________________ शरीरस्यादृष्टअन्यत्वप्रतिपादनम् ] न्यायभाष्यम् / प्राप्तौ चानियमात् // 67 // न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर्दश्यते. तत्राऽसति कर्मणि न भवति सति च भवतीत्युपपन्नो नियमाभाव इति / कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुपु नियमः स्यात्- न ह्यत्र कारणाभाव इति // 67 // अथापि शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म // 68 // .यथा खल्विदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखकण्ठहृदयाऽऽमाशयपक्काशयाऽध स्रोतसां च परमदुःखसंपादनीयेन संनिवेशेन व्यूहितम् अशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैरुत्पादयितुमिति कर्मनिमित्ता शरीरोत्पत्तिरिति विज्ञायते, एवं च प्रत्यात्मनियतस्य निमित्तस्याऽभावाद् निरतिशयैरात्मभिः संबन्धात् सर्वात्मनां च समानैः ननु कर्मनिरपेक्षत्वमतेति यद् यथा भवति तत् तथैव भवति नान्यथा, अन्यथा कर्मसापेक्षभूतेभ्योपि स्थाल्यादिगतेभ्यः कथं न शरीरमुत्पद्यते इति चोद्यस्य संभवात् तथा च गर्भाशयगतेभ्य एव कर्मनिरपेक्षेभ्योपि भूतेभ्यः शरीरमुत्पद्यते न स्थाल्यादिगतेभ्य इति नियम उपपद्यते इत्याशङ्कयाहप्राप्ताविति, प्राप्ती= स्त्रीपुरुषयोः संयोगे सत्यपि कदाचित् गर्भाधानं शरीरोत्पत्तिा न भवतीत्यऽस्मादऽनियमादपि कर्मसापेक्षत्वं सिद्धम् अन्यक्षा कर्मसापेक्षत्वाभावेन स्त्रीपुरुषयोः संयोगे सत्यवश्यं गर्भाधानं स्यात् न चैवं नियमोस्तीति तादृशनियमाभावादपि कर्मसापेक्षत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- नेति, तत्र= एवं सति= कर्मणां कारणत्वस्वीकारे, गर्भाधानमितिशेषः, नियमाभावः- गर्भाधाननियमस्याभाव उपपन्नस्तेन प्रकारान्तरासंभवात् कर्मसापेक्षत्वं सिद्धमित्यर्थः / पूर्वपक्षिमते बाधकमाह- कमेंति कर्मनिरपेक्षाणां भूतानां शरीरोत्पत्तिकारणत्वे स्त्रीपुरुषसंयोगे गर्भाधानस्य नियमः स्यादित्यर्थः, नियमापत्ती हेतुमाह-न हीति, अत्र= पूर्वपक्षिमते स्त्रीपुरुषसंयोगे जाते गर्भाधानस्य कारणाभावो नास्ति येन गर्भाधानाभाव उपपद्येत, अस्मन्मते तु कर्मरूपकारणस्याभावाद् गर्भाधानाभाव उपपद्यते इति कर्मसापेक्षत्वं सिद्धमित्यर्थः // 67 // अग्रिमसूत्रमवतारयति- अथापीति, किं चेत्यर्थः / अत्र- " नन्वात्मनां विभुत्वात् सकलशरीरैः संबन्धादिदं शरीरमस्येवात्मन इतिनियमे को हेतुरित्यस्योत्तरद्वारकं सूत्रम्" इति श्रीगुरुचरणाः। किं वा ननु यहा न गर्भाधानं तदा न दम्पत्त्योर्वास्तवः संयोग इत्याशङ्कय तादृशसंयोगाभावोपि कर्मसापेक्षत्वं विना नोपपद्यते- प्रकारान्तरासंभवादित्याह- शरीरेति, यथा शरीरोत्पत्तिकारणं कर्म तथा स्त्रीपुरुषयोः संयोगोत्पत्तिकारणमपि कर्मैव तथा च सति कर्मणि गर्भाधानहेतुः संयोगो भवति नान्यथेति संयोगानियमोपि कर्मसापेक्षत्वेनोपपद्यते इति सूत्रार्थः, किंवाऽऽत्मनां विभुत्वेन सर्वशरीरैः संयोगे सत्यपि सुखादिहेतुभूतो यः शरीरविशेषेण संयोगस्तस्यापि किं वा भोगव्यवस्थाया अपि निमित्तं कमवेति सूत्रार्थः / सर्वशरीरेषु भोगाभावादयं संयोगविशेषः सिद्ध एव / व्याचष्टे- यथेति, अनेन ग्रन्थेन कर्मनिरपेक्षभूतानां शरीरोत्पादकत्वासंभवमुपपादयति, यथा व्यूहितमित्यन्वयः, स्नायुः= संधिबन्धनपदार्थः, सक्थ्नामिति- " सक्थि क्लीबे पुमानूरुः" इत्यमरः, आमाशयः= अपक्कमलाशयः, पक्काशयःपक्कमलाशयः, अधःस्रोत:= अधोमार्गः, स्पष्टमन्यत् , परमदुःखसंपादनीयेन- परमदुःखभोगयोग्येन अशक्येन वा उक्तनाड्याद्यमानां संनिवेशेन यथा व्यूहितम्= संपन्नं शरीरं तथा कर्मनिरपेक्षैः पृथिव्यादिभूतैरुत्पादयितुमशक्यमेवेति कर्मनिभित्ता शरीरोत्पत्तिरिति विज्ञायते इत्यन्वयः / पूर्वपक्षिमते बाधकमाह- एवं चेति, चैत्रादीनां मैत्रादिभोगस्यानुभवो न भवतीति प्रत्यक्षसिद्धं तदेतत् कर्मनिरपेक्षत्वमते