________________ 322 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके___ यथाविषयं च ग्रहणं व्यक्तमेव- प्रत्यर्थनियतत्वाच्च बुद्धीनाम्= सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तम्-प्रत्यर्थनियता हि बुद्धयः, तदिदमव्यक्तग्रहणं देशितं क विषये बुद्धयनवस्थानकारितं स्यादिति // धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खल्बर्थस्य समानाश्च धर्मा विशिष्टाश्च तेषु प्रत्यर्थनियताः= नाना बुद्धयस्ता उभय्यो यदि धर्मिणि वर्तन्ते तदा व्यक्तं ग्रहणं धर्मिणमभिप्रेत्य. यदा तु सामान्यग्रहणमात्रं तदाऽव्यक्तं ग्रहणमिति. एवं धर्मिणमभिप्रेत्य व्यक्ताव्यक्तयोर्ग्रहणयोरुपपत्तिरिति, न चेदमव्यक्तं ग्रहणं बुद्धेबर्बोद्धव्यस्य वाऽनवस्थायित्वादुपपद्यते इति // 46 // द्रव्यत्वादिकम् / तद्योगः= गृह्यमाणे तत्संवन्धः / उपसंहरति- तत्रेति, तत्र= एवं सामान्यविशेषधर्मयो)दे सिद्धे विशेषधर्मस्य ग्रहणं यन्न भवति तत् विशेषधर्मग्रहणस्य कारणाभावादेव संभवति न तु तत्र बुद्धेः क्षणिकत्वं कारणमिति बुद्धेः स्थिरत्वं सिद्धं क्षणिकत्वे कारणाभावादित्यर्थस्तथा च यत्राव्यक्तं ग्रहणं तत्रापि नोत्पन्नापवर्गिणी बुद्धिः / / यदि ग्रहणमव्यक्तं स्यात्तदा त्वदुक्तरीत्या तद्वशाद् बुद्धेः क्षणिकत्वं स्यादपि न चैवमस्ति किं तु ग्रहणमानं स्वविषयं प्रति व्यक्तमेवेति बुद्धेः स्थिरत्वमेव युक्तमित्युपपादयति- यथेति, यथाविषयम्= प्रतिविषयम् / उक्ते हेतुमाह- प्रत्यर्थेति, प्रत्यर्थनियतत्वात्= प्रतिपिषयं भिन्नत्वात् , यदि बुद्धीनां प्रतिविषयं भेदो न स्यात्तदा बहूनां ग्रहणे ग्रहणस्याव्यक्तत्वमपि स्यात् यथा वने दीपप्रकाशस्याधिकदेशव्याप्त्याऽव्यक्तत्वं. यदा च बुद्धीनां प्रतिविषयं भेदस्तदैकया बुद्धया एकस्यैव ग्रहणेन ग्रहणस्य व्यक्तत्वमेव संभवतीत्यर्थः / उक्तं विशदयति- सामान्येति, स्वविषयं प्रति= सामान्यांशं प्रति, स्वविषयं प्रति= विशेषांशं प्रति / उक्ते हेतुमाह- प्रत्यर्थेति, व्याख्यातमिदम् / अत्र-" तच्चार्थग्रहणं सामान्यतो विशेषतश्च यच्च सामान्यविषयं तत् सामान्य प्रति व्यक्तम् एवं विशेषविषयम् एवं तद्वद्विषयमिति" इतिवार्तिकम् . तद्वद्विषयं नाम सामान्यविशेषधर्मवद्विषयम्= धर्मिविषयकमपि ग्रहणं धर्मिणं प्रति व्यक्तमेवेत्यर्थः / उपसंहरति- तदिदमिति, देशितम्= उक्तम् , अव्यक्तं ग्रहणमेव नास्ति यत् कचिदपि विषये बुद्धथनवस्थानकारितं स्यात् तेन च बुद्धेः क्षणिकत्वं स्यादित्यर्थ इत्याक्षेपः // ग्रहणस्य व्यक्ताव्यक्तत्वे उपपादयति- धर्मिण इति, धर्मिणो धर्माणां सामान्यविशेषरूपेण द्वैविध्यं भवतीति धर्मभेदे सिद्धे तादृशधर्माणामेकयैव बुद्धया ग्रहणं न संभवतीति बुद्धीनां नानात्वं प्राप्तं तत्र बुद्धिनानात्वस्य= सामान्यविशेषोभयधर्मविषयकानेकबुद्धीनां भावे= सत्त्वे व्यक्तं ग्रहणं भवति तादृशबुद्धीनामभावे= सामान्यधर्ममात्रविषयकबुद्धिसत्त्वे चाव्यक्तं ग्रहणं भवतीत्येवं तदुपपत्तिः= ग्रहणस्य व्यक्ताव्यक्तत्वयोरुपपत्तिः संभवतीत्यर्थः / स्वयं व्याचष्टे-धर्मिण इति, समानाः= सामान्याः, विशिष्टाःविशेषाः, सन्तीति शेषः / तेषु= सामान्यविशेषधर्मेपु, प्रत्यर्थनियतत्वमाह- नानेति / ताः= बुद्धयः, उभय्यः= उभयविधाः= सामान्यधर्मविषया विशेषधर्मविषयाश्च धर्मिणि= धर्मिविषयका वर्तन्ते= जायन्ते यदा तदा धर्मिणमभिप्रेत्य ग्रहणं व्यक्तं भवति / अव्यक्तग्रहणमाह- यदेति, विशेषधर्माग्रहणे इत्यर्थः / पर्यवसितमाह- एवमिति, तथा चाव्यक्तग्रहणस्यापि स्वविषये सामान्यांशे व्यक्तत्वेपि धर्मण्यऽव्यक्तत्वं स्पष्टमेवेत्यर्थः / अत्र पूर्वपक्ष्याह- न चेदमिति, एवमव्यक्ते अहणे सिद्धेप्युक्तरीत्येदमव्यक्तं ग्रहणं बुद्धेबौद्धव्यस्य विषयस्य वा क्षणिकत्वान्नोपपद्यते किं तु ग्रहणहेतुविकल्पादेवोक्तादिति बुद्धेः स्थिरत्वमेव सिद्धं- क्षणिकत्वे कारणाभावादित्यर्थः / वस्तुतस्तु भाष्यमिदमसंगतमेव प्रतिभाति- पूर्वापरभाष्याभ्या संगतेरभावात्- पूर्वोत्तरभाष्ययोग्रहणस्य व्यक्तत्वप्रतिपादनादिति चिन्त्यम् // 46 // त्तः