________________ बुद्धिविवेचनम् ] न्यायभाष्यम् / 311 एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्यातां न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः प्रयोज्याश्रये तु प्रवृत्तिनिवृत्ती इतिसिद्धम् / एकशरीरे ज्ञातृबहुत्वं निरनुमानम् / भूतचैतनिकस्य एकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम् , ओमिति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नानाज्ञातारो प्रत्ययव्यवस्थानाद् एवमेकशरीरेपि प्रत्ययव्यवस्थानुमानं स्यात् ज्ञातृबहुत्वस्येति // न्तरनिमित्ता= गुरुत्वादिनिमित्ता पतनादिलक्षणा प्रवृत्तिः तादृशगुरुत्वादिगुणस्य प्रतिबन्धाच्च पतनादिनिवृत्तिश्च नियमेन भूतमात्रे भवति- कारणीभूतस्य गुरुत्वादेस्तत्प्रतिबन्धस्य च भूतमात्रे संभवात् तथा इच्छाद्वेषजन्ययोः प्रवृत्तिनिवृत्त्योरपि भूतमात्रे नियमः प्राप्नोति- कारणीभूतानां ज्ञानेच्छाद्वेषाणां भूतमात्रे सत्त्वस्वीकारादित्यन्वयः, स्वं ज्ञानेच्छाद्वेषाः, स्वाश्रये= स्वाश्रिते भूतमात्राश्रिते इतिद्विवचनान्तम् / उक्तनियमे प्रत्यक्षविरोधमाह- न विति, न तु भूतमात्रे नियमेन प्रवृत्तिनिवृत्ती भवतः दृश्येते किं तु प्रयुज्यमानेष्वेव भूतेष्वित्यर्थः / निगमयति- तस्मादिति, यस्माद् भूतमात्रे प्रवृत्तिनिवृत्तिनियमो नास्ति तस्माद् भूतेषु ज्ञानेच्छाद्वेषा न स्वीकार्याः किं तु ज्ञानेच्छाद्वेषप्रयत्नादयः प्रयोजकाश्रिताः= आत्माश्रिताः स्वीकार्याः प्रवृत्तिनिवृत्ती च प्रयुज्यमानमात्रभूताश्रिते स्वीकार्य एवं वैयधि. करण्यस्वीकारे हि प्रत्यक्षसिद्धः प्रवृत्तिनिवृत्त्योरनियम उपपद्यते- यदा प्रयुज्यमानत्वं तदा प्रवृत्तिनिवृत्ती नान्यदेति / अत्र- " तदेवमनियमं भेदकं व्याख्याय नियमं व्याचष्टे- यस्य तु चार्वाकस्य दर्शने ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ तस्य चार्वाकस्य यथा भूतानां गुरुत्वादिगुणान्तरनिमित्ता प्रवृत्तिः पतनादिलक्षणा तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन तस्मानिवृत्तिरपतनादिका सा भूतमात्रे भवति नियमेन व्याप्ता न तु शरीरोपगृहीतेषु भूतेषु. एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम् , एतदुक्तं भवति- ये ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टा यथा गुरुत्वादयः ज्ञानेच्छादयोपि चेत् पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्यादिभाविभिर्भवितव्यं न तु घटादौ दृश्यन्ते तस्मान्न पृथिव्यादिधर्मा ज्ञानादयः " इति तात्पर्यटीका। ___ ननु यथा मदिरायामेव मदशक्तिनियमो न सर्वत्र तथा शरीरे एव भूतानां संयोगविशेषेण चैतन्यं जायते इति न भूतमात्रे चैतन्यापत्तिरित्याशङ्कयाह- एकेति, एवं हि यथा सर्वेष्वेव मदिरावयवेषु पृथक् पृथक् मदशक्तिर्भवति- मदिराभागपानेनापि मदोत्पत्तेस्तथा शरीरचैतन्यपक्षे शरीरावयवेष्वपि पृथक् पृथक् चैतन्यं स्यात् तथा चैकस्मिन्नपि शरीरे ज्ञातृबहुत्वं स्यात्- चैतन्यविशिष्टानां बहूनां शरीरावयवानां ज्ञातृत्वात्. एकशरीरे ज्ञातृबहुत्वं च निरनुमानम्= निर्हेतुकम्= अप्रामाणिकम्- एकेनैव ज्ञात्रा सर्वसंभवात् ज्ञातृबहुत्वस्य गौरवग्रस्तत्वेन स्वीकर्तुमशक्यत्वात्. किं च तेषां परस्परं कदाचित् कलहोपि स्यात् न च तादृशः कलह उपलभ्यते इति नैकस्मिन् शरीरे ज्ञातृबहुत्वं संभवति तथा च न शरीरचैत्यन्यमुपपद्यते इत्यर्थः / भूतचैतनिकस्य चार्वाकस्य मते एकस्मिन शरीरे ज्ञातृबहुत्वं प्रतिपादयतिभूतेति, ज्ञानादियुक्तानामेव ज्ञातृत्वात् शरीरचैतन्यपक्षे चोक्तरीत्या सर्वेषामेव शरीरावयवानां ज्ञानादियुक्तत्वादेकस्मिन् शरीरे ज्ञातृबहुत्वापत्तिः स्पष्टैव / नन्वस्तु ज्ञातृबहुत्वं को दोष:- स्वस्वाश्रयेषु स्थितानां ज्ञातणां कलहासंभवादित्याशङ्कयाह- ओमिति, ओमिति ब्रुवतः= एकस्मिन् शरीरे ज्ञातृबहुत्वं स्वीकुर्वतः ज्ञातृबहुत्वे प्रमाणं नास्तीति न तत्संभवतीत्यर्थः / उक्तज्ञातृबहुत्वे प्रत्यक्षविरोधमुद्घाटयति- यथेति, यथा प्रतिशरीरं ज्ञातृभेदस्वीकारात् प्रत्ययव्यवस्थानम्= ज्ञानभेदोस्ति- चैत्रमैत्रादेर्शानादीनां परस्परं भिन्नत्वात् , चैत्रादिसुखादीनां मैत्रादेर्शानाभावात् किं वा प्रत्ययव्यवस्थानम्- स्मरणव्यवस्था सापि स्पष्टैव तथैकस्मिन् शरीरेपि ज्ञातृबहुत्वस्य= ज्ञातृबहुत्वपक्षे प्रत्ययव्यवस्थानुमानम् सर्वेषां तादृशज्ञातृणां ज्ञानादिभेद आपद्येत तथा च शरीरस्य कस्मिंश्चिदवयवे वृणे तदृष्टस्य स्मरणं