________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेस्मरणं त्वात्मनः- ज्ञस्वाभाव्यात् // 42 // उपपद्यते इति, आत्मन एव स्मरणं न बुद्धिसंततिमात्रस्येति, तुशब्दोऽवधारणे / कथम् ? ज्ञस्वाभाव्यात्= ज्ञ इत्यस्य स्वभावः= स्वो धर्म:- अयं खलु 'ज्ञास्यति जानाति अज्ञासीत्' इति त्रिकालविपयेणाऽनेकेन ज्ञानेन संबध्यते. तच्चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयम्'ज्ञास्यामि जानामि अज्ञासिषम्' इति वर्तते. तद् यस्यायं स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति // 42 // स्मृतिहेतूनामऽयोगपद्याद् युगपदस्मरणमित्युक्तम् , अथ केभ्यः स्मृतिरुत्पद्यते इति?, स्मृतिः खलुअमुं ज्ञेयमर्थमज्ञासिषमित्यन्वयः / उपसंहरन् स्वपक्षे स्मरणोपपत्तिमाह- सोयमिति, सोयम्= ज्ञानाद्यतिरिक्तः एकः= नित्यो ज्ञाता= आत्मा पूर्वज्ञातं पदार्थं गृह्णाति ग्रहीतुं शक्नोति, अस्य= आत्मनो यत् पूर्वज्ञातस्य ग्रहणम्= ज्ञानं तत् स्मरणमित्युच्यते इति हेतोस्तत्= स्मरणं निरात्मके बुद्धिप्रबन्धमात्रे= ज्ञानसंतानमात्रे बौद्धमते नोपपद्यते- तत्र ज्ञानानां क्षणिकत्वेन पूर्वज्ञातग्राहकत्वासंभवात्- अन्यज्ञा. तस्यान्येन स्मरणासंभवात् नित्यात्मनश्चास्वीकारादिति निरात्मवादे दोषबाहुल्यात् ज्ञानाद्यतिरिक्तो नित्यश्चेतनो ज्ञानगुणक आत्मा स्वीकार्य इति सिद्धमित्यर्थः / अत्र- " अप्रतिसंहितमिति- पूर्वेारर्धकृतानामपरेाः परिसमापना दृष्टा- 'मयाऽऽरब्धं मयैव परिसमापनीयम् ' इतिप्रतिसंधाने. अप्रतिसंधाने तु न परिसमापयेयुः, परिसमापने वा चैत्रारब्धमपि मैत्रः परिसमापयेत् यतः स्वयमारब्धात् परारब्धमव्यावृत्तम्= अविशिष्टम्- स्वस्यापि परत्वात् , अपरिनिष्ठं च कर्मजातं स्यात् तथा हि- वैश्यस्तोमे वैश्य एवाधिकारी न ब्राह्मणराजन्यौ एवं राजसूये राजैव न ब्राह्मणवैश्यौ एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ शूद्रश्चानधिकृत एवेति परिनिष्ठा सा बुद्धिसंततिमात्रे न स्यात् , कुतः ? सल्लक्षणानां सर्वेषामेव त्रैलोक्यवैलक्षण्येन भेदात्. अन्यापोहसामान्यस्य च निवर्तितत्वादित्यर्थः, अप्रतिसंहितत्वे हेतुमाह- स्मरणाभावादिति" इति तात्पर्यटीका // 41 // ननूक्तं स्मरणमपि बुद्धिधर्म एव किं न स्यादित्याशङ्कयाह- स्मरणमिति, स्मरणं त्वात्मनः= आत्मधर्म एव- आत्मनो ज्ञस्वाभाव्यात्= ज्ञातृत्वादित्यन्वयः, ज्ञानसमानाधिकरणत्वात् स्मरणं ज्ञातृधर्म एव न तु ज्ञानधर्म:- ज्ञानविशेषस्य स्मरणस्य ज्ञानधर्मत्वासंभवादिति तादृशस्मरणाश्रयत्वेन ज्ञानातिरिक्त आत्मा सिद्ध इतिसूत्रार्थः / व्याचष्टे-- उपपद्यते इति, शेष इतिशेषः, आत्मनो ज्ञस्वाभाव्यात् स्मरणमुपपद्यते इत्यर्थः, षष्टयर्थः कर्तृत्वम् / सूत्रप्रतिपाद्यमाह- आत्मन इति, / उक्ते हेतुं जिज्ञासते- कथमिति / हेतुमाह- ज्ञेति, हेतुवाक्यं व्याचष्टे- ज्ञ इति, ज्ञ इत्यस्य= ज्ञातुरित्यर्थः, ज्ञातुर्ज्ञानं स्वभावः= स्वधर्मः स्मरणमपि ज्ञानमेवेति ज्ञातुरात्मन एव धर्मो न ज्ञानस्येत्यर्थः / आत्मनो ज्ञानस्वभावत्वमाह- अयमिति, अयम्= आत्मा, त्रिकालविषयेण= त्रैकालिकेन, ज्ञानेन संबध्यते= ज्ञानवान् भवति / आत्मनस्त्रैकालिकज्ञानवत्त्वे प्रत्यक्षं प्रमाणयति- तच्चेति, अस्य= आत्मनः, प्रत्यात्मवेदनीयम्= सर्वजनप्रत्यक्षं वर्तते इत्यन्वयः / त्रैकालिकज्ञानमुदाहरति- ज्ञास्यामीति / उपसंहरति- तदिति, यस्य= आत्मनोऽयम्= ज्ञानपदार्थः स्त्रो धर्मस्तस्यैवात्मनः स्मरणमपि धर्मो न तु निरात्मकस्य बौद्धस्वीकृतस्य बुद्धिसंतानस्यस्मरणस्यापि ज्ञानरूपत्वात् , धर्मत्वं च समवायेन विज्ञेयम् , तदनेनाष्टादशसूत्रमारभ्य प्रबन्धेन ज्ञानस्याऽऽत्मगुणत्वं सिद्धमित्यर्थः // 42 // // इति बुद्धरात्मगुणत्वप्रतिपादनं समाप्तम् // अग्रिमसूत्रमवतारयति-स्मृतीति, स्मरणायौगपद्ये स्मरणहेतूनामयोगपद्यमिति प्रणिधानलिङ्गादीति सूत्रेणोक्तं तत्र कानि स्मरणकारणानीति जिज्ञासते- अथेति / स्मृतिः खलु प्रणिधानादिलक्षणेभ्यो