________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेहेत्वभावादयुक्तमितिचेत् ? न- करणस्य प्रत्ययपर्याये सामर्थ्यात् // 'उपभोगवन्नियमः' इत्यस्ति दृष्टान्तो हेतुर्नास्तीति चेन्मन्यसे ? न- करणस्य प्रत्ययपर्याये सामर्थ्याद नैकस्मिन् ज्ञेये युगपदनेकं ज्ञानमुत्पद्यते न चाऽनेकस्मिन् , तदिदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यमित्थम्भूतमिति. न ज्ञातुः- विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति / ___ अयं च द्वितीयः प्रतिषेधः- व्यवस्थितशरीरस्य चाऽनेकज्ञानसमवायादेकप्रदेशे युगपदनेकार्थस्मरणं स्यात्= कचिद् देशेऽवस्थितशरीरस्य ज्ञातुरिन्द्रियार्थप्रवन्धेन ज्ञानमेकस्मिन्नात्मप्रदेशे समवैति तैन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्याऽनेकस्य युगपत् स्मरणं प्रसज्यते ननु "उपभोगवत् " इति दृष्टान्तसत्त्वेपि प्रातिभज्ञानानां युगपदनुत्पत्तौ हेतुर्नास्ति न च हेतुं विना दृष्टान्तमात्रेण साध्यसिद्धिः संभवति येन प्रातिभानामयोगपद्यं सिध्येतेति प्रातिभानामुक्तमयोगपर्व हेत्वभावादेवाऽयुक्तम्= न संभवतीत्याशङ्कते- हेत्वभावादिति, परिहरति- नेति, परिहारहेतुमाह- करणस्येति, करणस्य= ज्ञानकारणस्य प्रत्ययपर्याये= पर्यायेण= क्रमेणैव ज्ञानोत्पादने सामर्थ्यात् क्रमेण= अयुगपदेव ज्ञानानि संभवन्ति न युगपदिति ज्ञानानामयोगपद्ये तादृशं कारणसामर्थ्यमेव कारणं तथैव सर्वत्र कार्यकारणयोः क्रमदर्शनादित्यर्थः / स्वयं व्याचष्टे- उपभोगवदिति / परिहरति- नेति, परिहारहेतुमाह- करणस्येति, पर्यवसितमाह- नैकस्मिन्निति, ज्ञानकारणानां क्रमेणैव ज्ञानजननसामर्थ्यात् एकस्मिन् ज्ञेये= एकज्ञेयविषयकं युगपदनेकं ज्ञानं नोत्पद्यते किं तु क्रमेणैव, तथाऽनेकस्मिन्= अनेकज्ञेयविषयकमप्यनेकं ज्ञानं युगपन्नोत्पद्यते किं तु क्रमेणैवोत्पद्यते इत्यन्वयः / एतादृशकरणसामर्थ्य प्रमाणमाह- तदिदमिति, इदं करणसामर्थ्यम् इत्थम्भूतम्= क्रमेण ज्ञानजननानुकूलमिति दृष्टेन ज्ञानक्रमेणानुमेयम्- क्रमेणैव ज्ञानानां दृष्टेन जायमानत्वेन ज्ञानकारणानां क्रमेणैव ज्ञानजननसामर्थ्यमस्ति न युगपदिति ज्ञातुं शक्यत्वादित्यर्थः / नन्वेवं ज्ञातुरप्यनेकज्ञानसामर्थ्य न स्यादित्याशङ्कयाह-न ज्ञातुरिति, ज्ञातुरनेकज्ञानसामथ्याभावो नास्ति, अत्र हेतुमाह- विकरणेति, विकरणधर्मिणः= योगिनो नानादेहेध्वपि स्वनिर्मितेषु ज्ञानयोगपद्यस्य शास्त्रसिद्धत्वात्. तदेतत् एकोनविंशतिसूत्रभाष्यटीकायां द्रष्टव्यम् / अत्र- "तस्मात्करणमेकं न कचिदपि युगपत् कार्यायाऽलमिति. कर्ता पुनरेकोपि करणभेदे युगपद्हनि कार्याणि करोतीत्याह- न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति, विविधं करणं यस्य स तथोक्तः" इति तात्पर्यटीका // ___ पूर्वपक्षी स्मृतीनां योगपद्यं प्रकारान्तरेण प्रतिपादयति- अयमिति, स्मृतीनामयोगपद्यस्य प्रतिषेध इत्यर्थः / उपपादयति- व्यवस्थितेति, व्यवस्थितशरीरस्य= एकदेशस्थितशरीरस्य जीवस्य तद्देशस्थितशरीरावच्छेदेन तस्मिन्नात्मप्रदेशेऽनेकेषां ज्ञानानां ज्ञानजन्यसंस्काराणां च समवायात् तादृशसंस्कारविशिष्टात्मप्रदेशेन मनसश्च संनिकर्षात् तादृशे आत्मन एकस्मिन् प्रदेशे युगपदनेकार्थविषयकं स्मरणं स्यादेव- अनेकसंस्कारविशिष्टेनात्मप्रदेशेन मनस्सनिकर्पस्य सर्वस्मरणसाधारणकारणस्य जातत्वादेवेत्यन्वयः / यदा हि व्यवस्थितशरीरो न भवति तदा तु विभोरात्मनस्तत्तत्प्रदेशैर्नानाभूतैर्मनसः नवनवसंनिकर्षसंभवादेकस्मिन्नात्मप्रदेशे ज्ञानसंस्कारयोः समवायो न संभवतीति न युगपदनेकार्थस्मरणप्रसङ्गः, यदा च व्यवस्थित शरीरो भवति तदा तु तद्देशस्थितशरीरावच्छिन्ने एकस्मिन्नेवात्मप्रदेशेऽनेकज्ञानसंस्काराणां समवायः संभवति तत्र तादृशेनाऽनेकसंस्कारविशिष्टेनात्मप्रदेशेन मनस्संयोगादनेकार्थस्मरणं युग पत्स्यादेव- निवारकाभावादित्यर्थः / अत्र- “यत्रात्मप्रदेशेऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च तत्रैवावस्थितशरीरस्य. तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग उपपादितः" इति तात्पर्यटीका / उक्तं विशदयति- क्वचिदिति, देशे= एकस्मिन् देशे, ज्ञातुः= जीवस्य, इन्द्रियार्थप्रबन्धेन