________________ 312. प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेदृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सोनुमानमन्यत्रापि // दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिषु अन्यगुणनिमित्तः प्रवृत्तिविशेषः सोनुमानमन्यत्रापि=स त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानामऽन्यगुणनिमित्त इति, स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतनां प्रयत्नवदिति / आत्मास्तित्वहेतुभिरात्मनित्यत्वहेतुभिश्च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः / “नेन्द्रियार्थयोस्तद्विनाशेपि ज्ञानावस्थानात् 18" इति च न स्यात्- अन्यदृष्टस्य अन्येन स्मर्तुमशक्यत्वात् न चैवमस्तीति नैकस्मिन् शरीरे ज्ञातृबहुत्वं संभवतीत्यर्थः / प्रत्ययव्यवस्थानादेव नानाशरीरेषु नानाज्ञातार इत्यनुमीयते एकस्मिन् शरीरे तु प्रत्ययव्यवस्थानं नास्तीति न ज्ञातृबहुत्वमनुमातुं शक्यते तेन शरीरचैतन्यं नोपपद्यते इत्याशयः / अनेन भाष्यपाठेन तात्पर्यटीकावैमत्यमुपलभ्यते इतिखेदः / तथा च तात्पर्यटीका- "प्रत्ययव्यवस्था न भेवेदिति दूषणमुक्तम् , कचित्पाठः- प्रत्ययव्यवस्थानुमानं स्यादिति स सुगम एव" इति. तथा- " एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसंधानं पश्यामो न शरीरान्तरे इतिव्यवस्था. सेयं यद्येकस्मिन् शरीरे एक एव चेतनो न चासौ शरीरान्तरे ततो भवेन्नाऽन्यथेत्यर्थः” इति / किं वा यथा नानाशरीरेषु प्रत्ययव्यव. स्थानादेव आत्मभेदानुमानं भवति तथैकशरीरेपि ज्ञातृबहुत्वस्य= आत्मबहुत्वस्य प्रत्ययव्यवस्थयैवानुमानं स्यात् प्रत्ययव्यवस्थैव वानुमानम्= अनुमापिका स्यात्= संभवति न चैकस्मिन् शरीरे प्रत्ययव्यवस्थोपलभ्यते इति नैकशरीरे ज्ञातृबहुत्वं संभवतीत्यन्वयः // आत्माश्रितज्ञानेच्छादिप्रयुक्ते भूताश्रितप्रवृत्तिनिवृत्ती इति यदुक्तं तत्र सदृष्टान्तमनुमानमाह- दृष्ट इति, भूतनाम्= शरीरादीनां परश्वादीनां च प्रवृत्तिविशेषः= क्रियालक्षणा प्रवृत्तिः अन्यगुणनिमित्तः= शरीराद्यतिरिक्तो य आत्मा तद्गुणभूतेच्छादिजन्यो दृष्ट इति अन्यत्रापि= तदवयवव्यूहानुमेये प्रवृत्तिविशेपे= शरीररूपेण परिणामलक्षणायां प्रवृत्तावपि सः= अन्यगुणनिमित्त इत्यनुमानं ( अन्यगुणनिमित्तकत्वम् ) वेदितव्यम् , अयं चान्यगुण आत्मनिष्ठोऽदृष्टविशेषस्तेनैव भूतावयवानां शरीररूपेण परिणामो भवति, तथा च प्रयोगः- भूतानां शरीररूपेण परिणामलक्षणः प्रवृत्तिविशेष: आत्मगुणजन्यः प्रवृत्तिविशेषत्वात् क्रियालक्षणप्रवृत्तिविशेषवदित्यर्थः / अत्र- " नियमानियमाविति यदुक्तं तत्रानुमानमेव सूचयति भाष्यकारः दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेष इति, हिताहितप्राप्तिपरिहारहेतुः परिस्पन्दः प्रवृत्तिविशेषः सोऽयं प्रयोगः- त्रसस्थावरशरीरेषु प्रवृत्तिः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्ता प्रवृत्तिविशेषत्वात् परश्वादिगतप्रवृत्तिविशेषवदिति, न केवलं शरीरस्य प्रवृत्तिविशेषोऽन्यगुणनिमित्तः भूतानामपि तदारम्भकाणां प्रवृत्तिविशेषोऽन्यगुणनिबन्धन एवेत्याह- तदवयवव्यूहलिङ्ग इति" इति तात्पर्यटीका / स्वयं व्याचष्टे- दृष्ट इति, भूतेषु= भूतकार्याणां परश्वादीनां छेदनादिकरणत्वं मृदादीनां च घटायुपादानत्वं प्रसिद्धमेव, परश्वादिषु या प्रवृत्तिः सा जीवनिष्ठेच्छादिगुणजन्येति प्रसिद्धमेव तदनेन दृष्टान्तः प्रतिपादितः / प्रकृतमाह- सोऽनुमानमिति, उक्तं व्याचष्टे- स इति, भूतानां त्रसस्थावरशरीरेषुमनुष्यादिशरीरेषु यस्तदवयवव्यूहानुमेयः प्रवृत्तिविशेषः सोपि अन्यगुणनिमित्तः= जीवादृष्टनिमित्तोऽनुमेय इत्यन्वयः / एतत्कारणीभूतं गुणमाह- स चेति, प्रयत्नसमानाश्रयः= प्रयत्नसमानाधिकरणम्= आत्मवृत्तिः, धर्माधर्मसमाख्यातः= अदृष्टनामकः, संस्कारः सर्वार्थः= सर्वसंपादकः, पुरुषार्थाराधनाय= जीवभोगसंपादनाय प्रयत्नवद् भूतानां प्रयोजक:= प्रवर्तको भवति तेन भूतानां शरीररूपेण परिणामो भवतीत्यन्वयः, तदनेन ज्ञानेच्छादीनां शरीरातिरिक्तजीवगुणत्वं सिद्धमिति शरीरचैतन्यं निरस्तं वेदि. तव्यमित्याशयः / अत्र हेत्वन्तरमुक्तं सूचयति- आत्मेति, " इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1-1-10" " दर्शनस्पर्शनाभ्याम् 3-1-1" इत्यादिभिरात्मास्तित्वहेतुभिः, यदि भूतचैतन्यं