________________ 332 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके तत्रेदं तत्त्वम् पूर्वकृतफलानुबन्धात्तदुत्पत्तिः // 62 // पूर्वशरीरे या प्रवृत्तिः वायबुद्धिशरीरारम्भलक्षणा तत् पूर्वकृतं कर्मोक्तं तस्य फलम्= तज्जनितौ धर्माधर्मों. तत्फलस्यानुबन्धः = आत्मसमवेतस्यावस्थानम्. तेन प्रयुक्तेभ्यो भूतेभ्यस्तस्य शरीरस्योत्पत्तिर्न स्वतन्त्रेभ्य इति / यदधिष्ठानोयमात्मा 'अयमहम्' इतिमन्यमानो यत्रा. भियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधौं संस्करोति तदस्य शरीरम्. तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहितेन पतितेऽस्मिन् शरीरे शरीरान्तरं निष्पद्यते. निष्पन्नस्य च तस्य पूर्वशरीर वत् पुरुषार्थक्रिया पुरुषस्य च पूर्वशरीर वत् प्रवृत्तिरिति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सति एतदुपपद्यते इति, दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थक्रियासमर्थानां द्रव्याणां रथप्रभृतीनामुत्पत्तिस्तयाऽनुमातव्यम्- 'शरीरमपि पुरुषार्थक्रियासमर्थमुत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यते' इति // 62 // अत्र नास्तिक आह भूतेभ्यो मूर्युपादानवत् तदुपादानम् // 63 // श्रूयते इति, अत्र= शरीरोत्पत्तौ। शरीरसगै केपि कर्मनिमित्तकं वदन्ति केपि च कर्मानिमित्तकं वदन्तीति विप्रतिपत्तिः। ___अग्रिमसूत्रमवतारयति- तत्रेति, इदम्= सूत्रेण वक्ष्यमाणम् / पूर्वेति- पूर्वकृतम्= पूर्वजन्मकृतं कर्म तस्य फलभूतम् तादृशकर्मजन्यं यदऽदृष्टं तदनुबन्धात्= तत्संबन्धात्= तत्सहकारात् भूतेभ्यस्तत्= तस्य= शरीरस्योत्पत्तिर्भवति न तु कर्मनिरपेक्षेभ्यो भूतेभ्य इतिसूत्रार्थः / व्याचष्टे- पूर्वेति, पूर्वशरीरे= पूर्वजन्मनि, प्रवृत्तिश्च ग्रन्थारम्भे सप्तदशसूत्रे उक्ता, उक्तम्= उच्यते, तस्य= पूर्वकृतस्य, तत्फलस्य= तस्य धर्माधर्मलक्षणादृष्टरूपफलस्य, आत्मसमवेतस्यावस्थानम् = आत्मसमवायः, तेन= अदृष्टस्यात्मसमवायेन, प्रयुक्तेभ्यः= प्रेरितेभ्यः, स्वतन्त्रेभ्यः= कर्मनिरपेक्षेभ्यः, इत्यन्वयः, स्पष्टमन्यत / शरीरलक्षणमाह- यदिति, यदधिष्ठानः= यनिष्ठः, अयमहमितिमन्यमानोयमात्मा यत्राभियुक्तः= यद्विषयकाभिनिवेशविशिष्टः, संस्करोति= संपादयति, अस्य= आत्मनस्तदेव शरीरम् , यच्छन्दैरुक्तस्य तच्छब्देन परामर्शः, तदेतत् शरीरलक्षणं सर्वप्रसिद्धमेव / कर्मसहितेभ्यो भूतेभ्यः शरीरोत्पत्तिमाह- तेनेति, अस्मिन् वर्तमाने, शरीरे पतिते सति तेन भूतसहितेन धर्माधर्मलक्षणेन संस्कारेण= अदृष्टेन शरीरान्तरम्= अग्रिमजन्मशरीरं निष्पद्यते इत्यन्वयः / उत्पन्नस्य शरीरस्य प्रयोजनमाह- निष्पन्नस्येति, तस्य= शरीरस्य, पूर्वशरीरस्येवेति पूर्वशरीरवत् पुरुषार्था गमनादिक्रिया भवति, पूर्वशरीरे इवेति पूर्वशरीरवत् तस्मिन् शरीरेपि पुरुषस्य प्रवृत्तिर्भवति भोजनादौ, एतत्सर्वं कर्मसापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सति उपपद्यते- तत्तत्कारणीभूतानां कर्मणामानुकूल्यात्, कर्मनिरपेक्षेभ्यश्च भूतेभ्यः शरीरसर्गस्वीकारे एतत्सर्वं नोपपद्यते- कर्मणामकारणत्वे शरीरपातस्य भोगवैषम्यादेश्चानुपपत्तेरित्यनुसंधेयम् / उक्ते दृष्टान्तमाह- दृष्टेति, पुरुषार्थक्रियात्र ग्रामप्रापणादिक्रिया, तया= रथादीनामुत्पत्त्या, अनुमेयमाह- शरीरमपीति, गुणान्तरापेक्षेभ्यः= कर्मसापेक्षेभ्यः, तथा च यथा रथादिकं प्रयत्नलक्षणपुरुषगुणसापेक्षेभ्य एव भूतेभ्यः= काष्ठादिभ्य उत्पद्यते तथा शरीरमपि अदृष्टलक्षणपुरुषगुणसापेक्षेभ्य एव भूतेभ्य उत्पद्यते न स्वतन्त्रेभ्य इति सिद्धमित्यर्थः, स्पष्टमन्यत् / शरीरं जीवगुणप्रयुक्तभूतकार्य पुरुषार्थसाधनत्वाद्रथादिवदित्यनुमानप्रयोगः // 62 // ___ अग्रिमसूत्रमवतारयति- अत्रेति, अत्र= शरीरसर्गस्य कर्मनिमित्तकत्वे प्राप्ते / भूतेभ्य इति- यथा कर्मनिरपेक्षेभ्य एव भूतेभ्यो मूर्तयः= पाषाणाद्यवयविन उत्पद्यन्ते- तेषां कर्मासंभवान् तथा कर्मनिर.