________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्रिकेपृथिव्यादिभिरुत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोरभावात् सर्वात्मनां सुखदुःखसं. वित्तिसाधनं समानं प्राप्तम् , यत्तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्थाहे. तुरिति विज्ञायते, परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्नात्मनि वर्तते तस्यैवोपभो. गायतनं शरीरमुत्पाद्य व्यवस्थापयति, तदेवं शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मेति विज्ञायते / प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्महे इति // 68 // एतेन नियमः प्रत्युक्तः / / 69 // नोपपद्यते तथा हि चैत्रात्मनस्तेनैव शरीरेण भोगसंपादकः संबन्ध इत्यस्य निमित्तं प्रत्यात्मनियतं नास्ति- आत्मनां निरतिशयत्वेन= समानरूपत्वेन कर्मातिरिक्तनिमित्तविशेषाश्रयत्वासंभवात्. निरतिशयैरेवात्मभिः शरीराणां संबन्धोस्तीति सर्वात्मभोगजनकत्वं स्यादेव, तथा सर्वात्मनां समानैः= सर्वात्मसाधारणैः पृथिव्यादिभूतैः शरीरमुत्पादितमस्ति पृथिव्यादिषु च चैत्रात्मादिसंबन्धनियामको हेतुर्नास्ति तथा च यथात्मसु संबन्धनियामको नास्ति आत्मनां निरतिशयत्वात् तथा शरीरेष्वपि संबन्धनियामको न संभवति- शरीरकारणीभूतानां पृथिव्यादिभूतानां सर्वात्मसाधारणत्वात् तथा च कर्मनिरपेक्षभूतेभ्य उत्पन्नं यावच्छरीरं समानम्= समानभावेन= अविशेषेण सर्वेषामात्मनां सुखादिज्ञानसाधकं प्राप्तम्स्यादित्यन्वयः, न चैवमस्तीत्याह- यत्त्विति, यच्च शरीरं प्रत्यात्म व्यवतिष्ठते= व्यवस्थया वर्ततेएकस्यैवात्मनः सुखादिसाधनं भवति न सर्वेषामिति व्यवस्था तत्र शरीरोत्पत्तिनिमित्तं कमैव व्यवस्थाहेतुरितिविज्ञायते- प्रकारान्तरासंभवात् / शरीरकारणीभूतस्य कर्मण एतद्व्यवस्थाहेतुत्वमुपपादयतिपरिपच्यमान इति, यस्यात्मनः कर्मणा शरीरमुत्पन्नं तच्छरीरं तस्यैवात्मनो भोगसाधनं भवति नान्यस्येत्यर्थः, परिपच्यमानः= फलोन्मुखः, प्रत्यात्मनियतः= तत्तदात्मव्यक्तिसमवेतः, कर्माशयः= अदृष्टम् , व्यवस्थापयति= उक्तभोगसाधनत्वव्यवस्थां करोतीत्यर्थः / उपसंहरति- तदेवमिति, अत्र 'शरीरोत्पत्तिनिमित्तत्ववत् ' इति वक्तव्यमासीत् / प्रकृतसंयोगपदार्थमाह-प्रत्यात्मेति, यत् खलूक्तरूपं शरीरस्य प्रत्यात्मव्यवस्थानं तदेवात्मनः शरीरेण संयोग इत्युच्यते एतादृशसंयोगस्यापि कारणं कमैवेत्यर्थः / किं वा यः खलु तेन तेन शरीरेण तस्य तस्यात्मनो भोगकारणीभूतः संयोगः स एव शरीराणां प्रत्यात्मव्यवस्थानमित्युच्यते इत्यर्थः // 68 // उक्तमन्यत्रातिदिशति- एतेनेति, एतेन= "शरीरोत्पत्तिनिमित्तवत्" इत्यादिसूत्रः शरीरोत्पत्त्या. दीनां कर्मसापेक्षत्वनिरूपणेन नियम:= सर्वेषां शरीराणामेकरूपतानियमोपि कर्मसापेक्षत्वेन प्रत्युक्तः प्रत्याख्यात इत्यन्वयः, पूर्वपक्षिमते शरीरोत्पत्तेः कर्मनिरपेक्षत्वात् शरीराणामेकरूपत्वं प्राप्नोति- सरोगत्वनीरोगत्वादिलक्षणस्य विविधवैलक्षण्यस्य कारणासंभवात् , अस्मन्मते च कर्मसापेक्षत्वात् शरीराणां विविधवलक्षण्यं तत् संभवतीति कर्मनिरपेक्षत्वेनाऽऽपद्यमानः शरीराणामेकरूपत्वनियमः प्रत्याख्यात इति सूत्रार्थः। नियमो ह्येकरूपतेति अनियमः= अनेकरूपता= परस्परवैलक्षण्यमिति पदार्थः / अत्र- "ये तु मेनिरे न कर्मनिबन्धनः शरीरसर्गोऽपि तु प्रकृत्यादिनिबन्धनः- प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्त्वरजस्तमोरूपतया प्रवृत्तिशीलाः स्वं खं विकारमारभन्ते प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते. तद् यथा कृषीवल: केदारादपां पूर्णात् केदारान्तरमपूर्णमाऽऽपिप्लावयिषुरपां सेतुमात्रं भिन्नत्ति तास्तु निम्नाभिसर्पणस्वभावा अपहतसेतवः स्वयमेव केदारमाप्लावयन्ति एवमाप्लावयन्ति प्रकृतयोपि विकारानिति यथाहु:- "निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षत्रिकवत् " (योगसूत्रम् ) इति तान् प्रत्याह- एतेनानियमः प्रत्युक्तः” इति तात्पर्यटीका, तदेतद् योगभाष्यकैवल्यपादतृतीयसूत्रे द्रष्टव्यम् / वस्तुतस्तु "एतेनानियमः प्रत्युक्तः” इत्येवं यः सूत्रपाठः स तु न संगत: प्रतिभाति- एतेनपूर्वसूत्रोक्तकर्मसापेक्षत्वेनाऽनियमपदार्थस्य प्रत्याख्यानासंभवात् / अनियम इतिपाठाग्रहपक्षे तु "प्रत्युक्तः” इत्यस्य ' उपपादितः' इत्यों वक्तव्यः /