________________ 317 बुद्धिविवेचनम् ] न्यायभाष्यम्। प्रणिधाननिबन्धाऽभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाऽश्रियाऽऽश्रितसँ. 'म्बन्धाऽऽनन्तर्यवियोगैककार्यविरोधाऽतिशयप्राप्तिव्यवधानसुखदुःखे छादेषभयार्थिवैक्रिया गर्धर्माधर्मनिमित्तेभ्यः // 13 // सुस्मूर्षया मनसो धारणं प्रणिधानम्- सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम् 1, निबन्धः खल्वेकग्रन्थोपयमोर्थानाम्- एकग्रन्थोपयताः खल्वर्था अन्योन्यस्मृतिहेतवः आनुपूव्र्येणेतरथा वा भवन्तीति, धारणाशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानामुपनिक्षेपो निबन्ध इति 2, अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तिः अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते स च स्मृतिहेतुः समान इति 3, लिङ्गं पुनः संयोगि समवायि एकार्थसमवायि विरोधि चेति, संयोगि यथा धूमोऽनेः गोविषणं पाणिः पादस्य रूपं स्पर्शस्य अभूतं निमित्तेभ्यो जायते इति सूत्रेणान्वयः / स्मृतिकारणान्याह- प्रणिधानेति, प्रणिधानादिभ्यः सप्तविंशतिभ्यो निमित्तेभ्यः= कारणेभ्यः स्मृतिर्जायते इतिसूत्रान्वयः, अन्यत्सर्व भाष्ये स्पष्टमेव / व्याचष्टेसुस्मूर्षयेति, सुस्मूर्षया= स्मरणेच्छया मनसो यद् धारणम्= एकाग्रीकरणम्= एकत्र नियोजनम् मनसा चिन्तनं तदेव प्रणिधानम् , प्रणिधानस्य स्मृतिकारणत्वमाह- सुस्मृर्षितेति, सुस्मूर्षितस्य= स्मरणेच्छाविषयस्य यल्लिङ्गं तच्चिन्तनम् अर्थस्य= लिङ्गिनः स्मृतिकारणं भवति यथैकदेशचिन्तनेन देशिनः स्मरणं जायते इत्यर्थः 1 / निबन्धलक्षणमाह- निबन्धेति, अर्थानाम्= प्रतिपाद्यपदार्थानां य एकग्रन्थे उपयमः= प्रतिपादनं तदेव निबन्धः, निबन्धस्य स्मृतिकारणत्वमाह- एकेति, आनुपूर्येण= प्रतिपादनक्रमेण, इतरथा= अक्रमेण / अत्र- " यथाऽत्रैव प्रमाणादयोऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः. आनुपूर्व्या वा यथा प्रमाणपदार्थ स्मृत्वा प्रमेयं स्मरति, इतरथा वा= यथा निग्रहस्थानानां स्मृत्वा प्रमाणानां स्मरति" इतितात्पर्यटीका / निबन्धस्य स्वरूपान्तरमाह- धारणेति धारणाशास्त्रकृतः= योगशास्त्राभ्यासजन्यसंस्कारकृतो यो निक्षेपः= समारोपो यथा सूर्यादौ मधुत्वाद्यारोपः स निबन्धपदार्थस्तेनापि स्मरणं जायते, यथा च मुखे चन्द्रसमारोपात् चन्द्रदर्शनेन मुखस्मरणं जायते इत्यादि, अत्र- "धारणाशास्त्रं जैगीषव्यादिप्रोक्तं तत्कृतो ज्ञातेष्वेव वस्तुपु= नाडीवक्त्रहृत्पुण्डरीककण्ठकूपनासाग्रतालुललाटब्रह्मरन्ध्रादिषु स्मर्तव्यानां बीजरूपसंस्थानाऽस्त्राऽऽभरणभूतानां च देवतानामुपनिक्षेपः= समारोपः तथा च तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्यन्ते इत्यर्थः” इतितात्पर्यटीका, योगशास्त्रविषयोऽयं नास्मत्प्रत्यक्ष इत्यलम् 2 / अभ्यासलक्षणमाह- अभ्यासेति, समाने= एकस्मिन् , अभ्यावृत्तिः= पुन:पुनरावृत्तिः, एकस्य पदार्थस्य पुनः पुनश्चिन्तनमेवाभ्यासः, अत्र चाभ्यासशब्देनैतादृशाभ्यासजन्यः संस्कारो ग्राह्यः स च समानः= सर्वस्मृतिहेतुरित्यर्थः 3 / लिङ्गमाह- लिङ्गमिति, लिङ्गं चतुर्धा विभजतेसंयोगीति, उदाहरति- यथेति, अग्निधूमयोः संयोगसंबन्धादग्नेधूमः संयोगि लिङ्गं धूमेन वह्निस्मृतिश्च स्पष्टैव / समवायिलिङ्गमुदाहरति- गोरिति, अवयवावयविनोः समवायस्वीकाराद् विषाणलक्षणोऽवयवो गोरवयविनः समवायि लिङ्गं अवयवदर्शनेनावयविस्मृतिश्च प्रसिद्धैव / एकार्थसमवायिलिङ्गमुदाहरतिपाणिरिति, पाणिपादौ एकार्थस्य= शरीरस्य समवायवन्तौ इत्येतादृशेनैकार्थसमवायेन पादस्य पाणिलिङ्गं तत्र पाणिदर्शनेन पादस्मृतिः संभवति, रूपस्पशी चैकस्मिन् समवायवन्तौ इत्येतादृशेनैकार्थसमवायेन स्पर्शस्य रसस्य वा रूपं लिङ्गं तत्र रूपदर्शनेन रूपसमानाधिकरणस्य रसादेः स्मृतिः स्पष्टैव, विरोधिलिङ्गमुदाहरति- अभूतमिति, भूताभूतयोः परस्परं विरुद्धत्वाद् भूतस्याऽभूतं विरोधि लिङ्गं तत्राभूतेन= भविष्यता दुःखादिना भूतस्य= पूर्वजातस्य दुःखादेः स्मृतिर्भवत्येव, अत्र- “एकस्य खल्वत्रावयविनः समवायः पादे च पाणौ च तो पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसमवायवता प्रत्यक्षेणाऽप्रत्यक्ष