________________ 318 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेभूतस्येति 4, लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः- विदानामिदं गर्गाणामिदमिति 5, सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि 6, परिग्रहात्- स्वेन वा स्वामी स्वामिना वा स्वं स्मयते 7, आश्रयात्- ग्रामण्या तदधीनं स्मरति 8, आश्रितात- तदधीनेन ग्रामण्यमिति 9, संबन्धात्- अन्तेवासिना युक्तं गुरुं स्मरति ऋत्विजा याज्यमिति 10, आनन्तर्यात- इतिकरणीयेष्वर्थेषु 11, वियोगात्- येन विप्रयुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति 12, एककार्यात्कत्रन्तरदर्शनात् कुर्वन्तरे स्मृतिः 13, विरोधात्- विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मयते 14, अतिशयात्- येनातिशय उत्पादितः 15, प्राप्ते:- यतो येन किंचित् प्राप्तमाप्तव्यं वा भवति तमभीक्ष्णं स्मरति 16, व्यवधानात्-कोशादिभिरसिभृतीनि स्मर्यन्ते 17, सुखदुःखाभ्यां तद्धेतुः स्मर्यते 19, इच्छाद्वेषाभ्यां यमिच्छति यं च द्वेष्टि तं स्मरति 21, भयात्- यतो विभेति 22, अर्थित्वात्-येनार्थी भोजनेनाऽऽच्छादनेन वा 23, क्रियया- रथेन रथकारं स्मरति 24, रागात्- यस्यां स्त्रियां रक्तो भवति तामभीक्ष्णं स्मरति २५,धर्मात् जात्यन्तरस्मरणम् इह चाधीतश्रुतावधारणमिति 26, अधर्मात् प्रागनुभूतदुःखसाधनं स्मरति२७, न चैतेषु निमित्तेषु युगप संवेदनानि भवन्तीति युगपदस्मरणमिति ।निदर्शनं चेदं स्मृतिहेतूनां नपरिसंख्यानमिति 43 एकः स्मर्यते इति, यदा त्वेकस्मिन्नथें समवाय इत्यर्थस्तदा रूपं स्पर्शस्येत्युदाहरणम् , स्वाभाविकाऽविनाभावयुक्तं लिङ्गं सांकेतिकं तु चिह्नमितिविशेषः” इतितात्पर्यटीका 4 / लक्षणमाह- लक्षणमिति. चिह्न मित्यर्थः, पशुकण्ठस्थं विदानां चिह्न विदानां गर्गाणां च चिह्न गर्गाणां गोत्रस्य- जातेः स्मृतिजनक भवति- इदं चिह्नं विदानामित्यादिरूपेणेत्यन्वयः 5 / सादृश्यमाह- सादृश्यमिति, चित्रगतम्= चित्रपटगतम्. प्रतिरूपकम् = आकृतिः, देवदत्तचित्रेण देवदत्तस्मृतिर्जायते 6 / परिग्रहात् स्मृतिमाह- परिग्रहादिति, स्वेन= तत्पदार्थेन, स्वं तद्वस्तु 7 / आश्रयात् स्मृतिमाह- आश्रयादिति, ग्रामण्या ग्रामनायकेन. ग्रामनायको हि स्वाधीनस्याश्रयः 8 / आश्रितात् स्मृतिमाह- आश्रितादिति, तदधीनेन= ग्रामनायकाधीनपदार्थेन. ग्रामण्यम्= ग्रामनायकं स्मरति अधीनं चाधीश्वराश्रितमिति प्रसिद्धमेव 9 / संबन्धात् स्मृतिमाह-संबन्धादिति, छात्रदर्शनेन तद्गुरोः कृत्विग्दर्शनेन च तद्यजमानस्य या स्मृतिः सा तत्संबन्धादेवेत्यर्थः 10 / आनन्तर्यात् स्मृतिमाह- आनन्तर्यादिति, इतिकरणीयेषु= इतिकर्तव्यताप्रविष्टेषुकर्तव्येषु पदार्थेषु= कार्येषु मध्ये प्रथमादनन्तरं या द्वितीयस्य स्मृतिः साऽऽनन्तर्यादेव यथोपाकरणानन्तरं नियोजनस्य, वह्निप्रज्वालनानन्तरं च स्थाल्यधिश्रयणस्य स्मृति: 11 / वियोगात् स्मृतिमाह- वियोगादिति, तद्वियोगप्रतिसंवेदी= तद्वियोगदुःखानुभवी तं प्रियं वियुक्तं वियोगात् स्मरति 12 / एककार्यात् स्मृतिमाह-एकेति, एकस्य वीणावादकस्य दर्शनाद् या द्वितीयस्य वीणावादकस्य स्मृतिः सा एककर्यादेव समानकार्यकर्तृत्वादेव जायते 13 / विरोधात् स्मृतिमुदाहरति- विरोधादिति 14 / अतिशयात् स्मृति. माह- अतिशयादिति, येन यस्मिन्नर्थेऽतिशय उत्पादितस्तत्प्रकरणे या तत्स्मृतिः सा तादृशाऽतिशयादेव जायते यथा सिताराख्यवीणाप्रकरणे मत्संगीतगुरूणां श्रीमदमृतसेनमहोदयानाम्१५। प्राप्तेः स्मृतिमुदाहर• ति-प्राप्तेरिति, येन= जीवेन१६ / व्यवधानात् स्मृतिमाह-व्यवधानादिति. व्यवधायकत्वा दित्यर्थः,कोशः= असिस्थानम् 17 / सुखदुःखाभ्यां तद्धेतोः स्मृतिमाह-सुखेति, तद्धेतुः सुखदुःखहेतुः 19 / इच्छाद्वेषाभ्यां तद्विषययोः स्मृतिमाह- इच्छेति 21 / भयात् स्मृतिमाह- भयादिति, तं स्मरतीतिशेष: 22 / अर्थित्वात् स्मृतिमाह- अर्थित्वादिति, येन= यस्य भोजनस्य वस्त्रस्य वार्थी भवति तं पदार्थ स्मरति 23 / क्रियया= कार्येण कर्तृस्मृतिमाह- क्रिययेति, रथो रथकारकार्यमेव 24 / रागात् स्मृतिमाह- रागादिति 25 / धर्मात् स्मृतिमाह- धर्मादिति, जात्यन्तरस्मरणम् पूर्वजन्मवृत्तान्तस्मरणम् , इह= वर्तमानजन्मनि, एतादृशं स्मरणं हि धर्मादेव संभवति यथा मदीयविद्यागुरूणां श्रीगङ्गाधरशास्त्रिचरणानामनेकशास्त्र