________________ बुद्धिविवेचनम् ] न्यायभाव्यम् / 309 शरीरचैतन्यनिवृत्तिः / आरम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानयोग इति प्राप्तम् परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच्चैतन्यमिति / अथ शरीरस्येच्छादिभिर्योगः परश्वादेस्तु करणस्याऽऽरम्भनिवृत्ती व्यभिचरतः ?, न तयं हेतुः- 'पार्थिवाप्यतैजसवायवीनां शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानयोगः' इति // 37 / अयं तीन्योऽर्थ:- "तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः 36" पृथिव्यादीनां भूतानामारम्भस्तावत् त्रसविशरारुस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः. लोष्टादिषु लिङ्गाभावात्. प्रवृत्तिविशेषाभावो निवृत्तिः. आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति पार्थिवाद्येष्वऽणुषु तदर्शनादिच्छाद्वेषयोस्तद्योगाद् ज्ञानयोग इति सिद्धं भूतचैतन्यमिति, कुम्भादिष्वनुपलब्धेरहेतुः // 38 // व्याचष्टे- शरीरेति, इदं सूत्रप्रतिपाद्यकथनम् , अनेन सूत्रेण शरीरचैतन्यस्य निवृत्तिः= प्रतिषेधः क्रियते इत्यर्थः / पूर्वपक्षिकथनमनुवदति- आरम्भेति, यदि प्रवृत्तिनिवृत्तिभ्यामिच्छाद्वेषज्ञानयोगः= चैतन्य स्यात् शरीरस्य तदा परश्वादेरपि छेदनादिकरणस्य चैतन्यं स्यात्- प्रवृत्तिनिवृत्तियुक्तत्वात्. न च परश्वादेश्चैतन्यमुपलभ्यते इति न शरीरस्यापि प्रवृत्तिनिवृत्तिभ्यां चैतन्यं सिध्यतीत्यर्थः / ननु प्रवृत्तिनिवृत्तियुक्तत्वेपि शरीरे एव चैतन्यं स्वीक्रियते- प्रत्यक्षसिद्धत्वात् , परश्वादेस्तु ये प्रवृत्तिनिवृत्ती ते चैतन्यं व्यभिचरत इति न परश्वादेश्चैतन्यापत्तिरित्याशङ्कते- अथेति / अत्र परिहरन् स्वाभीष्टमाहनेति, प्रवृत्तिनिवृत्तियुक्तत्वं शरीरचैतन्यसाधको हेतुरेवं न संभवति- परश्वादिषु चैतन्यव्यभिचारित्वादित्यर्थः / अयम्= पार्थिवाप्येत्यायुक्तः। वस्तुतस्तु परश्वादिषु प्रवृत्तिनिवृत्तिरेव न स्त इत्यलम् / पूर्वपक्ष्युक्तं हेतुसाध्यादिवाक्यमनुवदति- पार्थिवाप्येति / / 37 // ___अग्रिमसूत्रावतारार्थ तल्लिङ्गत्वादिति पूर्वसूत्रं प्रकारान्तरेण व्याचष्टे- अयमिति, तलिङ्गत्वादिति सूत्रस्य पूर्वोक्तव्याख्यानेन यदि शरीरचैतन्यं न सिध्यति तदायमन्योऽर्थः प्रतिपाद्यते तेन शरीरचैतन्यं सेत्स्यति इत्यर्थः / नवीनार्थमाह- पृथिव्यादीनामिति, वसविशरारुस्थावरेषु शरीरेषु= शरीरवर्तिषु भूतानाम् भूतेषु य आरम्भः स परश्वादिसाधारणो न गृह्यते येन परश्वादीनां चैतन्यापत्तिः स्यात् किं तु शरीरासाधारण: तदवयवव्यूहलिङ्गः= भूतावयवसंमूर्छनलिङ्गः= भूतावयवानां यः शरीररूपेण परिणामस्तदनुमेयः प्रवत्तिविशेष एवारम्भः स च शरीरे. एव संभवति न लोष्टादिषु परश्वादिषु च-तेष लिङ्गस्य= उक्तप्रवृत्तिविशेषानुमापकस्य भूतावयवपरिणामविशेषस्योक्तस्याऽभावात् , निवृत्तिश्चोक्तप्रवृत्तिविशेषस्याभाव एव गृह्यते स चापि शरीरे एव संभवति न परश्वादिषु- तेषूक्तप्रवृत्तिविशेषस्याभावेन प्रवृत्तिविशेषाभावस्याप्यसंभवात् . अभावस्य स्वप्रतियोगिस्थले एव कालान्तरे संभवादित्यन्वयः, आरम्भनिवृत्तिशब्दाभ्यां शरीरमात्रवर्तिन्यो प्रवृत्तिनिवृत्त्या गृह्यते न परश्वादिसाधारणे येन परश्वादीनां चैतन्यापत्तिः स्यादित्यर्थः / पर्यवसितमाह- आरम्भेति, आरम्भनिवृत्तिलिङ्गौ= आरम्भनिवृत्त्यनुमेयौ इच्छाद्वेषाविति शरीरवर्तिषु पार्थिवादिपरमाणुषु तद्दर्शनात्= उक्तविशेषप्रवृत्तिनिवृत्तिदर्शनादिच्छाद्वेषयोर्योगः प्राप्तस्तद्योगात्= इच्छाद्वेषयोगाच्च ज्ञानयोगः= चैतन्यं प्राप्तमिति भूतचैतन्यं सिद्धमित्यर्थः, अत्र-“शरीरेष्ववयवव्यूहभेददर्शनात् शरीरारम्भकाणामणूनां प्रवृत्तिभेदोऽनुमीयते ततश्चेच्छाद्वेषौ ताभ्यां चैतन्यमिति / त्रसम्= जङ्गमम् , विशरारु= अस्थिरं कृमिप्रभृतीनां शरीरम् , स्थावरम्= स्थिरं देवमनुष्यादीनां तद्धि चिरतरं वा ध्रियते " इतितात्पर्यटीका / ____ उक्तं पराकरोति- कुम्भेति, कुम्भादिषु पार्थिवादिभूतावयवानां परिणामलक्षण आरम्भो दृश्यते सिकतादिषु च तदभावोपि दृश्यते चैतन्यं च नोपलभ्यते इति अहेतु:= उक्तरूपोप्यारम्भादिः शरीर