________________ 328 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेद्विविधः शरीरगुणः- अप्रत्यक्षं च गुरुत्वम् इन्द्रियग्राह्यं च रूपादि, विधान्तरं तु चेतनानाऽप्रत्यक्षा- संवेद्यत्वात्. नेन्द्रियग्राह्या- मनोविषयत्वात् . तस्माद् द्रव्यान्तरगुण इति // 55 // न- रूपादीनामितरेतरवैधात् // 56 // यथेतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहति. एवं रूपादिवैधात् चेतना शरीरगुणत्वं न हास्यतीति // 56 // ___ ऐन्द्रियकत्वाद् रूपादीनामप्रतिषेधः॥५७॥ अप्रत्यक्षत्वाच्चेति, यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यमतिवर्तन्ते तथा रूपादिवैधात् चेतना न द्वैविध्यमतिवर्तेत यदि शरीरगुणः स्यादिति. अतिवर्त्तते तु तस्मान्न शरीरगुण इति // भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्याऽऽरम्भो विशेषज्ञापनार्थः= बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति // 57 // व्याचष्टे- द्विविध इति, इन्द्रियग्राह्यम्= बाह्येन्द्रियप्रत्यक्षम् , विधान्तरम्= उभयविधगुणविलक्षणा, वैलक्षण्यमेवाह- नेति, संवेद्यत्वात्= मानसप्रत्यक्षविषयत्वात् / नेन्द्रियग्राह्या= न बाह्येन्द्रियग्राह्या- मनो. विषयत्वात्= मनोमात्रग्राह्यत्वात् / उपसंहरति- तस्मादिति, तस्मात्= चेतनायाः शरीरगुणवैलक्षण्येन शरीरगुणेष्वन्तर्भावाभावात् चेतना द्रव्यान्तरगुणः= आत्मगुण एव न शरीरगुण इत्यर्थः, स्पष्टमन्यत् / मनस इन्द्रियत्वं च भाष्यकृता प्रत्यक्षलक्षणभाष्ये प्रतिपादितं तदन्न विस्मृतमिति भाष्यकारस्य साव. धानता, अत एवात्र इन्द्रियशब्देन बाह्येन्द्रियं ग्राह्यम् // 55 // ____ उक्तं पूर्वपक्षी परिहरति- नेति, चेतनायाः शरीरगुणत्वप्रत्याख्यानं नोपपद्यते किं तु यथा रूपादीनां शरीरगुणानाम् इतरेतरवैधात्= परस्परं वैलक्षण्येपि शरीरगुणत्वं संभवति तथा रूपादि. वैलक्षण्येपि चेतनायाः शरीरगुणत्वं संभवतीति सूत्रान्वयः / व्याचष्टे- यथेति, इतरेतरविधर्माणःपरस्परं विलक्षणाः, जहति= त्यजन्ति / प्रकृतमाह- एवमिति, रूपादिवैधात्= रूपादिवलक्षण्येपि / हास्यति= त्यक्ष्यति, तस्मात् चेतना शरीरगुण इत्यन्वयः, स्पष्टमन्यत् // 56 // उक्तं सिद्धान्ती परिहरति-ऐन्द्रियकत्वादिति, रूपादीनामैन्द्रियकत्वात् इन्द्रियग्राह्यत्वात्= बाह्ये. न्द्रियप्रत्यक्षत्वाद् गुरुत्वादीनां चाऽप्रत्यक्षत्वात् शरीरगुणत्वस्य प्रतिषेधो नोपपद्यते किं तु शरीरगुणत्वं संभवति चेतना तूक्तरीत्या न बाह्येन्द्रियप्रत्यक्षा नाप्यऽप्रत्यक्षेति चेतनायाः शरीरगुणत्वं नोपपद्यते-शरी. रगुणानां द्वैविध्यस्य प्रदर्शितत्वाद् विधाद्वयरहितस्य च शरीरगुणत्वे दृष्टान्ताभावेन शरीरगुणत्वासंभवा. दिति सूत्रार्थः / व्याचष्टे- अप्रत्यक्षेति, अप्रत्यक्षत्वाञ्चेतिशेष इत्यर्थः, गुरुत्वादीनामप्रत्यक्षत्वादेव शरीरगुणत्वमित्याशयः / यथेति- परस्परविलक्षणा अपि रूपादयः शरीरधर्मत्वादेव यथा द्वैविध्यम्= प्रत्यक्षत्वाप्रत्यक्षत्वप्रकारं नातिवर्तन्ते तथा यदि चेतनापि शरीरगुणः स्यात्तदोक्तद्वैविध्यं नातिवर्तेत अतिवर्तते तूक्तद्वैविध्यमुक्तरीत्येति न चेतना शरीरगुण इत्यन्वयः / नन्वत्राष्टादशसूत्रमारभ्य भूतेन्द्रियमनसां ज्ञानवत्त्वप्रतिषेधः कृतः " परश्वादिषु 37" इतिसूत्रमारभ्य शरीरस्यापि विशेषरूपेण ज्ञानवत्त्वप्रतिषेधः कृतः ज्ञानमेव च चेतनेति चेतनाप्रतिषेधे सिद्धे पुनरत्र शरीरे चेतनाप्रतिषेधः किमर्थः ? इत्याशङ्कयाहभूतेति, भूतेन्द्रियमनसां ज्ञानवत्त्वप्रतिषेधात् चेतनाप्रतिषेधे सिद्धेपि योऽयं शरीरे चेतनाप्रतिषेधस्य पुनरारम्भः स विशेषज्ञापनार्थः= निश्चयजननार्थ इति मन्तव्यम् , उक्तं व्याचष्टे- बहुधेति / तथा चोक्तरीत्या बुद्धरनित्यत्वमात्मगुणत्वं क्षणिकत्वं शरीरागुणत्वं च सिद्धमित्युपसंहारः // 57 // // इति बुद्धिविवेचनं समाप्तम् //