________________ शरीरस्यादृष्टजन्यत्वप्रतिपादनम ] न्यायभाष्यम् / उपपन्नः शरीरवियोग इति, एवं चेन्मन्यसे ? पुनस्तत्मसङ्गोऽपवर्गे= पुनः शरीरोत्पत्तिः प्रसज्यते इति= या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिरदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिरदर्शनभूता नैतयोरदर्शनयोः कचिद् विशेष इत्यऽदर्शनस्याऽनिटत्तेरपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति // चरितार्थता विशेष इति चेत् ? ___न- करणाऽकरणयोरारम्भदर्शनात् // चरितार्थानि भूतानि दर्शनावसानाद न शरीरान्तरमारभन्ते इत्ययं विशेष:. एवं चेदुन्यते ? न- करणाकरणयोरारम्भदर्शनात्= चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते. प्रकृतिपुरुषयोर्नानात्वदर्शनस्याऽकरणाद् निरर्थकः शरीरारम्भः पुनः पुनदृश्यते. तस्मादकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर्युक्ता. युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः। कृतार्थानि भूतानि शरीरं नोत्पादयन्तीति शरीरवियोगः- मोक्षोऽस्मन्मतेप्युपपन्न इत्यर्थः / पूर्वपक्षमुपसंहरति- एवं चेदिति / उक्ते दोपमाह- पुनरिति / उक्तं व्याचष्टे- पुनरिति, पुनः= मोक्षानन्तरमपि। मोक्षानन्तरमपि पूर्वपक्षिमते संसारापत्तिमुपपादयति- या चेति, अदर्शनाभिमता= अदर्शनाख्या, एतयोः= शरीरोत्पत्तिपूर्वभाविनः मोक्षावस्थाभाविनश्चादर्शनस्य न क्वचित्= कस्मिंश्चिदप्यंशे= कश्चिद्विशेष उपलभ्यते, अपवर्गे= मोक्षावस्थायामपि अदर्शनस्याऽनिवृत्तेः सत्त्वादेव पुनः= मोक्षानन्तरमपि शरीरसंबन्धः स्यादेवेत्यन्वयः, यदा हि प्रकृतिपुरुषादर्शनमेव शरीरकारणं तदा तादृशादर्शनं यथा शरीरोत्पत्तेः पूर्व संभवति तथा मोक्षावस्थायामपि संभवति- दर्शनकारणाभावात् पूर्वजातदर्शनस्य च क्षणिकत्वेन विनाशादिति तादृशादर्शनेन मोक्षानन्तरमपि शरीरसंयोगः स्यादेवेत्यर्थः, स्पष्टमन्यत् // यदऽदर्शनयोरविशेष उक्तस्तत्र विशेषमाह- चरितार्थतेति, शरीरोत्पत्तेः पूर्व भूतानां चरितार्थता नास्ति- भोगस्याऽवशेषात्. अपवर्गे जाते तु भोगाभावाद् भूतानां चरितार्थता भवतीत्ययं विशेषस्तथा चैतादृशचरितार्थतया प्रतिबन्धात् मोक्षानन्तरं शरीरसंबन्धाभाव उपपद्यते इत्यर्थः / एतन्निराकरोतिनेति, परिहारहेतुमाह- करणेति, द्विविधं हि दृश्यमुक्तं तत्र पूर्वजन्मनि शब्दादिदृश्यदर्शनस्य करणं संपादनं जातमेव प्रकृतिपुरुपयोर्भेददर्शनस्य च संपादनं न जातमिति दृश्यदर्शनस्य करणाऽकरणयोः शरीरारम्भः= शरीरोत्पत्तिः समानैव दृश्यते इति विषयोपभोगसंपादनेन चरितार्थैरपि भूतैरुत्तरोत्तरं शरीरोत्पत्तिर्यथा मोक्षात्पूर्व दृश्यते तथा मोक्षानन्तरमपि स्यादेवेति दोषस्तवस्थ एवेत्यर्थः / पूर्वपक्षं व्याचष्टे- चरितार्थानीति, दर्शनावसानात्= दृश्यदर्शनसमाप्त्या चरितार्थानीत्यन्वयः / उत्तरमाह- नेति / उक्तं व्याचष्टे- चरितार्थानामिति, विषयोपलब्धिकरणात्= विषयोपभोगसंपादनात् चरितार्थानाम्= चरितार्थैरपि भूतैर्यथा मोक्षात्पूर्व पुनः पुनः शरीरोत्पादनं दृश्यते तथा मोक्षानन्तरमपि चरितार्थैरपि भूतैः शरीरोत्पादनं स्यादिति मोक्षानन्तरमपि शरीरसंयोगात् ससंसारत्वापत्तिस्तदवस्थैवेति दृश्यदर्शनकरणपक्षेपि शरीरारम्भ आपद्यते इत्यन्वयः, दर्शनस्याकरणपक्षे व्यर्थमपि शरीरारम्भमाह- प्रकृतीति, नानात्वदर्शनस्य= भेददर्शनस्यैव प्रधानत्वेन तदकरणात् शरीरारम्भो निरर्थक इतिभावः / उपसंहरतितस्मादिति, अकर्मनिमित्तायांभूतसृष्टौ= पूर्वपक्षिमते शरीरोत्पत्तिदर्शनार्था= प्रकृतिपुरुषभेददर्शनार्था न संभवति- अद्यावधि भेददर्शनस्याजातत्वात् , अन्यथा कल्पारम्भकालिकशरीरसंयोगेनैव तादृशभेददर्शनस्य सिद्धिः स्यात् तथा चागेतनशरीरयोगो न स्यादिति शरीराभाव एव स्यादित्यर्थः / स्वमते शरीरोत्पत्तेर्दर्शनार्थत्वसंभवमाह- युक्तेति, कर्मसापेक्षत्वमते तु कर्मणामद्यावधि क्षयाभावेन भेददर्शनोत्पादकक