________________ 320 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेतिष्ठते बुद्धिः- दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धावनित्यायां कारणाभावान्न स्यादिति, तदिदमलिङ्गम् , कस्मात् ?. बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर्ने बुद्धिरिति // हेत्वभावादयुक्तमितिचेत् ? बुद्धयवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः // यावदवतिष्ठते बुद्धिस्तावदसौ बोद्धव्यार्थः प्रत्यक्षः प्रत्यक्षे च स्मृतिरनुपपन्नेति // 44 // अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्संपाते रूपाव्यक्तग्रहणवत् // 45 // यद्युत्पन्नांवर्गिणी बुद्धिः? प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणं यथा विद्युत्संपाते वैद्युतस्य प्रकाशस्याऽनवस्थानादव्यक्तं रूपग्रहणमिति. व्यक्तं तु द्रव्यणां ग्रहणं तस्मादयुक्तमेतदिति॥४५॥ हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा // 46 // प्राप्तं विशिष्टबुद्धौ च विशेषणज्ञानं कारणं बुद्धेश्च नाशे जाते स्मृतिविषयविशेषणत्वेन ज्ञानं न संभवतीति स्मृत्युपपत्त्यर्थं बुद्धेः स्थिरत्वं स्वीकार्यमित्याशङ्कयाह किं वा कारणं विना कार्य न भवतीति स्मृतिकारणीभूताया बुद्धेः स्थिरत्वं स्वीकार्य स्मृतिसंपत्त्यर्थमित्याशङ्कयाह- स्मृतिरिति, बुद्धयवस्थाने बुद्धिस्थिरत्वे / उक्ते हेतुमाह- संस्कारस्येति, बुद्धिजन्यसंस्कारेण स्मृतिर्जायते न बुद्धयेति न स्मृत्युपपत्त्यर्थे बुद्धेः स्थिरत्वापेक्षेत्यर्थः, स्मृतिविषयस्य च ज्ञानं न विशेषणं किं तूपलक्षणमेवेति न क्षणिकत्वे कोपि दोषः / पूर्वपक्षिमतमनुवदति- यश्चेत्यादिना, अवतिष्ठते= कालान्तरावस्थायिनी, अत्र प्रत्यक्षं प्रमाणयति- दृष्टेति, सा= स्मृतिः, अनित्यायाम्= विनष्टायाम् / घटविषयकबुद्धिं विना घटस्मृतिर्न भवतीत्यन्वयव्यतिरेकाभ्यामेव बुद्धेः स्मृतिकारणत्वं सिद्धं कारणं विना च कार्य न भवतीतिप्रसिद्धमेवेति स्मृतिसिद्धयर्थ बुद्धेरवस्थितत्वं स्वीकार्यमित्यर्थः / परिहरति- तदिदमिति, इदम्- स्मरणं बुद्धिस्थिरत्वे लिङ्गं न संभवतीत्यर्थः / उक्त हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- बुद्धिज इति, संस्कारश्चात्मगुण इतिप्रसिद्धमेव / वस्तुतस्तु पुनरुक्तिरियम् // ननु बुद्धेः क्षणिकत्वमयुक्तम्- हेत्वभावात्= बुद्धिजन्यसंस्कारेण स्मृतिर्जायते न बुद्धयेत्यत्र नियामकाभावादित्याशङ्कते-हेत्वभावादिति। उत्तरमाह-बुद्धीति, यद्यवतिष्ठते बुद्धिस्तदा बुद्धेरवस्थानात् प्रत्यक्षमप्यवतिष्ठेत तथा च घटप्रत्यक्षे जाते प्रत्यक्षस्थित्या घटस्य प्रत्यक्षत्वमेव स्यादिति स्मृत्यभावः प्राप्तः- प्रत्यक्षे विद्यमाने सति स्मृतेरसंभवात् तथा च स्मृत्युपपत्त्यर्थमपि बुद्धेरनित्यत्वं क्षणिकत्वं च स्वीकार्यमित्यर्थः / स्वयं व्याचष्टे- यावदिति / प्रत्यक्षे च विद्यमाने सति स्मृतिर्न संभवतीत्यर्थः / बोद्धव्यार्थः= बुद्धिविषयः पदार्थः / स्पष्टमन्यत् // 44 // . बुद्धेः क्षणिकत्वेऽनुपपत्तिमाह- अव्यक्तेति, यथा विद्युत्संपाते= विद्युत्प्रकाशे रूपस्याऽव्यक्तम्अस्पष्टं ग्रहणं भवति- विद्युत्प्रकाशस्य क्षणिकत्वात् तथा यदि बुद्धिरपि क्षणिकी स्यात्तदा बुद्धरनवस्था. यित्वात्= क्षणिकत्वाद् घटादीनां ग्रहणमव्यक्तं स्यात्- व्यक्तग्रहणस्य प्रकाशकस्थित्यधीनत्वात् , न चैवमस्ति किं तु घटादीनां ग्रहणं व्यक्तमेव भवति- सर्वयोग्यधर्मविशिष्ट प्रकाशादिति व्यक्तग्रहणेन बुद्धेः स्थिरत्वं प्राप्तमिति सूत्रार्थः / व्याचष्टे- यदीति, यथा विद्युत्संपाते विद्युत्प्रकाशस्य क्षणिकत्वाद् रूपग्रहणमव्यक्तमेव भवति तथा यदि बुद्धिरपि उत्पन्नापवर्गिणी= क्षणिकी स्यात्तदा बोद्धव्यस्य= घटादेग्रहणमब्यक्तं प्राप्तम्= स्यात्- क्षणिकप्रकाशेन व्यक्तग्रहणोत्पत्तेरसंभवात्- व्यक्तग्रहणस्यानेकक्षणसापेक्षत्वात् , न चाव्यक्तं ग्रहणं किं तु द्रव्याणां ग्रहणं व्यक्तमेव भवति तच्च बुद्धेः स्थिरत्वे एव संभवति तस्मादेतत्= बुद्धेः क्षणिकत्वमयुक्तमेवेत्यर्थः // 45 // ___ उक्त दोषमाह- हेत्विति, त्वया पूर्वपक्षिणा यद् बुद्धेः क्षणिकत्वं प्रतिषेद्धव्यमस्ति तत्रैव त्वया हेतुः= दृष्टान्त उपात्तः= प्रदर्शित इति प्रतिषेद्धव्यस्य- बुद्धिक्षणिकत्वस्याऽभ्यनुज्ञा= स्वीकारापत्तिः