________________ 310 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेकुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः. न च मृत्सिकतानामारम्भनिटत्तिदर्शनादिच्छाद्वेषप्रयत्नज्ञानयोगः, तस्मात् “तल्लिङ्गत्वादिच्छाद्वेषयोः 36 " इत्यहेतुरिति // 38 // नियमानियमौ तु तद्विशेषकौ // 39 // तयोः= इच्छाद्वेषयोर्नियमानियमौ विशेषकौ= भेदकौ, ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये, किं तर्हि ?. प्रयोज्याश्रये. तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्वित्यऽनियमोपपत्तिः / यस्य तु ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यात् यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिः गुणप्रतिबन्धाच्च निवृत्तिर्भूतमात्रे भवति नियमेन चैतन्यसाधको न संभवतीति सूत्रार्थः / व्याचष्टे- कुम्भादीति, कुम्भादिषु मृदवयवानां व्यूहलिङ्गःकुम्भादिरूपेण परिणामानुमेयः प्रवृत्तिविशेषलक्षण आरम्भो दृश्यते सिकतादिषु च तादृशप्रवृत्तिविशे. पस्याभावरूपा निवृत्तिदृश्यते न च चैतन्यमुपलभ्यते इति यथाऽऽरम्भनिवृत्तिसत्त्वेपि मृदादीनां चैतन्य नास्ति तथा शरीरस्यापि चैतन्यं नोपपद्यते इति "तल्लिङ्गत्वात् 36" इतिसूत्रस्योक्तमेतद् व्याख्याना. न्तरमपि अहेतुः= शरीरचैतन्यसाधकं न संभवतीत्यर्थः // 38 // उक्तचार्वाकमते दोषान्तरमुद्घाटयति-नियमेति, प्रवृत्तिनिवृत्त्योर्नियमानियमौ तत्= तयोःइच्छाद्वेषयोर्विशेषको= भेदकौ= व्यवस्थापको भवत इत्यन्वयः, चार्वाकमते पदार्थमात्रे प्रवृत्तिनिवृत्तिनियमेन इच्छाद्वेषौ प्राप्नुतस्ताभ्यां च ज्ञानमिति पदार्थमात्रस्य चैतन्यं प्राप्तमितीदमेव प्रवृत्तिनिवृत्तिनियमस्येच्छादिविशेषकत्वम् , न च पदार्थमात्रस्य चैतन्यमुपलभ्यते इति न शरीरस्यापि प्रवृत्तिनिवृत्तिभ्यां चैतन्यापत्तिः, स्वमतसाधकमाह- अनियमेति, शरीरातिरिक्तात्मवादे तु प्रवृत्तिनिवृत्त्योः पदार्थमात्रे नियमो नास्ति किं त्वात्मप्रयोज्येष्वेव शरीरादिषु प्रवृत्तिनिवृत्ती भवत इति प्रयोजके आत्मन्येव चैतन्य संभवति- न शरीरादिषु- स्वयं प्रवृत्त्यादेरभावादिति सूत्रार्थः, किं वा प्रवृत्तिनिवृययोनियमानियमौ तत्= तयोः= चार्वाकमतन्यायमतयोविशेषको. चार्वाकमते भूतचैतन्यस्वीकारात् पदार्थमात्रे प्रवृत्तिनिवृत्तिनियमः प्राप्नोति स च प्रत्यक्षविरुद्ध इति न भूतचैतन्यं संभवति, न्यायमते तु भूतातिरिक्तस्यात्मनश्चैतन्यस्वीकारात् प्रवृत्तिनिवृत्त्योरनियमः प्राप्नोति स च प्रत्यक्षसिद्धः- शरीरादिष्वात्मप्रयोज्येषु प्रवृत्तिनिवृत्तिनियमस्य घटादिषु चात्माप्रयोज्येषु प्रवृत्तिनिवृत्त्यनियमस्य स्पष्टत्वात् इति न्यायमतमेव युक्तमित्युक्तनियमानियमयोश्चार्वाकमतन्यायमतविशेषकत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- तयोरिति, एतत् सूत्रघटकतच्छन्दस्य व्याख्यानम् / प्रत्यक्षसिद्धं प्रवृत्तिनिवृत्त्योरनियमं प्रथमं स्वमतेनोपपादयतिज्ञस्येति, ज्ञस्य= आत्मन इच्छाद्वेषनिमित्ते= इच्छाद्वेषजन्ये प्रवृत्तिनिवृत्ती न स्वाश्रये= स्वाश्रिते भवत इत्यन्वयः / प्रवृत्तिनिवृत्त्योराश्रयं जिज्ञासते- किमिति, किमाश्रिते इत्यर्थः / उत्तरमाह- प्रयोज्येति, प्रवृत्तिनिवृत्ती प्रयोज्याश्रये= आत्मप्रयोज्यशरीराद्याश्रिते स्त इत्यर्थः / पर्यवसितमाह- तत्रेति, आत्मना प्रयुज्यमानेषु परश्वादिषु शरीरादिषु च प्रवृत्तिनिवृत्ती भवतो नाऽप्रयुज्यमानेष्विति प्रत्यक्षसिद्धः प्रवृत्ति निवृत्त्योरनियम उपपन्नोऽस्मन्मते इत्यर्थः, अत्र-“अयमेव चेच्छाद्वेषयोविशेषो यद् भूताश्रयत्वमनयो ावर्त्य तदितराश्रयत्वव्यवस्थितिः एतदुक्तं भवति- न शरीरमिच्छाज्ञानद्वेषाधारः- इच्छाजनितस्पन्दाधारत्वात् परश्वादिवत्" इति तात्पर्यटीका। प्रत्यक्षसिद्धस्य प्रवृत्तिनिवृत्त्योरनियमस्य चार्वाकमतेऽनुपपत्तिमाह- यस्येति, यस्य चार्वाकस्य मते भूतचैतन्यमस्ति तस्य चार्वाकस्य मते भूतानां ज्ञत्वात्= चेतनत्वात् इच्छाद्वेषवत्त्वं प्राप्तं तेनेच्छाद्वेषजन्ये प्रवृत्तिनिवृत्ती स्वाश्रये= भूतमात्राश्रिते संभवत इति भूतमात्रे प्रवृत्तिनिवृत्त्योर्नियमः प्राप्तः न तु प्रयुज्यमानमात्रभूताश्रितत्वम् , उक्तनियमे दृष्टान्तमाह- यथेति, यथा भूतानाम्= पंदार्थानां गुणा