________________ 324 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेसांशयिकः सति भावः- स्वगुणोऽप्सु द्रवत्वमुपलभ्यते परगुणश्चोष्णता. तेनायं संशय:किं शरीरगुणश्चेतना शरीरे गृह्यते ? अथ द्रव्यान्तरगुणः ? इति // 48 // न शरीरगुणश्चेतना, कस्मात् ?, यावच्छरीरभावित्वाद्रूपादीनाम् // 49 // न रूपादिहीनं शरीरं गृह्यते चेतनाहीनं तु गृह्यते यथोष्णताहीना आपः तस्मान्न शरीरगुणश्चेतनेति॥ संस्कारवदितिचेत् ? न– कारणानुच्छेदात् // यथाविधे द्रव्ये संकारस्तथाविधे एवोपरमः१. न- तत्र कारणोच्छेदादत्यन्तं संस्कारानुपपत्तिर्भवति, यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश्चेतनाया गृह्यते. तस्मात् 'संस्कार वत्' इत्यसमः समाधिः // संशयो भवतीति न चेतनायाः शरीरधर्मत्वं निश्चेतुं शक्यते तस्मात् संशय इतिसूत्रार्थः / व्याचलेसांशयिक इति, शरीरे सत्येव चेतनाभाव इति सांशयिकम् , चेतनायाः शरीरधर्मत्वं सांशयिकमित्यर्थः / संशयदृष्टान्तमाह- स्वेति, स्वगुणः= स्वधर्मः, परगुणः= परधर्मः= तेजोधर्मः / उपसंहरति- तेनेति / संशयमाह- किमिति / द्रव्यान्तरगुणः= आत्मधर्म इत्यन्वयः, स्पष्टमन्यत् // 48 // ____ स्वसिद्धान्तमाह- नेति / उक्त हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह- यावदिति, शरीरधर्माणां रूपादीनां यावच्छरीरभावित्वादित्यन्वयः, शरीरधर्मा हि मृतशरीरेप्युपलभ्यन्ते यथा रूपादयस्तथा च यदि चेतनापि शरीरधर्म स्यात्तदा मृतशरीरेप्युलभ्येत न चोपलभ्यते इति न चेतना शरीरधर्म इतिसूत्रार्थः / व्याचष्टे- नेति, ये शरीरधर्मा रूपादयस्तद्हीनं शरीरं नोलपभ्यते चेतनाहीनं तु मृतशरीरमुपलभ्यते तथा च यथोष्णताहीना आप उपलभ्यन्ते इति नोष्णता जलधर्मस्तथा चेतनापि न शरीरधर्म इत्यन्वयः // ननु यथा स्नानादिजन्यसंस्कारस्योत्पत्तिविनाशौ शरीरे एव भवतस्तादृशसंस्कारस्य शरीरधर्मत्वेपि न यावच्छरीरभावित्वम्- शरीरे सत्यपि तद्विनाशदर्शनात् तथा चैतन्यस्यापि शरीरे एवोत्पत्तिविनाशयोः स्वीकारेपि न यावच्छरीरभावित्वापत्तिरित्याशङ्कते- संस्कार वदिति / परिहरति-नेति / परिहारहेतुमाह- कारणेति, शरीरवृत्तिसंस्कारस्य स्वकारणविनाशाद् विनाशः संभवति चैतत्यकारणस्य तु विनाशो निरूपयितुं न शक्यते- त्वन्मते चैतन्यकारणस्य भूतसंयोगस्य मृतशरीरेपि सत्वादिति यदि चैतन्य शरीरगुणः स्यात्तदा कारणानुच्छेदात् यावच्छरीरभावि स्यात् न चैवमस्तीति न चैतन्यं शरीरगुण इत्यर्थः / स्वयं व्याचष्टे- यथेति, ननु यथाविधे= यादृशे द्रव्ये= शरीरादौ संस्कार उत्पद्यते तादृशे एव शरीरादौ संस्कारस्योपरमः= विनाशो गृह्यते अथापि संस्कारः शरीरधर्म एव एवं चेतनायाः शरीरधर्मत्वमुपपद्यते- शरीरे एव चेतनाया भावाभावयोर्गृह्यमाणत्वादिति पूर्वपक्षार्थः / परिहरति-नेति, इतिचेन्नेत्यर्थः, परिहारहेतुमाह- तत्रेति, तत्र संस्कारपक्षे शरीरादौ वा. अत्यन्तं संस्कारकारणोच्छेदात् संस्कारानुपपत्तिः= संस्काराभावः संभवतीत्यर्थः, प्रकृतमाह- यथेति, यद्यपि चेतनापि यादृशे शरीरे गृह्यते तादृशे एव चेतनाया अत्यन्तोपरमः= विनाशो गृह्यते तथापि चेतनारहिते मृतशरीरादौ त्वन्मतेन चेतनाकारणस्य भूतसंयोगस्याभावो न गृह्यते येन कारणविनाशात् संस्कार वत् चेतानाविनाश उपपद्येत तस्मात् "संस्कारवत्" इति समाधिः= दृष्टान्तो न युक्त इति चेतनायाः शरीरधर्मत्वे यावच्छरीरभावित्वं स्यादेव न चास्तीति न चेतना शरीरधर्म इत्यर्थः, किं वा पूर्वपक्षं परित्यज्य पूर्वपक्षदूषणपरत्वेनैव भाष्यं व्याख्येयं तथा च 'यथाविधे द्रव्ये= शरीरादौ संस्कारस्तथाविधे एव न संस्कारोपरमः किं तु तत्र= शरीरे कार