________________ बुद्धिविवेचनम् ] न्यायभाष्यम् / 313 समानः प्रतिषेध इति / क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्यभिप्रेत्योक्तम्-"तल्लिङ्गवादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः 36" (इति). अन्यथा त्विमे आरम्भनिवृत्ती आख्याते. न च तथाविधे पृथिव्यादिषु दृश्येते तस्मादयुक्तम्- "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवायेष्वप्रतिषेधः 36 " इति // 39 // भूतेन्द्रियमनसां समानः प्रतिषेधो मनस्तूदाहरणमात्रम्यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच न मनसः // 40 // "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1-1-10" इत्यतः प्रभृति यथोक्तं संगृह्यते तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः, पारतन्त्र्यात्= परतन्त्राणि भूतेन्द्रियमनांसिधारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात् प्रवर्तन्ते. चैतन्ये पुनः स्वतन्त्राणि स्युरिति, अकृतास्यात्तदा भूतातिरिक्तस्यात्मनः सत्त्वं न स्यादित्यात्मास्तित्वप्रतिपादकहेतुभिर्भूतचैतन्यप्रतिषेधो वेदितव्यः, शरीरचैतन्यपक्षे शरीरस्यानित्यत्वेनात्मनोप्यनित्यत्वं स्यादिति आत्मनित्यत्वहेतुभिरपि अनित्यस्य शरीरस्य चैतन्यम्= आत्मत्वं प्रतिषिद्धं वेदितव्यमित्यन्वयः, आत्मनित्यत्वहेतवश्च तृतीयाध्यायप्रथमाह्निके एकोनविंशतिसूत्रमारभ्य द्रष्टव्याः / शरीरचैतन्यस्योक्तं सामान्यप्रतिषेधं सूचयति- नेन्द्रियार्थेति, नेन्द्रियार्थेतिपूर्वोक्तसूत्रेण यो ज्ञानस्येन्द्रियादिगुणत्वप्रतिषेधः कृतः स शरीरगुणत्वेपि समान एव- शरीरविनाशानन्तरमपि ज्ञानस्य सत्त्वज्ञानात् तच्च पूर्वजन्मानुभूतस्यात्र स्मरणेनानुमीयते इति नेन्द्रियार्थेतिसूत्रेणापि शरीरचैतन्यप्रतिषेधो वेदितव्यः- ज्ञानस्यैव चैतन्यपदार्थत्वात् तस्य च शरीरेपि प्रतिषिद्धवादित्यर्थः / उक्तं निगमयति- क्रियामात्रमिति, पूर्वपक्षिणा आरम्भशब्देन क्रियामात्रं निवृत्तिशब्देन च क्रियाभावमानं शरीरवर्तिनमभिप्रेत्य= गृहीत्वा " तल्लिङ्गत्वात् 36" इतिसूत्रेण तादृशप्रवृत्तिनिवृत्तिभ्यां शरीरे चैतन्यापत्तिः प्रदर्शिता सा च न संभवति- आरम्भनिवृत्तिशब्दयोरात्मवृत्तिप्रयत्नतदभावपरत्वादित्याह- अन्यथेति, आख्याते= व्याख्याते, अन्यथा आत्मगुणपरत्वेन, तथाविधे प्रयत्न तदभावलक्षणे प्रवृत्तिनिवृत्ती पृथिव्यादिभूतेषु शरीरादिपु न दृश्येते इति न शरीरस्य चैतन्यापत्तिरिति " तल्लिङ्गत्वात्" इति शरीरचैतन्यापादकं सूत्रमयुक्तमेवेत्युपसंहरति- तस्मादिति // 39 // __ अग्रिमसूत्रमवतारयति- भूतेति, प्रतिषेधः= चैतन्यप्रतिषेधः, पूर्वग्रन्थेन शरीरस्य चैतन्यं प्रतिषिध्य प्रकृतसूत्रेण भूतेन्द्रियमनसां समानरूपेण= तत्रेण चैतन्यं प्रतिषिध्यते तत्र सूत्रे मनोग्रहणमुदाहरणार्थम् , मनसश्चैतन्यप्रतिषेधेन भूतेन्द्रियाणामपि चैतन्यप्रतिषेधो विज्ञेय इत्यर्थः / यथोक्तेति- यथोक्तहेतुत्वात" इच्छाद्वेष 1-1-10 " इत्यादिसूत्रैरात्मनश्चैतन्यप्रतिपादको यो हेतुरुक्तस्तस्माद् मनसश्चैतन्यं निरस्यते- आत्मनश्चैतन्ये मनसश्चैतन्यस्य व्यर्थत्वात् , मनो हि परतत्रम्= आत्माधीनं चैतन्यं च स्वतन्त्रस्यैवात्मनो युक्तमिति पारतन्त्र्यादपि मनसश्चैतन्यं निरस्यते, अकृताभ्यागमात्= यदि मनसश्चैतन्य स्यात्तदा मनसैव कर्म कृतं स्यात् तत्र मनसा कृतस्य कर्मणः फलं जीवेन भुक्तं स्यादिति जीवेनाऽकृतस्य कर्मणोऽभ्यागमः= फलभोगः प्राप्नोति स च न युक्तः- अन्यकृतकर्मणां फलस्याऽन्येन भोक्तुमशक्यत्वादिति मनसश्चैतन्ये अकृताभ्यागमदोषप्रसङ्गादपि मनसश्चैतन्यं नोपपद्यते, यथा मनसो न चैतन्यं तथोक्तहेतुभिरेव भूतेन्द्रियाणामपि चैतन्यप्रतिषेधो विज्ञेय इतिसूत्रार्थः। प्रथमहेतुं व्याचष्टे- इच्छेति, इत्यतः प्रभृति= उक्तदशमसूत्रमारभ्य " ज्ञानलिङ्गत्वात् 2-1-23 " "दर्शनस्पर्शनाभ्याम् 3-1-1-" इत्यादिसूत्रैर्यथोक्तम्= यदुक्तमात्मचैतन्यप्रतिपादकं हेतुजातं तत्सर्वम् " यथोक्तहेतुत्वात् " इत्यनेन संगृह्यते तथा च तेन= उक्तेनात्मचैत्यन्यप्रतिपादकेन हेतुजातेनात्मनश्चैतन्ये सिद्धे भूतेन्द्रियमनसां चैतन्यस्य प्रतिषेधः सिद्ध इत्यन्वयः / द्वितीयहेतुमाह- पारतन्त्र्यादिति, एतद् व्याचष्टे- परतत्राणीति, भूतेन्द्रियमनांसि आत्मकृतप्रयत्नवशात् धारणादिक्रियासु प्रवर्तन्ते इति परतत्राणि, तस्मान्न चैतन्य