________________ 307 बुद्धिविवेचनम् ] न्यायभाष्यम् / प्रदेशसंयोगपर्यायाभावादिति / आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याऽविशेषे स्मृतियोगपद्यप्रतिषेधानुपपत्तिः। शब्दसंताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्या मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिप्रसङ्गः / पूर्व एव तु प्रतिषेधः- नाऽनेकज्ञानसमवायादेकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति // 34 // यत् 'पुरुषधर्मो ज्ञानम्. अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्माः' इति कस्यचिद् दर्शनं तत् प्रतिषिध्यते ज्ञस्येच्छाढेषनिमित्तत्वादारम्भनिवृत्त्योः // 35 // अयं खलु जानीते तावत्- 'इदं मे सुखसाधनम् इदं मे दुःखसाधनम् ' इति. ज्ञातं स्वस्य इन्द्रियाणामेनेकैरथैः संयोगनैरन्तर्येण, एकस्मिन्= तद्देशस्थितदेहावच्छिन्ने आत्मप्रदेशे अनेकं ज्ञानं समवैति ततश्च तत्र संस्कारा उत्पद्यन्ते तेन= उक्तानेकसंस्कारविशिष्टात्मप्रदेशेन यदा मनस्संयोगो भवति तदा ज्ञातपूर्वस्य= पूर्व ज्ञातस्याऽनेकस्य विषयस्य= अनेकविषयकं स्मरणं युगपत् प्रसज्यते इत्यन्वयः, उक्त हेतुमाह- प्रदेशेति, प्रदेशसंयोगस्य= आत्मप्रदेशसंयोगस्य पर्यायाभावात्= क्रमाभावात् , यदि मनस्सयोगक्रमः स्यात्तदा स्मरणमपि क्रमेण स्यात् न चैवमस्ति किं त्वनेकसंस्कारविशिष्टेनात्मप्रदेशेन मनसंयोगो जात एवेति युगपदनेकस्मरणापत्तिरित्यर्थः / स्मृतीनां यौगपद्ये कारणान्तरमाह- आत्मेति, सर्वेष्यात्मप्रदेशा एकमेव द्रव्यं न तु द्रव्यान्तरभूता इत्यात्मप्रदेशानामद्रव्यान्तरत्वात्= एकद्रव्यत्वात् स्मृतिकारणस्य मनस्संयोगस्य संस्काराणां च एकार्थसमवायः= एकात्मसमवेतत्वं किं वैकद्रव्यलक्षणात्मप्रदेशसमवेतत्वं समानमेवेति अविशेष: प्राप्तस्तेन स्मृतियोगपद्यस्य प्रतिषेधो नोपपद्यते इत्यन्वयः, सर्वेषामात्मप्रदेशानामेकद्रव्यत्वं तत्र च संस्काराः समवेता मनस्संयोगश्च जातः एतदेवानेकस्मृतिकारणमिति स्मृतीनां यौगपद्यं स्यादेवेत्यर्थः, यद्यात्मप्रदेशानामेकद्रव्यत्वं न स्यात्तदा तैः संयोगस्य क्रमवृत्तित्वेन स्मृतीनामपि क्रमः स्यात् न चैवमस्तीत्याशयः / उक्तां स्मृतियोगपद्यापत्तिं भाष्यकारः परिहरतिशब्देति, अत्र " शब्दसंताने विति शङ्कानिराकरणभाष्यं तुशब्दः शङ्कां निराकरोति " इतितात्पर्यटीका / शब्दसंताने= शब्दसंतानमध्यवर्तिनां शब्दानां सर्वेषामप्याकाशा भिन्नश्रोत्रवृत्तित्वेपि यथा श्रोत्रलक्षणाधिष्ठानप्रत्त्यासत्त्या जायमानं श्रवणं न युगपद् भवति किं तु श्रोत्रप्रत्यासत्तिक्रमेणैव जायते तथा संस्काराणां मनस्संयोगस्य चात्मवृत्तित्वेपि स्मरणं संस्कारप्रत्यासत्त्या जायते संस्कारप्रत्त्यासत्तिश्च उद्बोधकानां क्रमेणैव घटते इति क्रमेणैव स्मरणानि जायन्ते इति स्मृतीनां न युगपदुत्पत्तिप्रसङ्ग इत्यर्थः / अत्र- " संस्कारस्य सहकारिकारणसमवधानं प्रत्यासत्तिः, यथा शब्दाः संतानवर्तिनः सर्वत्रैवाकाशे समवयन्ति. समानदेशत्वेपि यस्योपलब्धेः कारणानि सन्ति स उपलभ्यते नेतरे तथा संस्कारेष्वपीति" इतिवार्तिकम् / तथा च यस्य संस्कारस्य सहकारिकारणम्= उद्बोधकज्ञानं जायते तेन तजन्यं स्मरणं जायते नाऽन्यार्थविषयकमिति न यौगपद्यापत्तिः, उद्बोधकज्ञानं च क्रमेणैव संभवतीतिस्पष्टमेव / सूत्रकृतं स्मृतियोगद्यप्रतिषेधं सूचयति- पूर्व इति, पूर्वः= " प्रणिधानलिङ्गादिज्ञानानाम् 33 " इतिसूत्रेण स्मृतियोगपद्यस्य प्रतिषेधः कृत इतिहेतोः " अनेकज्ञानसमवायादेकप्रदेशे " इत्यादिपूर्वपक्षभाष्येण यो युगपत् स्मृतिप्रसङ्गः प्रदर्शितः स नोपपद्यते इत्यन्वयः // 34 // ___ अग्रिमसूत्रमवतारयति- यदिति, स्पष्टार्थमिदं भाष्यम् , तदेतत् सांख्यमतं सांख्यदर्शने द्रष्टव्यम् / ज्ञस्येति- ज्ञस्य= ज्ञानविशिष्टस्य यौ इच्छाद्वेषौ तन्निमित्तत्वादारम्भनिवृत्त्योरित्यन्वयः, आरम्भः= प्रवृत्तिरिच्छया भवति निवृत्तिश्च द्वेषेण भवति इच्छाद्वेषौ च ज्ञानं विना न संभवत इति ज्ञानेच्छाद्वेषप्रयत्नादीनां सामानाधिकरण्यं सिद्धं ज्ञानं चात्मधर्म इति इच्छाद्वेषप्रयत्नादीनां तत्फलभूतसुखादीनां चात्मधर्मत्वं सिद्धमिति सूत्रार्थः, अत्र- 'इच्छादीनामात्मधर्मत्वम्- ज्ञानसामानाधिकरण्यात्' इत्येवं सूत्रं