________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 321 'उत्पन्नापवर्गिणी बुद्धिः' इति प्रतिषेद्धव्यम् . तदेवाभ्यनुज्ञायते- " विद्युत्संपाते रूपाऽव्यक्तग्रहणवत्" इति // 46 // यत्राऽव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिरिति-- ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात् // यदिदं कचिदव्यक्तं कचिद् व्यक्तं ग्रहणमऽयं विकल्पो ग्रहणहेतुविकल्पात्= यत्रानवस्थितो ग्रहणहेतुस्तत्राऽव्यक्तं ग्रहणम् यत्रावस्थितस्तत्र व्यक्तं न तु बुद्धेरऽवस्थानाऽनवस्थानाभ्यामिति / कस्मात्?. अर्थग्रहणं हि बुद्धिः= यत् तदर्थग्रहणमऽव्यक्तं व्यक्तं वा बुद्धिः सेति, विशेपाग्रहणे च सामान्यग्रहणमऽव्यक्तग्रहणं तत्र विषयान्तरे बुद्धयन्तरानुत्पत्तिर्निमित्ताभावात् . यत्र सामान्यधर्मयुक्तश्च धर्मी गृह्यते विशेषधर्मयुक्तश्च तद् व्यक्तं ग्रहणं. यत्र तु विशेषेऽगृह्यमाणे सामान्यग्रहणमात्रं तदव्यक्तं ग्रहणम् , सामान्यधर्मयोगाच्च विशिष्टधर्मयोगो विषयान्तरम् , तत्र यद् ग्रहणं न भवति तद् ग्रहणनिमित्ताभावाद् न तु बुद्धरनवस्थानादिति / प्राप्तेति ते वैपरीत्यमापन्नं बुद्धेश्च क्षणिकत्वं सिद्धमिति सूत्रार्थः, अपसिद्धान्तश्चात्र निग्रहस्थानम् / व्याचष्टे- उत्पन्नेति, त्वयेतिशेषः / तदेव प्रतिषेद्धव्यं बुद्धिक्षणिकत्वमेव / अभ्यनुज्ञावाक्यमाह-विद्यादिति, तदेतत् पूर्वसूत्रे व्याख्यातम् / तथा च त्वदुपपादनेनैव बुद्धेः क्षणिकत्वं सिद्धं विद्युत्प्रकाशवदित्यर्थः / उत्पन्नापवर्गिणी= उत्पत्तिविनाशशालिनी क्षणिकीतियावत् / स्पष्टमन्यत् / वस्तुतस्तु नेदं समाधानं समाहितम्- प्रकृते घटादिग्रहणस्य स्पष्टत्वेन तत्कारणीभूतस्य बुद्धिस्थिरत्वस्य प्राप्तस्य निरस्तत्वाभावाद् विद्युत्प्रकाशस्य क्षणिकत्वेन बुद्धेः क्षणिकत्वासंभवाचेति विभाव्यम् // 46 // .. ननु यत्र व्यक्तं ग्रहणं तत्र बुद्धेः स्थिरत्वेपि यत्राव्यक्तं ग्रहणं तत्र तुबुद्धिरुत्पन्नापवर्गिणी= क्षणिकी बुद्धेः क्षणिकत्वं विना तज्जन्यस्य ग्रहणस्य= विषयप्रतिभासस्याव्यक्तत्वासंभवादिति बुद्धेद्वैविध्यं स्वीकार्यमित्याह- यत्रेति, बुद्धेः स्थिरत्वमभ्युपगम्यायं पूर्वपक्षः, वस्तुतस्तु इतः पूर्व बुद्धेः स्थिरत्वप्रतिपादनमपेक्षितं तञ्चात्र नास्तीति त्रुटिरनुसंधेया / अस्योत्तरमाह- ग्रहणेति, ग्रहणस्य विकल्पः= भेदः= व्यक्ताव्यक्तत्वं ग्रहणहेतोर्विकल्पात्= भेदादेव भवति न तु बुद्धेर्विकल्पात्= अवस्थायित्वानवस्थायित्वाभ्यामिति बुद्धेः स्थिरत्वं सिद्धम्- क्षणिकत्वे कारणाभावादित्यर्थः / स्वयं व्याचष्टे- यदिदमिति, विकल्पः= ग्रहणस्य व्यक्ताव्यक्तत्वविकल्पः / ग्रहणहेतुविकल्पमाह- यत्रेति, ग्रहणहेतुः= प्रकाशादिस्तत्संयोगो वा / व्यवच्छेद्यमाह- न त्विति, तथा च बुद्धेरऽवस्थितत्वं सिद्धमित्यर्थः / उक्त हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- अर्थेति, अर्थस्य= पदार्थस्य यद् ग्रहणं तद् बुद्धिरेव तथा च यत् तद् अर्थग्रहणं व्यक्तं वाऽव्यक्तं वा तत् सबै बुद्धिरेव बुद्धेश्च व्यक्ताव्यक्तत्वे न बुद्धित एव संभवतो यथा पटस्य नीलपीतत्वे न पटादेव भवतः किं तु कारणान्तरादेव तथाऽर्थग्रहणलक्षणाया बुद्धरपि व्यक्ताव्यक्तत्वे ग्रहणहेतुविकल्पादेव= बुद्धिकारणभेदादेव संभवत उक्तरीत्येति बुद्धेः क्षणिकत्वे कारणाभावात् स्थिरत्वं सिद्धमित्यर्थः / अव्यक्तग्रहणस्य कारणं स्वरूपं चाह- विशेषेति, विशेषस्य पुरुषत्वादेरग्रहणे सामान्यग्रहणमेवाऽव्यक्तग्रहणमित्यर्थः / विशेषाग्रहणकारणमाह- तत्रेति, तत्र= अव्यक्तग्रहणदशायां या विषयान्तरे विशेष= विशेषविषयाया बुद्धेरनुत्पत्तिः सा निमित्ताभावात्= स्वकारणाभावात्= विशेषग्रहणकारणाभावादित्यर्थः / व्यक्तग्रहणमाह- यत्रेति, यत्र सामान्यधर्मयुक्तो विशेषधर्मयुक्तश्च धर्मी गृह्यते तद् व्यक्तं ग्रहणमित्यन्वयः। अव्यक्तग्रहणं पुनराह- यत्र त्विति / पूर्वोक्तं विषयान्तरपदार्थमाह- सामान्येति, सामान्यधर्मातिरिक्तो यो विशिष्टधर्मः= विशेषधर्मस्तदेव विषयान्तरं यथा पुरुषत्वादि, सामन्यधर्मश्च 41