________________ शरीरस्यादृष्टजन्यत्वप्रतिपादनम् ] न्यायभाष्यम / 337 ____ योऽयमकर्मनिमित्ते शरीरसर्गे सति नियम इत्युच्यते अयम्- “शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म 68" इत्यनेन प्रत्युक्तः। कस्तावदयं नियमः?. यथैकस्यात्मनः शरीरं तथा सर्वेषामिति नियमः, अन्यस्याऽन्यथा अन्यस्याऽन्यथा इत्यनियमः= भेदः व्यावृत्तिविशेष इति, दृष्टा च जन्मव्यावृत्तिः- उच्चाभिजनो निकृष्टाभिजन इति. प्रशस्तं निन्दितमिति. व्याधिबहुलम्. अरोगमिति. समयं विकलमिति. पीडाबहुलं सुखबहुलमिति. पुरुषातिशयलक्षणोपपन्नं विपरीतमिति. प्रशस्तलक्षणं निन्दितलक्षणमिति. पद्धिन्द्रियं मृद्विन्द्रियमिति. सूक्ष्मश्च भेदोपरिमेयः, सोयं जन्मभेदः प्रत्यात्मनियतात् कर्मभेदादुपपद्यते / असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वादात्मनां समानत्वाच्च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोरभावात् सर्व सर्वात्मनां प्रसज्येत, न विदमित्थम्भूतं जन्म, तस्माद् नाऽकर्मनिमित्ता शरीरोत्पत्तिरिति // 69 // ___व्याचष्टे- योयमिति, शरीरसर्गे अकर्मनिमित्ते= कर्मनिरपक्षे सति योऽयं पूर्वपक्षिमतेन नियमः= सर्वेषां शरीराणामेकरूपत्वनियमः प्राप्नोति- परस्परं वैलक्षण्यस्य कारणासंभवात्= वैलक्षण्यकारणी. भूतानां कर्मणां कारणत्वास्वीकारात् इत्युच्यते. किं वा यः खलूक्तो नियम इत्युच्यते अयम्= सोपि "शरीरोत्पत्तिनिमित्तवत् " इत्यनेन सूत्रेण प्रत्युक्तः= प्रत्याख्यातः- अस्मन्मते सर्वत्र कर्मसापेक्षत्वस्वीकारेण कर्मभिरेव दृष्टं शरीराणां वैलक्षण्यमुपपद्यते एवेति न शरीराणामेकरूपत्वनियमः प्राप्नोतीत्यर्थः / "अनियमः” इतिपाठस्तु न संगतः / नियमपदार्थ जिज्ञासते- क इति / नियमस्वरूपमत्राह- यथेति, यथा= यादृशः, तथा= तादृशः, सर्वेषामात्मनाम् , यावच्छरीराणामेकरूपत्वमेवात्र नियमपदार्थ इत्यर्थः / अनियपदार्थमाह- अन्यस्येति, अन्यस्यात्मनः, अन्यथा= विलक्षणम् , अनियमः= परस्परं भेदः, मेदश्व व्यावृत्तिविशेषः= परस्परवलक्षण्यमित्यन्वयः, सर्वेषामपि शरीराणां यत् परस्परवैलक्षण्यं तदेवानियमपदार्थोऽत्रेत्यर्थः / अत्र- "कः पुनरयं नियमः ?, यथैकस्यात्मनः शरीरं तथा सर्वात्मनामिति नियमः, अन्यस्यान्यथा अन्यस्यान्यथा इत्यनियमः= भेदः= व्यावृत्तिः, दृष्टः शरीरभेदः प्राणिनामनेकरूपः स च कर्मनिरपेक्षैर्भूतैः शरीरारम्भे न युक्तः, कर्मणां भेदात् शरीराणि भिद्यन्ते इति युक्तम्" इतिवार्तिकम् / ननु यदि शरीराणां परस्परवैलक्षण्यं स्यात् तदा स्यादपि कर्मसापेक्षत्वमित्याशङ्कय शरीराणां परस्परवैलक्षण्ये प्रत्यक्षप्रमाणमाह- दृष्टेति, जन्मव्यावृत्तिः= शरीराणां वैलक्षण्यम् , वैलक्षण्यमाहउच्चेति, उच्चाभिजन:= कश्चिदुञ्चकुलप्रसूतः कश्चिद् निकृष्टकुलप्रसूतो देह इति वैलक्षण्यं प्रत्यक्षमेव तच कारणं विना न संभवति तत्र कारणान्तरासंभवात् कर्मैव तत्कारणमित्यर्थः एवमग्रेप्यन्वयः / प्रशस्तम्= सुन्दरं निन्दितम्= कुरूपं शरीरम् , समग्रम्= समग्राङ्गयुक्तम् , विकलम्= अङ्गहीनम् , पीडा= दुःखम् , पुरुषातिशयलक्षणोपपन्नम् = पुरुषोत्कर्षसूचकैराजानुबाहुत्वादिलक्षणयुक्तम् , विपरीतम्= पुरुषापकर्षसूचकलक्षणयुक्तम् , प्रशस्तलक्षणम् सुन्दरावयवसंनिवेशयुक्तम् , उक्तविपरीतं च निन्दितलक्षणं शरीरम् , पदिन्द्रियम्= समर्थन्द्रिययुक्तम् , मृद्विन्द्रियम्= असमथेन्द्रिययुक्तम् , एते स्थूला भेदाः सर्वजनप्रत्यक्षाः, सूक्ष्मभेदानामपरिमितत्वमाह- सूक्ष्मश्चेति / स्वमतेनोपसंहरति- सोयमिति, जन्मभेदः= शरीराणां वैलक्षण्यं प्रत्यात्मनियतात् कर्मभेदादुपपद्यते नान्यथेत्यन्वयः / पूर्वपक्षिमते बाधकमाह- असतीति, प्रत्यात्मनियते= प्रत्यात्मसंबद्धे कर्मभेदे असतीत्यन्वयः, पूर्वपक्षिमते कर्मसापेक्षत्वमपि नास्ति आत्मस्वपि अतिशयः= विशेषो नास्ति पृथिव्यादिभूतानां च सर्वात्मसाधारणत्वात् पृथिव्यादिष्वपि नियमहेतु:= शरीरसंयोगादिनियमहेतुर्नास्तीति सर्वशरीरगतं सर्व सुखादिकं सर्वात्मनां प्रसज्येत तथोक्तवैलक्षण्यमपि नोपपद्यते- कारणाभावादित्यर्थः / विपक्षे प्रत्यक्षबाधमाह- न विति, इदं जन्म= शरीरम् इत्थम्भूतम् सर्वात्मसाधारणम् अविलक्षणं च तु नास्ति तथा चाऽसाधारणत्वविलक्षणत्वयोरुपपत्त्यर्थ कर्मसापेक्षत्वमाव३यकमिति नाऽकर्मनिमित्ता- कर्मलक्षणनिमित्तरहिता शरीरोत्पत्तिः संभवतीत्यन्वयः, स्पष्ठमन्या! // 69 //