________________ 356 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेअनिमित्तनिमित्तत्वाद् नानिमित्ततः // 23 // " अनिमित्ततो भावोत्पत्तिः" इत्युच्यते. यतश्चोत्पद्यते तन्निमित्तम्, अनिमित्तस्य निमित्तत्वाद् नानिमित्ता भावोत्पत्तिरिति // 23 // निमित्ताऽनिमित्तयोरर्थान्तरभावादप्रतिषेधः // 24 // अन्यद्धि निमित्तम् अन्यच्च निमित्तप्रत्याख्यानं. न च प्रत्याख्यानमेव प्रत्याख्येयं यथा'अनुदकः कमण्डलुः' इति नोदकप्रतिषेध उदकं भवतीति // स खल्वयं वादः ' अकर्मनिमित्तः शरीरादिसर्गः' इत्येतस्मान्न भिद्यते अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति // 24 // अन्ये तु मन्यन्ते सर्वमनित्यम्- उत्पत्तिविनाशधर्मकत्वात् // 25 // किमनित्यं नाम ?, यस्य कदाचिद् भावस्तदनित्यम्= उत्पत्तिधर्मकमनुत्पन्नं नास्ति. निमित्तकारणरहितमेव दृष्टमिति शरीरसगोपि तथा= निर्निमित्त एव, ईश्वरादिकं चोक्तं निमित्तकारणमेव स्यात् निमित्तकारणस्य च प्रतिषेधे कृते ईश्वरादीनामकारणत्वं सिद्धमित्यर्थः / / 22 / / उक्तं प्रत्याचष्टे- अनिमित्तेति, अनिमित्ततः= निमित्तकारणं विना कार्योत्पत्तिर्न संभवतित्वदुक्तस्याऽनिमित्तस्याऽपि निमित्तत्वसंभवात्- अनिमित्ततस्त्वया कार्योत्पत्तेरुक्तत्वादिति सूत्रार्थः / व्याचक्षाणः पूर्वपक्षमनुवदति- अनिमित्तत इति / निमित्तलक्षणमाह- यत इति / स्ववक्तव्यमाहअनिमित्तस्येति, भावोत्पत्तिरनिमित्ता न संभवति- अनिमित्तस्यैव निमित्तत्वसंभवादित्यन्वयः, स्पष्टमन्यत् // 23 // उक्तं पूर्वपक्षी प्रत्याचष्टे- निमित्तेति, निमित्तानिमित्तयोरर्थान्तरभावात= परस्परं भेदादनिमित्तस्य निमित्तत्वं नोपपद्यते इति पूर्वसूत्रोक्तः प्रतिषेधोऽनुपपन्न इति कार्योत्पत्तिरनिमित्तेति सिद्धं तेनेश्वरादीनां कारणत्वं न संभवतीति सूत्रार्थः / व्याचष्टे- अन्यदिति, निमित्तप्रत्याख्यानम्= अनिमित्तम्= निमित्ताभावः / स्ववक्तव्यमाह- न चेति, प्रकृते प्रत्याख्यानम्= निमित्तप्रत्याख्यानम्= निमित्ताभावः प्रत्याख्येयम्= निमित्तं न भवितुमर्हति- परस्परं विरोधादित्यर्थः, " अनिमित्ततः” इति हि निमित्तप्रत्याख्यानमेव तदेव कथं निमित्तं स्यात्- निषेधनिषेध्ययोरभेदासंभवादित्यन्वयः / उदाहरति- यथेति, यथोदकप्रतिषेध उदकं न संभवति तथा निमित्तप्रतिषेधरूपमऽनिमित्तमपि निमित्तं न संभवति अन्योथोदकप्रतिषेधेनाप्युदककार्य स्यादित्यर्थः // एतत्पूर्वपक्षसूत्रस्य सूत्रकारेण प्रत्याख्यानं न कृतं तस्य कारणमाह- स खल्विति, अत्र- "कस्मात् पुनः पूर्वपक्षः स्वयं सूत्रकारेण न निराकृत इत्यत आह भाष्यकारः स खल्वयम्" इति तात्पर्यटीका / अयं वादः एतत्सूत्रोक्तार्थः, तृतीयाध्यायद्वितीयाह्निके "भूतेभ्यः 63" इतिसूत्रे "अकर्मनिमित्तः शरीरादिसर्गः” इति यदुक्तं तस्मान्न भिद्यते- समानार्थत्वात् अभेदाच्च तत्प्रतिषेधेनैवायं वादः प्रतिषिद्धो वेदितव्यस्तस्य च प्रतिषेधस्तत्रैव द्रष्टव्य इत्यन्वयः, स्पष्टमन्यत् / अहं तु मन्ये एतत्पूर्वपक्षप्रत्याख्यानपरं सूत्रं भाष्यकारादपि पूर्वमेव विनष्टं स्यादिति // 24 // // इत्यनिमित्तकवादप्रत्याख्यानं समाप्तम् // __सर्वानित्यत्ववादमुपक्रमते- अन्ये इति / सर्वमिति, स्पष्टाथै सूत्रम् / अनित्यस्वरूपं जिज्ञासतेकिमिति / उत्तरमाह- यस्येति / उक्तं विशदयति- उत्पत्तिधर्मकमिति, उत्पत्तिधर्मकम् अनुत्पन्नम् उत्पत्तेः पूर्व नास्तीति उत्पत्त्यनन्तरभाविकालमात्रभावित्वेन कादाचित्कत्वं प्राप्तं तेनानित्यत्वं सिद्धम् ,