________________ शरीरस्यादृष्टजन्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 331 छूषणं भवति. श्रुतं वर्णमेकमनेक वा पदभावेन प्रतिसंधत्ते. प्रतिसंधाय पदं व्यवस्यति. पदव्यवसायेन स्मृत्या पदार्थ प्रतिपद्यते, पदसमूहप्रतिसंधानाच्च वाक्यं व्यवस्यति. संबद्धांश्च पदार्थान गृहीत्वा वाक्यार्थ प्रतिपद्यते, न चासां क्रमेण वर्तमानानां बुद्धीनामाशुवृत्तित्वात् क्रमो गृह्यते. तदेतदनुमानमन्यत्र बुद्धिक्रियायोगपद्याभिमानस्येति / न चास्ति मुक्तसंशया युगपदुत्पत्तिबुद्धीनां यया मनसो बहुत्वमेकशरीरेऽनुमीयते इति / / 60 // यथोक्तहेतुत्वाचाऽणु // 61 // अणु मन एकं चेति धर्मसमुच्चय:- ज्ञानायौगपद्यात् , महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद् विषयग्रहणं स्थादिति // 61 // मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात् , ज्ञातुश्च पुरुषस्य शरीरायतना बुद्धयादयो विषयोपभोगो जिहासितहानम् ईप्सितावाप्तिश्च सर्वे च शरीराश्रया व्यवहाराः, तत्र खलु विप्रतिपत्तेः संशयः- किमयं पुरुषकर्मनिमित्तः शरीरसर्गः 1 अथ वा भूतमात्रादकर्मेनिमित्तः? इति, श्रूयते खल्वत्र विप्रतिपत्तिरिति / अथाप्याशुवृत्तित्वात् क्रमो न गृह्यते इति विद्यमानस्यापि क्रमस्याग्रहणमुपपन्नं तेन यौगपद्याभिमानः सिद्ध इत्यर्थः / उक्ते हेतुं जिज्ञासते- कथमिति / उत्तरमाह- वाक्यस्थेति, वाक्यवृत्तिवर्णानां पृथक पृथगेव श्रवणं भवतीत्यर्थः, पदत्वप्रतीतिमाह- श्रुतमिति, पदभावेन= पदत्वेन, प्रतिसंधत्ते= अनुसंधत्ते, व्यवस्यति= अवधारयति, पदावधारणानन्तरं पदार्थस्मृतिर्भवति, आसां वर्णपदपदार्थबुद्धीनां क्रमेण जायमानत्वेपि आशुवृत्तित्वात् क्रमो न गृह्यते, एवं पदसमूहज्ञानानन्तरं वाक्यत्वज्ञानं जायते तदनन्तरं वाक्यार्थज्ञानं जायते तत्रापि क्रमो न गृह्यते इति क्रमस्याग्रहणं सिद्धमित्यर्थः, पदार्थानां परस्परं संबन्धे सत्येवं वाक्यार्थज्ञानं जायते इत्युक्तम्- संबद्धानिति / पर्यवसितमाह- तदेतदिति, यथोक्तवर्णादिबुद्धिषु क्रमस्य सत्त्वेपि योगपद्याभिमानो भवति एवं सर्वत्र बुद्धीनां क्रियाणां च क्रमस्य सत्त्वेपि आशुतरभावेन तदग्रहणादेव यौगपद्याभिमानो विज्ञेयः / विपक्षे बाधकमाह- न चेति, मुक्तसंशया= संशयरहिता, अनुमीयते= अनुमीयेत / स्पष्टमन्यत् , तथा च प्रतिशरीरमेकमेव मन इतिसिद्धम् // 60 // सिद्धान्ती मनसोऽणुत्वमाह- यथोक्तेति, यथोक्तहेतुत्वात्= ज्ञानायौगपद्यादेव मनः अणु= सूक्ष्म यदि मनोऽणु न स्यात्तदा एकस्यापि मनस एकस्मिन् क्षणेऽनेकैरिन्द्रियः संयोगसंभवाद् युगपज्ज्ञानान्युत्पद्येरन् न चोत्पद्यन्ते तस्मादणु मनः, एकस्याणोश्च मनसो युगपदनेकैरिन्द्रियैः संयोगासंभवादेव युगपदनेकज्ञानापत्तिर्नास्ति किं तु ज्ञानानां क्रम उपपन्न इतिसूत्रार्थः / अत्र " यथोक्तहेतुत्वात् / इत्यत्र 'उक्तहेतोरेव' इति वक्तव्यमासीत् / व्याचष्टे- अण्विति, एकत्वाणुत्वधर्मयोः समुच्चयः / उक्ते हेतुमाहज्ञानेति / विपक्षे बाधकमाह- महत्त्वे इति, स्पष्टमन्यत् // 61 // // इति मनोविवेचनं समाप्तम् // शरीरस्यादृष्टजन्यत्वप्रतिपादनपरमग्रिमप्रकरणमुपक्रमते-मनस इति, सेन्द्रियस्य= इन्द्रियसंयुक्तस्य, वृत्तिलाभः= विषयग्रहणम् , ज्ञातुर्जीवस्य बुद्धयादयः शरीरायतनाः= शरीरे एव भवन्ति, विषयोपभोगादयश्च सर्वे व्यवहारा अपि जीवस्य शरीराश्रयाः= शरीरे एव भवन्ति न तु शरीरं विनेति तस्य शरीरस्योत्पत्तिर्विचारणीयेत्यर्थः / अत्र संशयमुत्थापयति-तत्रेति, तत्र= शरीरोत्पत्ती, विप्रतिपत्तेः= मतभेदेन / संशयस्वरूपमाह- किमिति, भूतमात्रात्= केवलभूतेभ्यः कर्मनिरपेक्षेभ्यः / पुनः संशयकारणमाह