________________ 329 मनोविवेचनम् ] न्यायभाष्यम् / परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः तत् किं प्रतिशरीरमेकमनेकमिति विचारे ज्ञानायौगपद्यादेकं मनः // 58 // अस्ति खलु वै ज्ञानायौगपद्यम्- एकैकस्येन्द्रियस्य यथाविषयं करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात् न तदेकत्वे मनसो लिङ्गम् . यत्तु खल्विन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यमिति तल्लिङ्गम् / कस्मात् ?. संभवति खलु वै बहुषु मनस्सु इन्द्रियमनस्संयोगयोगपद्यमिति ज्ञानयोगपद्यं स्यात् . न तु भवति तस्माद् विषये प्रत्ययपर्यायादेकं मनो भवतीति // 58 // न- युगपदनेककियोपलब्धेः // 59 // __ अयं खल्वध्यापकोऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यारण्यजान् शब्दान् बिभेति व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयमिति क्रमस्याग्रहणाद् युगपदेताः क्रिया इति प्राप्तं मनसो बहुत्वमिति // 59 // बुद्धिपरीक्षासमाप्तिमाह- परीक्षितेति / अग्रिमकर्तव्यमाह- मनस इति, क्रमश्चायं प्रमेयोद्देशसूत्रे द्रष्टव्यः, तत्= मनः, इतिविचारे= इतिसंशये प्राप्ते स्वसिद्धान्तमाह- ज्ञानेति, यदि प्रतिशरीरं बहूनि मनांसि स्युस्तदा तेषामनेकैरिन्द्रियैर्युगपदपि संयोगसंभवाद् युगपदनेकज्ञानानि उत्पद्येरन् न चोत्पद्यन्ते किं त्वेकस्मिन् क्षणे एकमेव ज्ञानमुत्पद्यते तस्मात् ज्ञायते- एकस्मिन् शरीरे एकमेव मन इति सूत्रार्थः / तदेतत् पूर्वमपि व्याख्यातमित्यलम् / ब्याचष्टे- अस्तीति, द्विविधं हि ज्ञानायौगपद्यमस्ति इन्द्रियैः स्वविषयग्रहणायौगपद्यरूपम् आत्मना विषयग्रहणायौगपद्यरूपं च तत्र प्रथमं मनस एकत्वे लिङ्गं न संभवति- तत्र मनस्संबन्धाभावात् तत्तु इन्द्रियाणां परिच्छिन्नत्वाद् एकैकत्वाचेन्द्रियैः स्वस्वविषयाणामनेकेषां युगपद्ग्रहणासंभवादेवेति न मनस एकत्वे लिङ्गमित्याह- नेति, एतस्य ज्ञानायौगपद्यस्यान्यथोपपत्तिमाहएकैकस्येति, यथाविषयम्= प्रतिविषयं करणस्य यथा गन्धं प्रति घ्राणस्य करणत्वम् , करणत्वं चैदमात्मनिप्रज्ञान क्रियाकर्तत्वनिरूपितम , एकप्रत्ययनिर्वत्तौ= एकपदार्थग्रहणसंपादने सामर्थ्यात यथा घ्राणेनैकस्मिन् क्षणेऽनेकेषां गन्धानां ग्रहणं न संभवतीति इदमपि ज्ञानायौगपद्यमेव न चैतन्मनस एकत्वे लिङ्गं किं तु ब्राणादीनां बाह्येन्द्रियाणां प्रत्येकमेकत्वे लिङ्गमित्यर्थस्तथा च वार्तिकम्- “यत्त्वेकेन्द्रियग्राह्येष्वर्थेषु विज्ञानानामयुगद्भावस्तन्न मनस एकत्वे लिङ्गम्- अन्यतस्तद्भावात्" इति / मनस एकत्व. साधकं ज्ञानायौगपद्यमाह- यत्त्विति, यथा ब्राणेन गन्धग्रहणकाले इन्द्रियान्तराणाम्= इन्द्रियान्तरैः श्रोत्रादिभिर्विषयान्तरेषु= विषयान्तराणां शब्दादीनां यो युगपत् ज्ञानाभावः स एव मनस एकत्वे लिङ्गम्- एतादृशज्ञानायौगपदास्य मनएकत्वप्रयुक्तत्वात् . प्रतिशरीरं मन एकमितिपक्षे एकस्याणुभूतस्य मनसो युगपदनेकैरिन्द्रियैः संयोगासंभवात् ज्ञानायौगपद्यमुपपद्यते इत्यर्थः / उक्ते हेतुं जिज्ञासतेकरमादिति / उत्तरमाह- संभवतीति, अनेकेषां मनसामनेकैरिन्द्रियैर्युगपत्संयोगसंभवः स्पष्ट एव / व्यतिरेकमाह- न विति, ज्ञानयोगपद्यं तु न भवति किं तु पर्यायेण= क्रमेणैव ज्ञानानि जायन्ते इति योयं गन्धादिविषयविषयक: प्रत्ययपर्यायः= ज्ञानानां क्रमस्तस्मादेकस्मिन् शरीरे एकमेव मनो भवति सिध्यतीत्यन्वयः // 58 // पूर्वपक्षी मनस एकत्वं निराकरोति-नेति, उक्तरीत्या मनस एकत्वं नोपपद्यते इत्यर्थः, हेतुमाहयुगपदिति, यथा ज्ञानं मनो विना न संभवति तथा क्रियापि मनो विना न संभवति तत्र युगपदनेकाः क्रिया उपलभ्यन्ते इति तदुपपत्त्यथै मनसोऽनेकत्वं स्वीकार्यमिति सूत्रार्थः, युगपदनेकक्रियोपलब्धिश्च भाष्ये स्पष्टैव / व्याचष्टे- अयमिति, अयमध्यापकः, युगपदनेकक्रियाणां सत्त्वमुदाहरति- अधीते इति, अधीते= ग्रन्थावृत्तिं करोति, आरण्यजान् शब्दान् पशुपक्षिशब्दान् शृणोति, व्याललिङ्गानि सर्प 42