकमेव भवती. त्याशङ्कयाह- यादृच्छिके इति, मरणस्य निर्हेतुकत्वे प्रायणभेदस्य= प्रत्यक्षसिद्धस्य मृत्योरनेकविधत्वस्यानुपपत्तिरस्ति- कारणभेदं विना कार्यभेदानुपपत्तेरित्यर्थः, अस्मन्मते तु सर्वमिदं कर्मवैलक्षण्यादुपपद्यते इति न कोपि दोषः // 73 // _अग्रिमसूतमवतारयति- पुनरिति, अपवर्गे जाते प्रदर्शितायाः शरीरसंयोगापत्तेरभावमुपपादयति अनेन सूत्रेण पूर्वपक्षीत्यर्थः। एतत्समाधित्सुः= उक्तदोषसमाधानेच्छु: पूर्वपक्षी। अणुश्यामतेति- यथा परमाणुश्यामता नित्याप्यग्निसंयोगान्नश्यति न च पुनरुत्पद्यते तथा एतत्= अपवर्गानन्तरं शरीरसंयोगापत्त्यभावः स्यात्= संभवतीति नापवर्गानन्तरमस्मन्मतेपि पुनः शरीरसंयोगापत्तिदोष इतिसूत्रार्थः, अत्र " अणुश्यामतानित्यत्ववत् " इत्यत्र 'अणुश्यामतानुत्पत्तिवत् ' इति किं वा 'अणुश्यामताविनाशनित्यत्ववत् / इति वक्तव्यमासीत् / किं वा यथाऽणुश्यामताया अनित्यत्वमुपपद्यते तथाऽस्मन्मतेपि एतत्= शरीरसंयोगानित्यत्वं स्यात्= उपपद्यते इति न मरणापवर्गयोग्नुपपतिरित्येवं सूत्रं व्याख्येयम् / व्याचष्टेयथेति, अणोः= परमाणोः, प्रतिबद्धा= विनष्टा / प्रकृतमाह- एवमिति, अदृष्टकारितम् = परमाणुगुणभूतादृष्टजन्यं शरीरं तादृशादृष्टनिवृत्त्या निवृत्तमपवर्गानन्तरं नोत्पद्यते इत्यन्वयः, स्पष्टमन्यत् // 74 // कर्मनिरपेक्षत्वमतं निराकरोति- नेति, कर्मनिरपेक्षत्वं नोपपद्यते इत्यर्थः, उक्ते हेतुमाह- अकृतेति, कर्मनिरपेक्षत्वमते अकृतानामेवात्मना कर्मणां फलभोगस्याभ्यागमप्रसङ्गः= प्राप्तिप्रसङ्गोस्ति स च न युक्त इत्यन्वयः, दृश्यमानस्य फलभोगस्य कर्मनिरपेक्षत्वमते निष्कारणकत्वं प्राप्नोति तच्च न संभवतिकार्यमात्रस्य सकारणकत्वनियमादिति सूत्रार्थः / वस्तुतस्तु पूर्वसूत्रोक्तार्थस्य साक्षात् प्रत्याख्यानमुपेक्ष्याऽकृताभ्यागमदोपप्रदर्शनं नातीव हृदयङ्गमं भवति, किं वाह्निकसमाप्तिकाम उपसंहरन् पूर्वपक्षिमते साकल्येन दोषमाहेति समाधेयमित्यलमनयोः सूत्रकारभाष्यकारयोविवेचनया यतः छात्राणां क्लेशायैवानयोर्जन्म जातमितिसंभावयामि / व्याचष्टे- नायमिति, अयम्= पूर्वसूत्रोक्तः / उक्तदृष्टान्तस्यानुपपत्तेर्हेतुं जिज्ञासते- कस्मादिति / हेतुमाह-- अकृतेति, अकृतपदस्यार्थमाह- प्रमाणत इति, तस्य प्रमाणतोऽनुपपन्नस्य,