________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेकर्मविपाकसंवेदनं दर्शनमिति तददृष्टकारितमिति च कस्यचिद् दर्शनम्= अदृष्टं नाम परमाणनां गुणविशेषः क्रियाहेतुस्तेन पेरिताः परमाणवः संमूर्छिताः शरीरमुत्पादयन्तीति तद् मनः समाविशति स्वगुणेनादृष्टेन प्रेरितम्. समनस्के शरीरे द्रष्टरुपलब्धिर्भवतीति / एतस्मिन् वै दर्शने गुणानुच्छेदात पुनस्तत्प्रसङ्गः= अपवर्गेऽपवर्गे शरीरोत्पत्तिः- परमाणुगुणस्यादृष्टस्याऽनुच्छेद्यत्वादिति // 71 // मनःकर्मनिमित्तत्वाच संयोगानुच्छेदः // 72 // मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्. तत्र किंकृतं शरीरादपसर्पणं मनस इति? / कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानादपसर्पणोपपत्तिरिति / अदृष्टादेवापसर्पणमितिचेत् ?, योऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुरपीति न- एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः= एवं च सति एकमदृष्टं जीवनप्रायणयोहेतुरितिप्राप्तं नैतदुपपद्यते // 72 // मणां चाभिमुख्याभावेनाऽजातेपि भेददर्शने भेददर्शनार्था शरीरोत्पत्तिः संभवतीत्यर्थः प्रतिभाति, अन्यत्तु भाष्यकार एव विजानातीत्यलम् // ___परिहतु जैनमतमुपक्षिपति- कर्मेति, यत् कर्मविपाकसंवेदनम्= कर्मफलभोगः किं वा कर्मफलभोगज्ञानं तदेव दर्शनं तच्चादृष्टजन्यमिति कस्यचित्= जिनस्य दर्शनम् / उक्तं व्याचष्टे- अदृष्टमिति, तेन= अदृष्टेन, संमूछिता:= संयुक्ताः, तत्= शरीरमुत्पन्नम् , स्वगुणेनादृष्टेन प्रेरितं मनः शरीरे समाविशतीत्यन्वयः, द्रष्टुः= आत्मनः, उपलब्धिः= विषयोपलब्धिः आत्मज्ञानं वा / उक्तमते दोषमाह- एतस्मिन्निति / उक्तं व्याचष्टे- अपवर्गे इति, अत्र हेतुमाह- परमाणुगुणस्येति, उक्तमते शरीरोत्पत्तिकारणीभूतस्य परमाणुगुणस्य विनाशासंभवादपवर्गानन्तरमपि शरीरोत्पत्तिः स्यादेवेत्यर्थः / पूर्वपक्षप्रतिपादनस्य याथात्म्यं तु जैनग्रन्थेष्वेव द्रष्टव्यम् / अत्र- "अपरे त्वार्हता अदृष्टं परमाणुगुणं वर्णयन्ति= पार्थिवादीनामणूनां मनसश्च गुणोऽदृष्टं तत्र पार्थिवाद्या अणवः स्वादृष्टप्रयुक्ताः शरीरमारभन्ते मनश्च स्वगुणप्रयुक्तं शरीरमाविशति तच्च स्वकादेवाऽदृष्टात् पुद्गलस्य सुखदुःखोपभोगं साधयति न तु पुद्गलस्य धर्मोऽदृष्टमिति. सांख्यवत्तेपामपि दिगम्बराणां पुनस्तत्प्रसङ्गोऽपवर्गे एतदुपपादयति" इति तात्पर्यटीका // 71 // उक्तजैनमते सूत्रकारोपि दोषमाह- मन इति, “संयोगानुच्छेदः” इत्यत्र 'संयोगस्यानुच्छेदः' इतिवक्तव्यमासीत् / उक्तरीत्या जैनमते शरीरसंयोगो मनःकर्मनिमित्तकः= मनोवृत्त्यदृष्टनिमित्तकोस्ति तत्र मनोगुणस्यादृष्टस्य निवृत्त्यसंभवात् संयोगानुच्छेदः शरीरवियोगो नोपपद्यते इति मरणानुपपत्तिप्रसङ्ग इतिसूत्रार्थः / व्याचष्टे- मनोगुणेनेति, मनसि शरीरे समावेशिते, संयोगव्युच्छेदः= शरीरसंयोगाभावो न स्यादित्यन्वयः / उक्तमतमाक्षिपति- तत्रेति, तत्र= एवं सति, स्यादितिशेषः / स्वमते मरणोपपत्तिमाह- कर्मेति, कर्मसापेक्षत्वमते तु शरीरसंयोगकारणीभूतकर्मणः क्षये जाते शरीरवियोगकारणीभूताद् विपच्यमानात्= फलोन्मुखात् कर्माशयान्तरात्= कर्मान्तरादपसर्पणस्य= शरीरवियोगस्योपपनिः संभवति / नन्वस्मन्मतेप्युक्तादृष्टादेवापसर्पणम्= शरीरवियोग: संभवति संयोगवदित्याशङ्कते-- अदृष्टादेवेति / उक्ते दोषमाह- य इति, शरीरोपसर्पणम्= शरीरसंयोगः, त्वन्मते एकस्यैवादृष्टस्योपसर्पणाप. सर्पणहेतुत्वं प्राप्तं तत्तु न संभवतीत्यर्थः, मनस्येकस्यैवादृष्टस्य संभवात्. अनेकादृष्टस्वीकारे च तत्कार्ययोजीवनमरणयोर्युगपदापत्तिः स्यात्. क्रमेणानेकादृष्टस्वीकारे च क्रमनियामकाभावाद्विनिगमनाविरहस्तत्राप्यदृष्टान्तरस्वीकारे चानवस्थेति दोषा इत्याशयः / प्रतिषेधहेतुमाह- एकस्येति, प्रायणम्= मृत्युः, जीवनप्रायणयोः परस्परविरोधात् तदुभयकारणत्वमेकस्यादृष्टस्य न संभवतीत्यर्थः / उक्तं विशदयतिएवमिति, एवं च सति= उक्तपूर्वपक्षेण, उक्तं परिहरति- नैतदिति, स्पष्टमन्यत् // 72 / /