________________ बुद्धिविवेचनम् ] न्यायभाष्यम् / यत् खल्विदं प्रातिभमिव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्तमुत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गः- हेत्वभावात् / / सतः स्मृतिहेतोरसंवेदनात् प्रातिभेन समानाभिमानः= बढर्थविषये वै चिन्ताप्रबन्धे कश्चिदेवार्थः कस्यचित् स्मृतिहेतु:- तस्यानुचिन्तनात् तस्य स्मृतिर्भवति. न चायं स्मर्ता सर्व स्मृतिहेतुं संवेदयते= 'एवं मे स्मृतिरुत्पन्ना' इत्यसंवेदनात् प्रातिभमिव ज्ञानमिदं स्मार्तमित्यभिमन्यते, न त्वस्ति प्रणिधानाद्यनपेक्षं स्मार्तमिति // __प्रातिभे कथमितिचेत् ? पुरुषकर्मविशेषादुपभोगवन्नियमः // प्रातिभमिदानीं ज्ञानं युगपत् कस्मान्नोत्पद्यते ?. यथोपभोगार्थ कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर्न युगपदनेक प्रातिभं ज्ञानमुत्पादयति // सिद्धदर्शनं च धर्मेभ्य: 9-2-13" इति, तदेतत् प्रातिभं ज्ञानं स्मृत्यात्मकमपि प्रणिधानादिसापेक्षं न भवति तथा च प्रातिभवत् प्रणिधानाद्यनपेक्षाणां स्मार्तानाम्= स्मृतिज्ञानानां योगपद्यं प्राप्तम्प्रणिधानाद्यनपेक्षाणां सर्वस्मृतीनां कारणस्यात्ममनस्संयोगस्य योगपद्यात् कारणयौगपद्ये कार्ययोगपद्यस्यावश्यम्भावात्. संस्काराणां च मनस्संयुक्तात्मनि समवेतत्वादिति सूत्रार्थः / पूर्वोक्तं च स्मर्त्तव्यम् / अत्र- " यदि प्रणिधानाद्यपेक्षात्ममनस्संयोगो न युगपत् स्मृतिकारणं ( तदा) याः स्मृतयः प्रणिधानादिसंनिधानमन्तरेण भवन्ति तासां यौगपद्यं स्यात्" इतिवार्तिकम् / व्याचष्टे- यदिति, प्रातिभं ज्ञानमिव प्रणिधानाद्यनपेक्षं यत् स्मार्तम्= स्मरणज्ञानमुत्पद्यते तस्य= तेषाम् = प्रणिधानाद्यनपेक्षाणां स्मरणानां युगपदुत्पत्तिप्रसङ्गः- क्रमप्रयोजकस्य प्रणिधानलिङ्गादिज्ञानस्य कारणत्वाभावादित्यन्वयः / उक्त हेतुमाह- हेत्वभावादिति, अयोगपद्यहेतोरुक्तस्य प्रणिधानलिङ्गादिज्ञानस्याऽभावात्= अनपेक्षणात्, किं वाऽयोगपद्यहेतोरभावादित्यर्थः / उक्तं भाष्यकारः परिहरति- सत इति, स्मात किमपि ज्ञानं प्रणिधानाद्यनपेक्षं न भवतीति स्मृतिहेतोः प्रणिधानलिङ्गादिज्ञानस्य तदेपक्षत्वस्य च सत्त्वेति असंवेदनात्= तज्ज्ञानाभावादेव प्रातिभसाम्यं प्रतीयते इत्यन्वयः / उक्तं विशदयति- बह्वर्थेति, अनेकार्थविषयके चिन्ताप्रबन्धे= प्रणिधानसंताने जाते कश्चिदेव चिन्तितः पदार्थः कस्यचित्स्मृतिहेतुर्भवति तस्य= स्मृतिहेतोरनुचिन्तनात् तस्य= स्मर्तव्यस्य स्मृतिर्भवति तत्र स्मृतिहेतूनां सत्त्वेपि उत्पलशतपत्रवेधन्यायेन कदाचित् ज्ञानं न जायते इत्येतावन्मात्रेण तत्र स्मरणस्य प्रणिधानाद्यनपेक्षत्वमुच्यते तदाह- न चाय मिति, ' एवम्= अनेन कारणेन मे स्मृतिरुत्पन्ना' इतिकारणज्ञानाभावादेव प्रातिभमिव स्मात ज्ञानं प्रणिधानाद्यनपेक्षमित्यभिमन्यते वस्तुतस्तु स्मात किमपि ज्ञानं प्रणिधानाद्यनपेक्षं नास्तीति अज्ञायमानानामपि प्रणिधानादीनामयोगपद्येनोक्तरीत्या स्मृतीनामयोगपद्यमुपपद्यते इति न कोपि दोष इत्यर्थः / अत्र "प्रणिधानाद्यपेक्षम् " इति पाठस्त्वसंगतो वार्तिकविरुद्धश्च तथा च वार्तिकम् - " नहि प्रणिधानाद्यनपेक्षं स्मार्तमस्ति " इति // ननु स्मृतिज्ञानानां प्रणिधानादिसापेक्षत्वेनाऽयोगपद्ये संभवत्यपि प्रणिधानाद्यनपेक्षाणां प्रातिभानां कथं न यौगपद्यमित्याशङ्कते- प्रातिभे इति, प्रातिभे= प्रातिभज्ञानानामयोगपद्यं दृश्यमानं कथम्= केन हेतुनोपपाद्यमितिशङ्कार्थः / उत्तरमाह- पुरुषेति, यथा जीवस्य कर्मक्रमेण सुखदुःखादिभोगः क्रमेणैव भवति न तु युगपत् तथा प्रातिभज्ञानहेतुभूतानां जीवकर्मणां क्रमेण जातत्वात् फलजनकत्वाच्च तत्कार्यभूतानि प्रातिभज्ञानान्यपि प्रणिधानाद्यनपेक्षाण्यपि क्रमेणैव जायन्ते न युगपदित्यर्थः / स्वोक्तं स्वयमेव व्याचष्टे- प्रातिभमिति, प्रातिभं सर्वं ज्ञानम् इदानीम्= प्रणिधानाद्यनपेक्षत्वेन कस्मात् युगपन्नोत्पद्यते इत्याशङ्का / समाधत्ते- यथेति, उपभोगर्थम्= सुखादिभोगकारणीभूतम् / प्रकृतमाह- एवमिति, प्रतिभाहेतुः= प्रातिभज्ञानकारणीभूतो जीवकर्मविशेषः क्रमेण जातत्वात् क्रणेणैव प्रातिभज्ञानान्युत्पादयति न युगपदिति न प्रातिभानामपि यौगपद्यापत्तिरित्यर्थः / /