________________ 3 - 3 बुद्धिविवेचनम् ] न्यायभाष्यम्। इदं हि न प्रदीपार्चिस्संतत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् // 47 // अनवस्थायित्वेपि बुद्धः तेषां द्रव्याणां ग्रहणं व्यक्तं प्रतिपत्तव्यम् / कथम् 1. प्रदीपा. चिस्संतत्यभिव्यक्तग्रहणवत्= प्रदीपार्चिषां संतत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च, प्रत्यर्थनियतत्वाद्वा बुद्धीनां यावन्ति प्रदीपाचीपि तावत्यो बुद्धय इति. दृश्यते चात्र व्यक्तं प्रदीपार्चिषां ग्रहणमिति // 47 // चेतना शरीरगुणः- सति शरीरे भावादसति चाऽभावादिति / द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः॥४८॥ ____ अत्राह भाष्यकार:-- इदं हि नेति, इदम्= अव्यक्तग्रहणं नास्ति- सामान्यग्रहणस्य सामान्यांशे विशेषग्रहणस्य च विशेषांशे व्यक्तत्वादेवेत्यर्थः, किं वा यदुक्तम् 'यत्र विषयग्रहणहेतोरनवस्थितत्वं तत्राव्यक्तं ग्रहणम्' इति इदं नियतं नास्तीत्यर्थस्तथा च वार्तिकम्- " नायमेकान्तोस्ति यद् (यत्र) विषयग्रहणहेतोाह्यस्य चानवस्थानं तत्राव्यक्तग्रहणम्” इति / किं वा इदम्= बुद्धेः स्थिरत्वम् / सर्वथापि पूर्वपक्षपरिहारपरमिदं भाष्यम् / सिद्धान्तसूत्रमाह- प्रदीपेति, यथा प्रदीपार्चिस्संततेः- प्रदीपज्वालासंतानस्याभिव्यक्तमेव ग्रहणं भवति नाऽव्यक्तं तथा तत् तस्य= द्रव्यस्य धर्मिणोपि ग्रहणं व्यक्तमेव भवति नाऽव्यक्तं, यथा च प्रदीपार्चिषां व्यक्तग्रहणविषयत्वेपि न स्थायित्वम्- तैलावयवानां भेदेन क्षणिकत्वस्वीकारात् तथा बुद्धेरपि व्यक्तग्रहणहेतुत्वेपि न स्थायित्वं किं तु बुद्धिसंतानदर्शनात् प्रत्यक्षनिवृत्तेश्च दर्शनात् क्षणिकत्वमेव, किं च कासां चिद् बुद्धीनां क्षणिकत्वस्य प्रत्यक्षत्वात् तत्सामान्यात् सर्वासामपि बुद्धीनां क्षणिकत्वमनुमीयते इतिसूत्रार्थः / व्याचष्टे- अनवस्थायित्वेपीति, क्षणिकत्येपीत्यर्थः, तदेतत् सिद्धान्तकथनम् / उक्ते हेतुं जिज्ञासते- कथमिति / उत्तरमाह- प्रदीपेति / उक्तं व्याचष्टे- प्रदीपार्चिषामिति, संतत्या= संतानेन= उत्तरोत्तर प्रदीपार्चिषां नवनवानां वर्तमानानामित्यर्थः, तैलावयवभेदेन प्रतिक्षणं दीपज्वालाभेद इतिस्पष्टमेव, तत्र ग्राह्याणां प्रदीपार्चिषामनवस्थानम्= क्षणिकत्वं स्पष्टमेव, ग्राह्याणाम् प्रदीर्चिषामनवस्थाने च ग्रहणानवस्थानमपि स्पष्टमेव-विषयभेदेन बुद्धिभेदस्वीकारात् तथा च ग्राह्यग्रहणयोरनवस्थानेपि प्रदीपार्चिषां ग्रहणं व्यक्तमेव भवतीत्यन्वयः / उक्तं विशदयति- प्रत्यर्थेति, बुद्धीनां प्रत्यर्थनियतत्वात्= विषयव्यक्तिभेदेन भिन्नत्वात् , तदनेन ग्रहणानवस्थानं प्रतिपादितम् / पर्यवसितमाह-दृश्यते इति / तथा च यथा प्रदीपार्चिषां ग्रहणं व्यक्तमेव तथा धर्मिमात्रस्य ग्रहणं किं वा ग्रहणमानं व्यक्तमेव भवति नाव्यक्तं. व्यक्तं चापि ग्रहणं बुद्धेः स्थायित्वसमर्थकं न भवतिउक्तस्थले क्षणिकत्वेपि ग्रहणस्य व्यक्तत्वप्रदर्शनादिति बुद्धेः उत्पन्नापवर्गित्वम् क्षणिकत्वम् तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वं सिद्धमित्यर्थः / तथा च वार्तिकम्- "व्यवस्थितं क्षणिका बुद्धिरिति” इति // 47 // // इति बुद्धेः क्षणिकत्वप्रतिपादनं समाप्तम् // ____पुनरपि शरीरचैतन्यवादं निराकर्तुमारभते- चेतनेति, चेतना= चैतन्यम् , शरीरे सति चेतनाया भावात् शरीरेऽसति च चेतनाया अभावादित्यन्वयः, शरीरे एव चेतनोपलभ्यते नान्यत्रेति शरीरगुणः, यदि चेतनाऽऽत्मगुणः स्यात्तदा विभोरात्मनश्चेतना घटाद्यवच्छेदेनापि गृह्येत / न च मृतशरीरेषु चेतनाव्यभिचारो दोष:- भूतानां तादृशसंयोगविशेषविशिष्टे एव शरीरे चेतनास्वीकारात् / सद्यः कर्तिताद्यङ्गेषु यो वै कम्प उपलभ्यते यथा पल्लीपुच्छे पतिते स शरीरचैतन्यं विना नोपपद्यते इत्यर्थः / उक्ते सूत्रेण संशयमाह- द्रव्ये इति, गुणशब्दो धर्मपरः, द्रव्ये स्वधर्मोप्युपलभ्यते परधोप्युपलभ्यते तथा च शरीरे उपलभ्यमाना चेतना किं शरीरधर्म एव किं वा आत्मधर्मश्चेतना शरीरे उपलभ्यते इति