________________ 338 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेउपपन्नश्च तद्वियोगः- कर्मक्षयोपपत्तेः // 70 // कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः / कस्मात् ?, कर्मक्षयोपपत्तेःउपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् , प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर्न करोति इत्युत्तरस्याऽनुपचयः पूर्वोपचितस्य विपाकपतिसंवेदनात् प्रक्षयः, एवं प्रसवहेतोरभावात् पतितेऽस्मिन् शरीरे पुनः शरीरान्तरानुत्पत्तेरपतिसंधिः / अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस्तद्वियोगानुपपत्तिरिति // 70 // तदऽदृष्टकारितमितिचेत् ? पुनस्तत्प्रसङ्गोऽपवर्गे // 71 // अदर्शनं खलु अदृष्टमित्युच्यते. अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः / न जात्वऽनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति. तच्चास्य दृश्यं द्विविधम्- विषयश्च नानात्वं चाऽव्यक्तास्मनोः तदर्थः शरीरसर्गः, तस्मिन्नऽवसिते चरितार्थानि भूतानि न शरीरमुत्पादयन्तीति कर्मसापेक्षत्वमते स्वकीये अपवर्गोपपत्तिं किं वा मरणोपपत्तिमाह- उपपन्न इति, तद्वियोगः= शरीरवियोगः मृत्युरपवर्गश्चाप्युपपन्नः- कर्मक्षयोपपत्तेः= शरीरसंयोगकारणीभूतानां कर्मणां फलभोगेन क्षये जाते शरीरवियोगः संभवत्येव, कर्मनिरपेक्षत्वमते तु शरीरवियोगकारणासंभवाद् शरीरवियोगो नोपपद्यते इतिसूत्रार्थः, उपपन्नश्चेति वाक्यं न प्रधानं सूत्रमित्यपि केचित् / व्याचष्टे- कर्मनिमित्ते इति / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- कर्मक्षयेति / कर्मक्षयोपपत्तिमाह- उपपद्यते इति, सम्यग्दर्शनात् पोडशपदार्थविवेकज्ञानात् किं वा स्वस्वमतानुसारेण तत्त्वज्ञानात् , अयं च कर्मक्षय आत्यन्तिको मोक्षाव्यवहितपूर्वो विज्ञयः / उक्तमुपपादयति- प्रक्षीणे इति, वीतरागः- गगहीनः पुरुषः पुनर्भवहेतुभूतम्- पुनर्जन्महेतुभूतं कर्म कायवाङ्मनोभिन करोतीति उत्तरस्य कर्मणोऽनुपचयःसंचयाभावः सिद्धः पूर्वोपचितस्य च कर्मणो विपाकप्पतिसंवेदनात्= भोगात् प्रक्षयो भवतीति कर्मक्षय उपपन्नः / उपसंहरति- एवमिति, एवम्- उक्तप्रकारेण कर्मक्षये सति अस्मिन् वर्तमाने शरीरे पतिते प्रसवहेतोरभावात् जन्महेतुभूतकर्मणामभावात् पुनरस्यात्मनः शरीरान्तरं नोत्पद्यते इत्यऽप्रतिसन्धिःशरीरवियोगः किं वा शरीराऽसंबध आत्यन्तिकः सिद्धस्तेन मोक्षोपि सिद्धः कर्मसापेक्षत्वमते इत्यन्वयः / पूर्वपक्षिमते बाधकमाह- अकर्मेति, पूर्वपक्षिमते तु कर्मनिरपेक्षाणामेव भूतानां शरीरकारणत्वं तत्र भूतक्षयश्चानुपपन्न इति तद्वियोगानुपपत्तिः= शरीरवियोगो नोपपद्यते- शरीरकारणीभूतानां भूतानां क्षयासंभवादित्यन्वयः, स्पष्टमन्यत् / प्रक्षीणे मोहे इत्यादिकं सर्व दुःखजन्मप्रवृत्तीतिसूत्रभाष्ये द्रष्टव्यम् // 70 // ननु तत्= तयोः= प्रकृतिपुरुषयोर्यद् अदृष्टम् = अदर्शनं तत्कारितम् तत्कृतः शरीरसंयोग इति प्रकृतिपुरुपदर्शनेन शरीरसंयोगो निवर्तते इति नास्मन्मते मोक्षानुपपत्तिरित्याशङ्कते- तदिति, अत्र दोषमाह- पुनरिति, अपवर्ग= मोक्षावस्थायामपि प्रकृतिपुरुपदर्शनकारणस्यासंभवाददर्शनं प्राप्तमिति तेनादर्शनेन पुनः अपवर्गानन्तरमपि तत्प्रसङ्गः= शरीरसंयोगप्रसङ्ग इति पूर्वपक्षिमते दोष इतिसूत्रार्थः / व्याचष्टे- अदर्शन मिति, सूत्रघटकादृष्टशब्देन प्रकृतिपुरुपयोरदर्शनं ग्राह्यमित्यर्थः / अष्टकारिताप्रकृतिपुरुषादर्शनकृता / पूर्वपक्षी स्वमतमाह- न जात्वित्यादिना, द्रष्टा= आत्मा, निरायतनः= निरा. श्रयः= शरीररहितः, पश्यति= द्रष्टुमर्हति, तथा च दृश्यदर्शनार्थमेव शरीरमित्यर्थः / दृश्यद्वैविध्यमाहतच्चेति, अस्य= आत्मनः, विषयाः शब्दस्पर्शादयः, अव्यक्तात्मनोः= प्रकृतिपुरुषयोः नानात्वम्= भेदश्च दृश्यः, शरीरसर्गश्च तदर्थः= उक्तद्विविधदृश्यदर्शनार्थ:- शरीरं विना दृश्यदर्शनासंभवादित्यर्थः, तस्मिन्= दश्यदर्शने अवसिते- समाप्ते सति शरीरान्तरोत्सत्तेः फलभूतस्य दर्शनस्य समाप्त्या चरितार्थानि