________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 325 अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात् द्रव्यान्तरस्थं वा उभयस्थं वा, तन्न-नियमहेत्वभावात- शरीरस्थेन कदाचित् चेतनोत्पद्यते कदाचिनेति नियमे हेतुर्नास्तीति. द्रव्यान्तरस्थेन च शरीरे एव चेतनोत्पद्यते न लोष्टादिष्वित्यत्र नियमहेतुर्नास्तीति. उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीरे एव चोत्पद्यते इतिनियमे हेतुर्नास्तीति // 49 // यच्च मन्येत- सति श्यामादिगुणे द्रव्ये श्यामायुपरमो दृष्ट एवं चेतनोपरमः स्यादिति, न-पाकजराणान्तरोत्पत्तेः // 50 // नात्यन्तरूपोपरमः= द्रव्यस्य श्यामे रूपे निवृत्ते पाकजं गुणान्तरम्= रक्तं रूपमुत्पद्यते, शरीरे तु चेतनामात्रोपरमोऽत्यन्तमिति // 50 . अथापि-. प्रतिद्वन्दिसिद्धेः पाकजानामप्रतिषेधः // 51 // णोच्छेदात्= संस्कारकारणाभावविशिष्टे एव संस्कारानुपपत्तिः= संस्कारोपरमो भवति. चेतना तु यथाविधे शरीरे गृह्यते तादृशे एव चेतनोपरमोपि गृह्यते- मृतशरीरेपि चेतनाकारणस्य भूतसंयोगस्य सत्त्वादेवेति वैषम्यमिति संस्कार वदित्यसमः= विषमः समाधिः' इत्यन्वयः / वस्तुतस्त्वत्र "संस्कारानुपपत्तिः" इत्यत्र 'न संस्काराभावानुपपत्तिः' इतिपाठो युक्तस्तस्य च 'कारणोच्छेदात्संस्काराभावानुपपत्तिर्न' इत्यन्वयः, चेतनायाश्च कारणोच्छेदासंभवात् शरीरे चेतनाया अभावानुपपत्तिरित्यर्थः / वाक्यार्थस्तु प्रतिपादित एव / अलौकिकं हि सूत्रभाष्यकृतोः पाण्डित्यम् // चैतन्यकारणानुपपत्तिं प्रदर्शयति- अथेति, अथापि= किंच / कल्पत्रयस्याप्यसंभवमाह- तन्नेति / हेतुमाह-नियमेति, उक्तं व्याचष्टे- शरीरस्थेनेति, शरीरस्थेन चेतनाकारणेन, यदि चेतनोत्पत्तिकारणं शरीरस्थं स्यात्तदा तादृशकारणसत्त्वेन शरीरे सदैव चेतना स्यादिति चेतनाविनाशो न स्यादित्यर्थः, कदाचिन्नेति- मृताद्यवस्थायाम् / द्वितीयकल्पे दोषमाह- द्रव्येति, द्रव्यान्तरस्थेन चेतनाकारणेन, चेतनाकारणस्य शरीरातिरिक्तस्थत्वे पदार्थमात्रे चेतना उत्पद्येत विशेषाभावादित्यर्थः / तृतीयकल्पे दोषमाह- उभयेति, शरीरतदतिरिक्तेत्युभयस्थस्य चेतनाकारणत्वेपि पदार्थमात्रे चेतनोत्पद्येत- विशेषाभावादित्यर्थः, शरीरसमानजातीयद्रव्ये= फलादौ / तथा च चेतनोत्पत्तिकारणस्य स्थितेर्निरूपयितुमशक्यत्वान्न सकारणका चेतना किं तु नित्येति नित्यात्मनिष्ठैव स्वीकार्येत्यर्थः, स्पष्टमन्यत् // 49 // ___ पूर्वपक्षमनुवदति- यदिति, द्रव्ये= घटादौ यत्र श्यामत्वादिरूपमुत्पद्यते तत्रैव तस्य विनाशोपि भवतीति उत्पत्तिविनाशयोः सामानाधिकरण्यं सिद्धं चेतनाया उपरमश्च शरीरे प्रत्यक्ष एव मृतशरीरादौ तथा च शरीरे एव चेतनोत्पत्तिरपि स्वीकार्येति शरीरे चेतनोत्पत्तिसत्त्वे एव शरीरे चेतनोपरमः संभवति नान्यथेत्यर्थस्तथा च चैतन्यस्य शरीरधर्मत्वं सिद्धमितिभावः / एतत्सूत्रेण निराकरोति-नेति, उक्तदृष्टान्तो नोपपद्यते इत्यर्थः, हेतुमाह- पाकेति, श्यामघटे पाकजन्यस्य रक्तस्य रूपान्तरस्योत्पत्तिभवति तादृशोत्पत्त्या च पूर्व श्यामादिरूपं नश्यति न च घटादौ रूपमात्रस्याभावो भवति मृतशरीरे तु चेतनामात्रस्याभावो भवतीति नोक्तदृष्टान्तोत्र घटते इतिसूत्रार्थः / व्याचष्टे- नेति, द्रव्ये घटादौ रूपस्यात्यन्ताभावो न भवतीत्यर्थः / उक्तं विशदयति- द्रव्यस्येति / प्रकृतमाह- शरीरे इति, यदि चेतना शरीरगुणः स्यात्तदा पूर्वचेतनाया विनाशे चेतनान्तरमुत्पद्यत न चोत्पद्यते मृतशरीरे इति न चेतना शरीरधर्म इत्यर्थः / शरीरे तु चेतनामात्रस्यात्यन्तमुपरमो मृतावस्थायां दृश्यते इत्यन्वयः // 50 // ___ अग्रिमसूत्रमवतारयति- अथेति, अथापि= किंच / अत्र- " तदेवमात्यन्तिकाऽनात्यन्तिकत्वं वैधHमुक्त्वा सप्रतिद्वन्द्वित्वाऽसप्रतिद्वन्द्वित्वं वैधान्तरमाह- इतश्च प्रतिद्वन्द्विसिद्धेः" इति तात्पर्यटीका /