________________ 314 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निफेभ्यागमाच्च= "प्रवृत्तिः= वाम्बुद्धिशरीरारम्भ इति 1-1-17" चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यते इति स्यात् , अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्युपपद्यते इति // 40 // अथायं सिद्धोपसंग्रहः परिशेषाद् यथोक्तहेतूपपत्तेश्च // 11 // 'आत्मगुणो ज्ञानम्' इतिप्रकृतम् , परिशेषो नाम प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः= भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानमिति ज्ञायते, यथोक्तहेतूपपत्तेश्चेति- "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् 3-1-1" इत्येवमादीनामात्मप्रतिपत्तिहेतूनामप्रतिषेधादिति / परिशेषज्ञापनार्थ प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनमिति / युक्तानि, भूतम्= शरीरम् , व्यूहनम्= संग्रहः, विपक्षे बाधकमाह- चैतन्ये इति, चेतनस्य स्वतन्त्रत्वात्, भूतेन्द्रियमनसां च पारतन्त्र्यादपि चैतन्यं नोपपद्यते इत्यर्थः, कादाचित्कप्रवृत्त्या शरीरादीनां पारतन्त्र्य स्पष्टमेवेत्यर्थः। तृतीयहेतुमाह- अकृतेति, एतद् व्याचष्टे- प्रवृत्तिरिति, इत्यनेन कर्मस्वरूपं प्रदर्शितम् , बाग्बुद्धिशरीराणामारम्भः= क्रियैव कर्मपदार्थस्तत्र भूतेन्द्रियमनसां चैतन्यपक्षे यत् कर्म तत् भूतेन्द्रियमनसामेव स्यात् तस्य च फलं सुखादिरूपं पुरुषेणोपभुज्यते इति परकृतकर्मणाम्= भूतादिकर्मणां फलस्य पुरुषेण= जीवेन भोगे चाकृताभ्यागमरूपो दोषः प्रसज्यते न चैतद्युक्तमित्यकृताभ्यागमदोष. प्रसङ्गादपि भूतेन्द्रियमनसां चैतन्यं नोपपद्यते इत्यन्वयः / स्वपक्षे एतद्दोषस्याभावमाह- अचैतन्ये इति, भूतेन्द्रियमनसामचैतन्ये तु शरीरादिद्वारा संपादितं कर्म जीवस्यैव संभवति- चेतनत्वात् स्वतत्रत्वाञ्च तथा च तत्साधनस्य= इन्द्रियादिकं कर्मसाधनं यस्य तादृशस्य पुरुषस्य स्वकृतकर्मणामेव फलोपभोगो न परकृतकर्मणामित्युपपद्यते इत्यकृताभ्यागमदोषो नास्तीति प्रतिपादितहेतुभिर्भूतेन्द्रियमनसां चैतन्याभावः सिद्ध इत्यर्थः / अत्र- " यथोक्तहेतुत्वादिति व्याचष्टे, " इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1-1-10 " इत्यत आत्मलक्षणात्प्रभृति तल्लक्षणपरीक्षापर्यवसानं यावदुक्तं तत्संगृह्यते " इति तात्पर्यटीका // 40 // ___ अग्रिमसूत्रमवतारयति- अथेति, एवं सिद्धस्य उपसंग्रहः= उपसंहारः इत्यर्थः / परिशेषादितिभूतेन्द्रियमनसामुक्तरीत्या चैतन्यं नोपपद्यते इतिहेतोः परिशेषात्= पारिशेष्यात्= परिशिष्टो यो जीवस्तस्यैव चैतन्यम्, यथोक्तहेतूपपत्तेः= " दर्शनस्पर्शनाभ्याम् 3-1-1" इत्यादिसूत्रोक्तहेतूनामुपपत्तेश्व शरीराद्यतिरिक्तस्यैव जीवस्य चैतन्यं सिद्धमिति जीवे चैतन्योपसंहार इतिसूत्रार्थः / व्याचष्टे- आत्मेति, तदेतत् प्रकृतमर्थादुपलब्धं विज्ञेयम् , अष्टादशसूत्रादेतदारब्धम् / सूत्रोक्तं प्रथमहेतुं व्याचष्टे- परिशेष इति, यथा चैतन्यस्य प्रसक्तेषु भूतादिषु प्रतिषेधे सिद्धे अन्यत्र भूताद्यतिरिक्ते चैतन्यस्याऽप्रसङ्गात्= अप्राप्तेः शिष्यमाणे जीवे संप्रत्ययः= उपपत्तिः संभवतीत्यन्वयः, अष्टादशसूत्रावतरणे यदुक्तम्- “कस्येयं बुद्धिरात्मेन्द्रियमनोर्थानां गुणः” इति तेनैव भूतादीनां प्रसक्तत्वं जीवस्य च शिष्यमाणत्वं विज्ञेयम्- तत्र सर्वेषां प्रकृतत्वादित्यर्थः / उक्तं व्याचष्टे- भूतेति, भूतेन्द्रियमनसामुक्तरूपेण चैतन्यस्य प्रतिषेधे कृते द्रव्यान्तरम्= द्रव्यान्तरे कालादौ तु चैतन्यं न प्रसन्यते- उपपत्त्यभावात्. आत्मा हि शिष्यते इति तस्यैवात्मनो ज्ञानम्= चैतन्यं गुण इतिज्ञायते इत्यन्वयः / द्वितीयहेतुं व्याचष्टे- यथोक्तेति, आत्मप्रतिपत्तिहेतूनाम्= आत्मसाधकहेतूनामप्रतिषेधात् आत्मसत्त्वं सिद्धम् आत्मा च चेतन एव शरिरादिषु चैतन्याऽसंभवादेव साध्यते इति आत्मसाधकहेतूनामुपपत्तेरपि ज्ञानस्यात्मगुणत्वं सिद्धमित्यर्थः / ननु यद्यात्म