________________ शरीरस्यादृष्टजन्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 333 यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः= सिकताशर्करापाषाणगैरिकाऽञ्जनप्रभृतयः पुरुषार्थकारित्वादुपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरमुत्पन्नं पुरुषार्थकारित्वादुपादीयते इति // 63 // न-साध्यसमत्वात् // 64 // यथा शरीरोत्पत्तिरकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाजनप्रभृतीनामप्यऽकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वादसाधनमिति= "भूतेभ्यो मूर्युपादानवत्" इति चानेन साध्यम् // 64 // न-उत्पत्तिनिमित्तत्वान्मातापित्रोः // 65 // विषमश्चायमुपन्यासः, कस्मात् ?, निर्वीजा इमा मूर्तय उत्पद्यन्ते. वीजपूर्विका तु शरीरोपत्ति: / मातापितृशब्देन लोहितरेतसी बीजभूते गृह्यते, तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश्च पुत्रफलानुभवनीये कर्मणी मातुर्गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्ति इत्युपपन्नं बीजानुविधानमिति // 65 // पेक्षेभ्य एव भूतेभ्यः तत्= तस्य= शरीरस्योपादानम्= उत्पत्तिः संभवतीति न तत्र कर्मणां कारणत्वमिति सूत्रार्थः / व्याचष्टे- यथेति, निवृत्ताः= उत्पन्नाः, मूर्तिपदार्थमाह- सिकतेति, शर्करा= सर्षपसमाना मृत्खण्डाः, पुरुषार्थकारित्वात्= कार्यकारित्वात् , उपादीयन्ते= गृह्यन्ते / प्रकृतमाह- तथेति, पुरुषार्थकारित्वात्= भोगसाधनत्वात् , उपादीयते= आत्मना गृह्यते, तदेतत् शरीरातिरिक्तात्मपक्षे विज्ञेयम् , स्पष्टमन्यत् // 63 // ____ उक्तं सिद्धान्ती निराकरोति- नेति, पाषाणायुत्पत्तिरपि कर्मनिरपेक्षभूतेभ्यो न संभवतितदुत्पत्तेरपि जीवकर्मसापेक्षेभ्य एव भूतेभ्यः संभवात् पाषाणादिपदार्थमात्रस्य जीवार्थत्वादिति पाषाणागुत्पत्तिः कर्मनिरपेक्षभूतकृतेति दृष्टान्तः साध्यसमः= साध्यः= असिद्ध एवेति न शरीरोत्पत्तेः कर्मनिरपेक्षभूतकृतत्वसाधने समर्थः- सिद्धस्यैव दृष्टान्तत्वसंभवादिति सूत्रार्थः / व्याचष्टे- यथेति, प्रकृतमाहतथेति / पर्यवसितमाह- साध्यसमत्वादिति, असाधनम् असाधकमिदमुदाहरणमित्यर्थः / उक्तं विशदयति- भूतेभ्य इति, अनेन= पूर्वपक्षिणा “भूतेभ्यो मूर्युपादानवत्" इति पूर्वसूत्रोक्तमुदाहरणं साध्यमेव न सिद्धं साध्यत्वाच्च न प्रकृतसाधकं संभवति, साध्यत्वं च पाषाणाद्युत्पत्तेरपि कर्मसापेक्षत्वस्वीकारादिति शरीरोत्पत्तेः कर्मनिरपेक्षत्वं न संभवतीत्यर्थः // 64 // ___ "भूतेभ्यो मूर्युपादानवत्" इत्युक्तदृष्टान्ते किं वा सिकताद्युत्पत्तेः कर्मनिरपेक्षत्वमभ्युपगम्यापि जीवकर्मनिरपेक्षेभ्यः केवलभूतेभ्यः शरीरोत्पत्तौ दोषान्तरमाह- नेति, पाषाणाद्युत्पत्तिर्यथा केवलभूतेभ्यः संभवति तथा शरीरोत्पत्तिः केवलभूतेभ्यो न संभवतीत्यर्थः, उक्ते हेतुमाह- उत्पत्तीति, मातापित्रो:= मातापितृशुक्रशोणितयोरपि शरीरोत्पत्तिकारणत्वात् अन्यथा तादृशशुक्रादिकं विनापि शरीरमुत्पद्येत न चोत्पद्यते इति शरीरोत्पत्तेः पाषाणाद्युत्पत्तेश्च साम्यमेव नास्तीति न शरीरोत्पत्तौ पाषाणाद्युत्पत्तिईष्टान्तः संभवतीति सूत्रार्थः, अत्र सूत्रे- "नोत्पत्तिनिमित्तत्वात्" इत्यत्र ‘उत्पत्तिनिमित्तत्वाच्च' इतिवक्तव्यमासीत् / व्याचष्टे- विषम इति, उपन्यासः= पाषाणाद्युत्पत्तिदृष्टान्तो विषमः= विपरीतः / उक्तवैषम्यस्य हेतुं जिज्ञासते- कस्मादिति / वैषम्यमुपपादयति-निर्बीजा इति, निर्बीजाः= शुक्रं विना, मूर्तयः= पाषाणाद्यवयविनः, बीजपूर्विका= शुक्रशोणिताभ्याम् , तथा च सबीजत्वनिर्बीजत्वे एव वैषम्यम् / सूत्रघटकमातापितृशब्देन ग्राह्यमाह- मातेति, मातुलोहितं पितुश्च रेतः= शुक्रं ते शरीरस्य बीजभूते / पर्यवसितमाह- तत्रेति, तत्र= एवं शरीरोत्पत्तेः बीजपूर्वकत्वे सिद्धे, सत्त्वस्य= जीवस्य