________________ 308 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेसुखसाधनमाप्नुमिच्छति दुःखसाधनं हातुमिच्छति. प्राप्नुमिच्छायुक्तस्याऽस्य सुखसाधनाऽवाप्तये समीहाविशेष आरम्भः जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानामेकेनाभिसंबन्धः= एककर्तृत्वं ज्ञानेच्छाप्रवृत्तीनां समानश्रयत्वं च. तस्मात् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाऽचेतनस्येति, आरम्भनिवृत्त्योश्च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यमिति // 35 // अत्र भूतचैतनिक आह तल्लिङ्गत्वादिच्छादेषयोः पार्थिवाद्येष्वप्रतिषेधः // 36 // आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति. यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानमिति प्राप्तम्- पार्थिवाप्यतैजसवायवीनां शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानर्योग इति चैतन्यम् // 36 // परश्वादिष्वारम्भनिवृत्तिदर्शनात् // 37 // वक्तव्यमासीत् / व्याचष्टे- अयमिति, अयम्= आत्मा, आत्मसमवेतं ज्ञानमुदाहरति- इदमिति, जानाति इच्छति यतते इतिक्रमः स्मर्तव्यः, ज्ञानानन्तरं जायमानामात्मसमवेतामिच्छामुदाहरति- ज्ञातमिति, हातुमिच्छतीत्यनेन द्वेष उक्तः, इच्छानन्तरंजायमानमारम्भशब्दवाच्यं प्रवृत्तिलक्षणं प्रयत्नमुदाहरति-प्राप्नुमिति, अस्य= आत्मनः, समीहाविशेषः= चेष्टाविशेषः प्रयत्न एव आरम्भ इत्यर्थः, निवृत्तिलक्षणं प्रयत्नमुदाहरतिजिहाँसेति, जिहासाप्रयुक्तस्य= त्यागेच्छाप्रेरितस्यात्मनः, एवं ज्ञानेच्छाद्वेषप्रयत्नादीनामुदाहृतं सामानाधिकरण्यम्= आत्मसमवेतत्वमुपसंहरति- एवमिति, एवमुक्तप्रकारेण, एकेन= आत्मनाऽभिसंबन्धः= समवायसंबन्धः, एककर्तृत्वम्= एककर्तृकत्वम् , समानाश्रयत्वम्= सामानाधिकरण्यं च सिद्धमित्यन्वयः / उपसंहरति- तस्मादिति, तस्मात्= उक्तसामानाधिकरण्यात् , ज्ञानं चात्मधर्म इतिपूर्वपक्षिणापि स्वीकृतं तथा च ज्ञानसमानाधिकरणानामिच्छादीनामप्यात्मधर्मत्वं सिद्धमित्यर्थः / अचेतनस्य= अन्तःकरणस्य / सूत्राशयमुपसंहरति- आरम्भेति, आरम्भनिवृत्त्योः प्रत्यगात्मनि= जीवात्मनि दृष्टत्वात्= सिद्धत्वात् परत्र तत्कारणीभूतेष्विच्छादिषु आत्मसमवेतत्वानुमानं वेदितव्यम्- कार्यकारणयोः सामानाधिकरण्यनियमात् परस्परं कारणकार्यभूतानां ज्ञानेच्छाप्रयत्नादीनामात्मसमवेतत्वं वेदितव्यम्- ज्ञानस्यात्मसमवेतत्वादित्यर्थः, इच्छादिकमात्मसमवेतं ज्ञानकार्यत्वाद् आरम्भवद् निवृत्तिवञ्चेत्यनुमानप्रयोग इत्यलम् // 35 / / ___ अग्रिमसूत्रमवतारयति- अत्रेति, भूतचैतनिकः= शरीरचैतन्यवादी चार्वाकः / तदिति- तल्लिङ्गत्वात्= प्रवृत्तिनिवृत्त्यनुमेयत्वादिच्छाद्वेषयोः पार्थिवाद्येषु शरीरेषु ज्ञानस्य= चैतन्यस्य प्रतिषेधो नोपपद्यते इत्यन्वयः, प्रवृत्तिनिवृत्तिभ्यामात्मनि इच्छाद्वेषशवनुमेयौ इतिपूर्वसूत्रेणोक्तं तत्र प्रवृत्तिनिवृत्ती च पार्थिवादिशरीरेषु प्रत्यक्षसिद्धे इति इच्छाद्वेषयोरपि शरीरसमवेतत्वं प्राप्तं तेन ज्ञानस्यापि शरीरसम. वेतत्वं प्राप्तम्- ज्ञानेच्छाद्वेषादीनां सामानाधिकरण्यनियमादिति शरीरचैतन्यस्य प्रतिषेधो नोपपद्यते इति सूत्रार्थः / व्याचष्टे- आरम्भेति, आरम्भनिवृत्ती लिङ्गे ययोस्तौ आरम्भनिवत्तिलिङ्गौ यथासंख्यमिच्छाद्वेषौ / वक्तव्यमाह- यस्येति, ज्ञानेच्छाप्रयत्नादीनां सामानाधिकरण्यं स्पष्टमित्यर्थः / पर्यवसितमाह- पार्थिवेति, पार्थिवादिषु शरीरेषु प्रवृत्तिनिवृत्ती प्रत्यक्षेण दृश्येते तेन ताभ्यामिच्छाद्वेषौ शरीरेषु सिद्धौ ताभ्यां च ज्ञानमिति शरीराणां चैतन्यं सिद्धमित्यर्थः / पार्थिवादिचतुर्विधशरीरग्रहणं न्यायमतेनैव विज्ञेयम्- चार्वाकेन तथाऽनभ्युपगमात् शरीरमात्रस्य चातुभौतिकत्वस्वीकारादित्यनुसंधेयम् // 36 // उक्तं शरीरचैतन्यं निराकरोति-परश्वादिष्विति,परश्वादिष्वारम्भनिवृत्ती दृश्येते न तु चैतन्यमिति व्यभिचारादारम्भनिवृत्तिभ्यां शरीरस्य चैतन्यं नोपपद्यते इति सूत्रार्थः, सूत्रारम्भे नेति वक्तव्यमासीत् /