________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 319 अनित्यायां च बुद्धौ उत्पन्नापवर्गित्वात् कालान्तरावस्थानाचानित्यानां संशयःकिमुत्पन्नापवर्गिणी बुद्धिः शब्दवत् ? आहो स्वित् कालान्तरावस्थायिनी कुम्भवत् ? इति, उत्पनापवर्गिणीति पक्षः परिगृह्यते, कस्मात्? कर्मानवस्थायिग्रहणात् // 44 // कर्मणोऽनवस्थायिनो ग्रहणादिति- क्षिप्तस्येपोरापतनात् क्रियासंतानो गृह्यते, प्रत्यर्थनियमाञ्च बुद्धीनां क्रियासंतानवद् बुद्धिसंतानोपपत्तिरिति, अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्षनिवृत्तेः= अवस्थिते च कुम्भे गृह्यमाणे संतानेनैव बुद्धिवर्तते प्राग् व्यवधानात् . तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते, कालान्तरावस्थाने तु बुद्धेदृश्यव्यवधानेपि प्रत्यक्षमवतिष्ठतेति / स्मृतिश्चालिङ्गं बुद्धयवस्थाने- संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात् / यश्च मन्येत- अवविषयकं स्मरणं यत्तैः पुस्तकमगृहीत्वैवानेकानि शास्त्राण्यध्यापितानि 26 / अधर्मात् स्मृतिमाह- अधर्मादिति, प्रागनुभूतदुःखादिस्मरणस्याधर्म एव कारणम् 27 / पर्यवसितमाह- न चेति, एतेषां स्मृतिनिमितानां योगपद्यं न संभवतीति स्मृतीनामपि यौगपद्यं न संभवतीति पूर्वोक्तं समर्थितमित्यर्थः, अत्रोक्तानि बहूनि निमित्तानि ज्ञातान्येव स्मृतिजनकानि भवन्ति ज्ञानं च तेषामनेकेषां युगपन्न संभवतीति संवेदनानीत्युक्तम् / उपसंहरति-निदर्शनं चेति, परिसंख्यानम्= इयत्ताकथनम् / तथा चोन्मादादीनामपि स्मृतिकारणत्वं विज्ञेयम् // 43 // अग्रिमप्रकरणमारभते- अनित्यायामिति, बुद्धरनित्यत्वमेतदाह्निकारम्भे एव प्रतिपादितम् , अनि. त्यानां च द्वैविध्यमस्ति कालान्तरावस्थायित्वं यथा घटादीनाम् उत्पन्नापवर्गित्वम्= तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम्= क्षणिकत्वं यथा शब्दादीनां तथा चानित्यानामुत्पन्नापवर्गित्वात् कालान्तरावस्थानाञ्चाऽनित्यायां बुद्धौ संशय इत्यन्वयः / संशयमाह- किमिति / स्वपक्षमाह- उत्पन्नेति / अत्र हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह- कर्मेति, बुद्धेः कर्मवत्= क्रियावद् अनवस्थायित्वग्रहणात् क्षणिकत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- कर्मण इति, अनवस्थायिनः= क्षणिकस्यापि कर्मणो यथा ग्रहणं भवति तथा बुद्धेरपीत्यर्थः / स्वाभिप्रायमाह- क्षिप्तस्येति, आपतनात्= पतनपर्यन्तम् इषोरुत्तरोत्तरदेशगमनानुकूलक्रियाणां संतानो गृह्यते- एकया क्रियया तादृशदूरदेशपर्यन्तं गमनासंभवात् क्रियासंताने सिद्धे तादृशक्रियाणां क्षणिकत्वं प्राप्तम्- पूर्वक्रियानाशं विना तत्रान्यक्रियाया असंभवादित्यर्थः / प्रकृतमाह- प्रत्यर्थेति, बुद्धीनां प्रत्यर्थनियमात्= विषयभेदेन भेदात् , एकस्यापि पदार्थस्य क्षणभेदेन भेदात् एकविषयकबुद्धिस्थलेपि इवादिषु क्रियासंतानवदात्मनि बुद्धिसंतानस्योपपत्तिस्तत्र पूर्वबुद्धेविनाश विनाऽन्या बुद्धिर्न संभवतीति बुद्धीनां क्षणिकत्वं सिद्धमित्यर्थः / बुद्धेः क्षणिकत्वं स्पष्टमाह- अवस्थितेति, अवस्थितग्रहणे= स्थिरपदार्थग्रहणदशायामपि तस्य स्थिरपदार्थस्य व्यवधीयमानस्य व्यवधानवतःव्यवधाने जाते तत् प्रत्यक्षं निवर्तते तेन प्रत्यक्षस्य क्षणिकत्वं प्राप्तम् अन्यथा व्यवधाने जातेपि प्रत्यक्षमवतिष्ठेत न चावतिष्ठते इति क्षणिकत्वं सिद्धमित्यर्थः / उक्तं व्याचष्टे- अवस्थिते चेति, व्यवधानात् प्राक् अवस्थितग्रहणे बुद्धिः संतानेन= बुद्धिसन्तानः= अनेकबुद्धिशृङ्खला वर्तते बुद्धिसंताने स्वीकृते च बुद्धीनां क्षणिकत्वं प्राप्तम् अन्यथैकबुद्धिसत्त्वे बुद्धिसंतानो न स्यात् , तेन= बुद्धीनां क्षणिकत्वेनैव व्यवहिते= विषयव्यवधाने जाते प्रत्यक्षं निवर्तते इत्यन्वयः / विपक्षे बाधकमाह- कालान्तरेति, बुद्धेः कालान्तरावस्थाने कालान्तरावस्थायित्वे= अक्षणिकत्वे दृश्यस्य व्यवधाने जातेपि पूर्वजातं प्रत्यक्षमवतिष्ठेत न चावतिष्ठते इति क्षणिकत्वं सिद्धमित्यर्थः / ननु यदि बुद्धिः स्थिरा न स्यात्तदा कालान्तरे तादृशबुद्धिविषयस्य स्मृतिर्न स्यात्- ज्ञातविषयकं हि ज्ञानं स्मृतिरिति ज्ञानस्य स्मृतिविषयविशेषणत्वं