________________ न्यायभाष्यम्। 315 बुद्धिविवेचनम] ___ अथ वा “उपपत्तेश्च" इति हेत्वन्तरमेवेदम्- नित्यः खल्वयमात्मा यस्मादेकस्मिन् शरीरे धर्म चरित्वा कायभेदात् स्वर्गे देवेधूपपद्यते. अधर्म चरित्वा देहभेदाद् नरकेषूपपद्यते इति, उपपत्तिः= शरीरान्तरमाप्तिलक्षणा. सा सति सत्त्वे नित्ये चाश्रयवती / बुद्धिप्रवन्धमात्रे तु निरात्मके निराश्रया नोपपद्यते इति / एकसत्त्वाधिष्ठानश्चानेकशरीरयोगः संसार उपपद्यते. शरीरप्रवन्धोच्छेदश्चापवर्गो मुक्तिरित्युपपद्यते, बुद्धिसंततिमात्रे त्येकसत्त्वानुपपत्तेर्न कश्चिद् दीर्घमध्वानं संधावति. न कश्चित् शरीरप्रबन्धाद्विमुच्यते इति संसारापवर्गानुपपत्तिरिति / बुद्धिसंततिमात्रे च सत्त्वभेदात् सर्वमिदं प्राणिव्यवहारजातमऽप्रतिसंहितमऽव्यावृत्तमऽपरिनिष्ठितं च स्यात ततः स्मरणाभावात्- नाऽन्यदृष्टमन्यः स्मरतीति, स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम्- 'अज्ञासिपममुमर्थ ज्ञेयम्' इति. सोयमेको ज्ञाता पूर्वज्ञातमर्थ गृह्णाति तच्चास्य ग्रहणं स्मरणमिति. तद् बुद्धिप्रवन्धमाने निरात्मके नोपपद्यते // 41 // साधकहेतुभिरेवात्मनश्चैतन्यं सिद्धं तदा सूत्रमिदं व्यर्थमेवेत्याशङ्कय सूत्रसार्थक्यमाह- परिशेषेति, यथोक्त. हेनूपपत्तिवचनम्= इदं सूत्रं परिशेषस्य= उक्तरीत्या पारिशेष्यादात्मचैतन्यस्य ज्ञापनार्थम् प्रकृतस्य= आत्मचैतन्यस्य= अत्मगुणो ज्ञानमित्यस्य स्थापनादिज्ञानार्थम्= सिद्धस्यैवात्मचैतन्यस्योपसंहारार्थं च सूत्रमिति न सूत्रानर्थक्यम्- पूर्वसाधितसूचकत्वादित्यर्थः / - वर्णकान्तरमाह- अथ वेति, उपपत्तेः= उत्पत्तेः / उपपत्तिमुपपादयति-नित्य इति, आत्मनित्यत्वे हेतुमाह- यस्मादिति, यद्यात्माऽनित्यः स्यात्तदा तस्यानेकयोनिप्राप्तिर्न स्यादित्यनेकयोनिप्राप्त्या नित्यत्वमात्मनः सिद्धमित्यर्थः, कायभेदात्- शरीरविनाशात्= शरीरत्यागानन्तरम् , उपपद्यते= उत्पद्यते, उपपत्तिपदार्थमाह- उपपत्तिरिति, शरीरान्तरप्राप्तिरेवोपपत्तिः सा चोपपत्तिः सत्त्वे= आत्मनि सति नित्ये चाश्रयवती उपपद्यते, यद्यात्मा न स्याद् नित्यो वा न स्यात्तदा तस्य शरीरान्तरप्राप्तिरपि न स्यादिति शरीरान्तरप्राप्त्या आत्मनः सत्त्वं नित्यत्वं च सिद्धं. शरीरान्तरप्राप्तिकारणं च कर्म आत्मकर्तृकं स्वीकायम् कर्मकर्तृत्वं च ज्ञानं विना न संभवतीति ज्ञानस्यात्मगुणत्वं सिद्धमित्यर्थः / बौद्धमते शरीरान्तरप्राप्रनुपपत्तिमाह-बुद्धीति, निरात्मके= आत्मपदार्थरहिते बुद्धिप्रबन्धमाने= ज्ञानसंतानपक्षे तेषां ज्ञानानां क्षणिकत्वेन कालान्तरे स्वकृतकर्मफलभोगो नोपपद्यते अनेकशरीरयोगश्च नोपपद्यते इति बौद्धमते शरीरान्तरप्राप्तिनिराश्रया जाता- अनित्यस्य तदाश्रयत्वासंभवाद् नित्यस्य चाभावादिति नोपपद्यते इत्यर्थः / स्वमते उपपत्तिमाह- एकेति, नित्यात्मपक्षे तु एकसत्त्वाधिष्ठानः= एकात्मसंबन्धी अनेकशरीरयोगलक्षणः संसार उपपद्यते संसारे चोपपन्ने संसारप्रबन्धस्योच्छेदलक्षणोऽपवर्गोप्युपपद्यते इत्यन्वयः। बौद्धमते संसारापवर्गयोरनुपपत्तिमाह-बुद्धिसंततीति, बौद्धमते एकसत्त्वानुपपत्तेः= नित्यपदार्थाभावात् ज्ञानानां क्षणि. कत्वात् न कश्चित् काचित् ज्ञानव्यक्तिीर्घमध्वानं संधावति= दीर्घकालपर्यन्तं तिष्ठति येन तस्या अनेकशरीरैः संबन्धलक्षणः संसार उपपद्येत, संसाराभावात् संसारोच्छेदलक्षणोऽपवर्गोपि नोपपद्यते इति बौद्धमते संसारापवर्गयोरनुपपत्तिरित्यन्वयः / बौद्धमते लोकव्यवहारानुपपत्तिमप्याह- बुद्धीति, बौद्धमते सत्त्वभेदात्= ज्ञाननांक्षणिकत्वेन परस्परं भेदात् नित्यस्यात्मनोऽभावाच्च प्राणिनां सर्वमिदं व्यवहारजातम् अप्रतिसंहितम्= स्मृत्यविषयीभूतं स्यात्- अन्येन ज्ञानेन कृतस्य व्यवहारस्यान्येन ज्ञानेन स्मर्तुमशक्यत्वात् , स्मरणे सति 'इदं मे कर्तव्यमिदं परस्य' इति व्यावृत्तिः संभवति स्मरणाभावे चैषा व्यावृत्तिरपि न संभवतीति सर्व व्यवहारजातमऽव्यावृत्तम्= संकीण स्यात् ततश्चापरिनिष्ठितम्= अव्यवस्थितं स्यात् अपरिपूर्णम् असमाप्तं वा स्यात्-स्मरणाभावे व्यवस्थाया अप्यसंभवादित्यन्वयः, उक्तदोषत्रयेपि साधारणं हेतुमाह- स्मरणाभावादिति, ततः सत्त्वभेदात्। क्षणिकानां ज्ञानानां स्मरणाभावेपि हेतुमाह- नान्येति / स्मृतिलक्षणमाह- स्मरणमिति, समानेन एकेन= पूर्वापरकालस्थिरेण / स्मृतिमुदाहरति- अज्ञासिषमिति,