________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेयावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु पाकजोत्पत्तिर्दृश्यते- पूर्वगुणैः सह पाकजानामवस्थानस्याऽग्रहणात्. न च शरीरे चेतनाप्रतिद्वन्द्वि सहानवस्थायि गुणान्तरं गृह्यते येनाऽनुमीयेत तेन चेतनाया विरोधः, तस्मादप्रतिषिद्धा चेतना यावच्छरीरं वर्तेत न तु वर्तते तस्मान्न शरीरगुणश्चेतना इति // 51 // इतश्च न शरीरगुणश्चेतना शरीरव्यापित्वात् // 52 // शरीरं शरीरावयवाश्च सर्वे चेतनोत्पत्त्या व्याप्ता इति न कचिदनुत्पत्तिश्चेतनाया:. शरीरवत् शरीरावयवाश्चेतना इति प्राप्तं चेतनबहुत्वम् , तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् एवमेकशरीरेपि स्यात्. न तु भवति. तस्मान्न शरीरगुणश्वेतनेति // 52 // किं चोक्तस्थले विरुद्धगुणेन पूर्वगुणस्य नाशः संभवति शरीरे तु मृतावस्थायामपि चेतनाविरोधी कोपि गुणो न गृह्यते येन शरीरधर्मभूतायाश्चेतनाया विनाशः स्यादित्याह-प्रतीति, किं वा ननु पाकजापा. कजगुणयोन परस्परं विरोधोस्ति येन तादृशविरुद्धगुणादेव पूर्वगुणनाशस्वीकारेण प्रकृते चेतनाविरोधि. गुणस्याभावात् शरीरे शरीरधर्मभूतायाश्चेतनाया विनाशानुपपतिः स्यादित्याशङ्कयाह-प्रतीति, पाकजानां रक्तादिरूपाणां प्रतिषेधो नोपपद्यते-प्रतिद्वन्द्विसिद्धेः प्रतिद्वन्द्वित्वात् परस्परं विरुद्धत्वादित्यर्थः, किंवा पाकजानां गुणानां प्रतिद्वन्द्विसिद्धेः= पूर्वगुणविरोधित्वस्य प्रतिषेधो न संभवति तस्मात् पूर्वगुणस्य तद्विरोधिनैवोत्तरगुणेन नाशः संभवति यथा घटे रक्तरूपेण श्यामरूपस्य, चेतनाविरोधिगुणस्तु शरीरे नोपलभ्यते येन चेतनाविनाशः स्यादिति चेतनायाः शरीरगुणत्वे सदैव शरीरे सत्त्वं स्यात् न च भवतीति न चेतना शरीरगुण इतिसूत्रार्थः प्रतिभाति, किं वा पाकजानां श्यामरक्तादिरूपाणां गुणानां द्रव्यधर्मत्वस्य प्रतिषेधो नोपपद्यते तत्रापि यस्तेषामभावः स प्रतिद्वन्द्विसिद्धेः= प्रतिद्वन्द्विनः= विरोधिनो गुणान्तरस्योत्पत्त्या संभवति- विरुद्धयोः सहावस्थानासंभवात् , प्रकृते च मृतशरीरेपि चेतनाविरोधी कोपि गुणो नोपलभ्यते येन मृतशरीरे चेतनाया अभाव उपपद्येत तथा च चेतनायाः शरीरगुणत्वे यावच्छरीरभावित्वं स्यात् न चैवमस्तीति न चेतना शरीरगुण इतिसूत्रार्थः, सूत्रमिदं क्लेशेनापि न प्रकृतापेक्षितमर्थ प्रकाशयति. अत एवासंतोषाद् वृत्तिकारेणेदं सूत्रं त्रिधा व्याख्यातं तदपि परमुखेनैवेत्यनुसंधे. यम् , सूत्रस्यास्य पूर्वपक्षसूत्रं विनष्टमिति संभावयामि / व्याचष्टे- यावदिति, द्रव्येषु घटादिषु, पूर्वगुणप्रतिद्वन्द्विसिद्धिः= पूर्वगुणविरोधिगुणसत्ता दृश्यते, पाकजोत्पत्तिः= पाकजगुणोत्पत्तिः / उक्ते हेतुमाहपूर्वगुणैरिति, तथा च सहानवस्थानादेवोत्तरगुणेन पूर्वगुणविनाशो भवतीत्यर्थः, सहानवस्थाने च परस्परं विरोध एव कारणम् / प्रकृतमाह-न चेति, शरीरे तु चेतनाविरोधी कोपि गुणो न गृह्यते येन तेन गुणेन सह चेतनाया विरोधोऽनुमीयेत विरोधाच्च तेन चेतनाविनाशः स्यादित्यर्थः / उपसंहरति- तस्मादिति, विरोधिगुणाभावादप्रतिषिद्धा= अविनश्यमाना चेतना शरीरगुणभूता सती यावच्छरीरम्= मृतशरीरेपि वर्तेत न च वर्तते इति न चेतना शरीरगुणः / / 51 // ___ अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= सूत्रोक्तहेतोः / शरीरेति- चेतनायाः शरीरव्यापित्वं प्रत्यक्षमेव तथा च शरीरावयवभेदेन चेतनाभेदः स्यात्तेन चैकस्मिन्नपि शरीरे चेतनस्याऽनेकत्वं स्यात् न चैकस्मिन् शरीरे चेतनानेकत्वमुपपद्यते- परस्परविरोधे सति शरीरोन्माथप्रसङ्गात् न चाप्यनुभूयते इति न चेतना शरीरगुणः किं त्वात्मगुण इतिसूत्रार्थः।व्याचष्टे- शरीरमिति, सर्वेषु शरीरावयवेषु पृथक् पृथगेव चेतना उत्पद्यते इत्यर्थः, एकस्मिन् शरीरे एवं चेतनबहुत्वापत्तिमाह- शरीर वदिति, सर्वेषां शरीरावयवानां चेतनत्वादितिशेषः / पर्यवसितमाह- तत्रेति, तत्र= एवमेकस्मिन् शरीरे चेतनबहुत्वे प्राप्ते, प्रतिशरीरम्=