________________ प्रसन्नपदापरिभूषितम्-- [ 3 अध्याये. २आह्निकेअलातचक्रदर्शनवत् तदुपलब्धिराशुसंचारात् // 60 // आशुसंचारादलातचक्रस्य भ्रमतो विद्यमानः क्रमो न गृह्यते. क्रमस्याऽग्रहणाद् अविच्छेदबुद्धया चक्रवद् बुद्धिर्भवति, तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद् विद्यमानः क्रमो न गृह्यते. क्रमस्याऽग्रहणाद् युगपत् क्रिया भवन्तीति अभिमानो भवति / किं पुनः क्रमस्याऽग्रहणाद् युगपत् क्रियाभिमानः? अथ युगपद्भावादेव युगपदनेकक्रियोपलब्धिरिति ?, नात्र विशेषप्रतिपत्तेः कारणमुच्यते / उक्तम्- इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति, तच्चा प्रत्याख्येयम्- आत्मप्रत्यक्षत्वात् / अथापि दृष्टश्रुतानाँश्चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपद् अनेनानुमातव्यमिति / वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम् / कथम् ?, वाक्यस्थेषु खलु वर्णेञ्चरत्सु प्रतिवर्ण तावचिह्नानि बुभुत्सते, स्थानीयम्= स्थानं गन्तव्यं स्मरतीत्यन्वयः, उक्तानामध्ययनादिक्रियाणां क्रमोन गृह्यते तेन युगपद्भावः प्राप्तस्तथा चैतादृशीनां क्रियाणां युगपत् सिद्धयर्थ मनसो बहुत्वं स्वीकार्यमित्यन्वयः // 59 // उक्त समाधत्ते- अलातेति, उभयोरग्रयोरग्निविशिष्टो दण्डोऽलातमित्युच्यते यथाऽलातचक्रस्याशुसंचारात्= शीघ्रभ्रमः युगपत् नैरन्तर्येण दर्शनं जायते तत्र क्रमस्य सत्त्वेप्याशुसंचारात् क्रमो न गृह्यते तथोक्तस्थलेपि मनस आशुसंचारादेव तदुपलब्धिः= क्रियाणां योगपद्योपलब्धिर्भवति वस्तुतस्तु न क्रियाणां योगपद्यं येन मनोबहुत्वं सिध्येत किं तु क्रमेणैव शीव्रतरं क्रिया भवन्तीति क्रमो न गृह्यते इति न मनसो बहुत्वापत्तिरिति सूत्रार्थः, अत्र दर्शनशब्दो व्यर्थ एव किं वा 'अलातचक्रनैरन्तर्योपलब्धिवत् / इतिवक्तव्यमासीत् / व्याचष्टे- आश्विति, अलातचक्रस्य भ्रमतो विद्यमानोपि क्रमः= उत्तरोत्तरदेशसंयोगक्रम आशुसंचारान्न गृह्यते क्रमस्य चाग्रहणाद् बुद्धिविच्छेदो न भवतीति अविच्छेदबुद्धया= बुद्धिविच्छेदाभवात् किं वा उत्तरोत्तरदेशसंयोगस्याऽविच्छेदज्ञानेन चक्रवबुद्धिः= चक्रत्वबुद्धिर्भवतिक्रमस्याग्रहणादित्यन्वयः, प्रकृतमाह- तथेति, बुद्धीनां क्रियाणां चोदाहतानां विद्यमानोपि क्रमो न गृह्यते- आशुवृत्तित्वात्= शीघ्रभावित्वादित्यन्वयः, पर्यवसितमाह- क्रमस्येति, अभिमानः= भ्रमः, तथा च क्रियाणां ज्ञानानां च क्रमेण जायमानत्वेन यौगपद्याभावात् मनसो बहुत्वापेक्षा नास्तीत्येकमेव मन इतियुक्तम्- बहुत्वस्वीकारे गौरवादित्यन्वयः / अत्र- " अलातचक्रस्य " इत्यत्र 'अलातदण्डस्य' इतिवक्तव्यमासीत् / / . यदुक्तम्- “क्रमस्याग्रहणाद् युगपत् क्रिया भवन्तीत्यभिमानो भवति" इति तत्र द्विधा शङ्कतेकिमिति, अभिमानः= भ्रमः, उपलब्धिः= यथार्थज्ञानमिति विवेकः / अत्र= उक्तपक्षद्वयेपि विशेषप्रतिपत्तेः= एकतरपक्षावधारणस्य कारणं नोक्तं येनैकतरपक्षावधारणं स्यादित्यन्वयः / उत्तरमाह- उक्तमिति, एकतरपक्षावधारणकारणमुक्तमित्यर्थः, उक्तमनुवदति- इन्द्रियान्तराणामिति, एकस्मिन् क्षणेऽनेकैरिन्द्रियैरर्थग्रहणं न भवति किं तु पर्यायेण= क्रमेणेति " ज्ञानायौगपद्यात् 58" इतिसूत्रे उक्तं तच्चोक्तं प्रत्यक्षसिद्धत्वाद् अप्रत्याख्येयम्= अबाधितमेव तेन चावाधितेन प्रत्यक्षेण बुद्धीनां क्रमः सिद्धस्तेन च क्रमेण मनस एकत्वं सिद्धमित्युक्तमेव तथा च मनस एकत्वादनेकक्रियाणां योगपद्यं न संभवतीति येयं क्रियाणां योगपद्यप्रतीतिः सा क्रमस्याऽग्रहणाद् युगपत् क्रियाभिमानः= क्रियाणां योगपद्यभ्रान्तिरेवेति सिद्धमित्यर्थः / बुद्धीनां क्रमे दृष्टान्तमाह- अथेति, अथापि= किं च दृष्टान् श्रुतांश्चार्थान् चिन्तयतः पुरुषस्य बुद्धयः= तद्विषयकस्मृतयः क्रमेण भवन्ति अनेन क्रमेणान्यत्रापि बुद्धीनां क्रमेण जायमानत्व. मनुमेयमित्यन्वयः, बुद्धयः क्रमवर्तिन्यो बुद्धित्वात् स्मृतिवदित्यनुमानम् / क्रमाग्रहणमुदाहरति- वर्णेति, पदेषु वर्णबुद्धयो वाक्येषु च पदबुद्धयः क्रमेणैव भवन्ति- वर्णानां क्रमेणैव श्रवणसंभवाचारणसंभवाच