________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 327 यदुक्तम्- न कचिच्छरीरावयवे चेतनाया अनुत्पत्तिरिति. सा न केशनखादिष्वनुपलब्धेः // 53 // केशेषु नखादिषु चानुत्पत्तिश्चेतनाया इत्यनुपपन्नं शरीरव्यापित्वमिति // 3 // त्वपर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः // 54 // इन्द्रियाश्रयत्वं शरीरलक्षणम्= त्वक्पर्यन्तं जीवमनस्सुखदुःखसंवित्यायतनभूतं शरीरं तस्मान्न केशादिषु चेतनोत्पद्यते, अर्थकारितस्तु शरीरोपनिवन्धः केशादीनामिति // 54 // इतश्च न शरीरगुणश्चेतना शरीरगुणवैधात् // 55 // शरीरभेदेन, किं वा प्रतिशरीरं चेतनबहुत्वे= चेतनभेदे सुखादीनां व्यवस्था= चैत्रीयसुखादीनां ज्ञानं मैत्रस्य न भवतीति व्यवस्था लिङ्गम्- एतादृशव्यवस्थयैव प्रतिशरीरमात्मभेदः सिद्ध्यतीति, आत्मैकत्वे एतादृशव्यवस्था न स्यादित्यर्थः / प्रकृतमाह- एवमिति, चेतनायाः शरीरगुणत्वे एवम्= शरीरभेदे इव एकस्मिन्नपि शरीरे उक्ता व्यवस्था स्यात्= शरीरावयवभेदेन चेतनबाहुल्यात् एकशरीरवृत्तिचेतनानामपि परस्परं सुखाद्यज्ञानं स्यात् न चास्तीति नैकशरीरे चेतनवहुत्वं संभवति तथा च न चेतना शरीरगुणः संभवति / अत्र- " प्रत्ययव्यवस्थाप्रसङ्गात्= यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसंधत्ते किं तु देवदत्त एवेति व्यवस्था एवमेकस्मिन् शरीरे अवयवान्तरज्ञानमवयविनो वा ज्ञानं न प्रतिसंधत्ते इत्यर्थः" इति तात्पर्यटीका // 52 // ___ पूर्वपक्षी पूर्वसूत्रभाष्यवाक्यं परिहर्तुमनुवदति- यदुक्तमिति / सा नेत्यत्र तन्नेति वक्तव्यमासीत् , किं वा सा= शरीरस्य सर्वावयवेषु चेतनोत्पत्तिर्नास्तीत्यर्थः। सूत्रेण हेतुमाह- केशेति, शरीरस्यावयवभूतेषु केशादिषु चेतना नोपलभ्यते इति न सर्वेषु शरीरावयवेषु चेतनोत्पत्तिः संभवतीति न पूर्वसूत्रोक्तदोषापत्तिरिति सूत्रार्थः / व्याचष्टे- केशेष्विति / पर्यवसितमाह- इतीति, चेतनायाः शरीरव्यापित्वाभावे एकस्मिन् शरीरे चेतनबहुत्वापत्तिर्नास्ति तेनोक्तदोषापत्तिर्नास्ति चेतनायाः शरीरगुणत्वे इत्यर्थः // 53 // ___ केशादीनां शरीरावयवत्वं प्रत्याचष्टे- त्वगिति, शरीरस्य त्वक्पर्यन्तत्वात् तदने केशादिषु हारीरावयवत्वं नास्ति किं वा शरीरस्य त्वगव्याप्तत्वात् केशादिषु च त्वगभावात शरीरावयवत्वं नास्तीति हेतोरेव केशादिष चेतनाया अप्रसङः= अभावोस्ति तथा च शरीरावयवेष करचरणादिषु प्रत्येकं चेतनासत्त्वादेकस्मिन् शरीरे चेतनबहुत्वं चार्वाकमते प्राप्तमेव तथा च " शरीरव्यापित्वात् " इतिसूत्रोक्तो दोषस्तवस्थ एवेति सूत्रार्थः / व्याचष्टे- इन्द्रियेति / उक्तं विशदयति- त्वगिति, शरीरलक्षणं चेदं न युक्तम्- मृतशरीरे समन्वयासंभवादिति विभाव्यम् , जीवादीनामायतनभूतम् आश्रयभूतं यत् तत् शरीरं केशादिकं च न जीवादीनामाश्रयभूतमिति न शरीरावयवभूतम् अत एव केशादिषु चेतना नोत्पद्यते शरीरावयवेषु तु चार्वाकमतेन चोतनोत्पत्तिरापद्यते तत्र च शरीरव्यापित्वादित्यनेन दोषः प्रदर्शित एवेत्यर्थः / केशादीनां संबन्धकारणमाह- अर्थेति, केशादीनां शरीरोपनिबन्धः= शरीरे संबन्धः अर्थकारितः= भोगकारणको न त्ववयवत्वमूलक:- केशादीनां कर्तनेन दुःखाभावात् , केशनखादिकं विना नखविदलनादिकायै न स्यादितिहेतोरेव नखादिसंबन्धः किं वा देहरक्षणार्थः // 54 // अग्रिमसूत्रमवतारयति- इत इति, इतः= सूत्रोक्तहेतोः। शरीरेति- चेतनायाः शरीरगुणेभ्यो रूपादिभ्यो वैधात्= वैलक्षण्यात् शरीरगुणत्वं न संभवतीति सूत्रान्वयः, शेषं भाष्ये स्पष्टम् /