________________ 304 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेकर्मादृष्टमुपभोगार्थ क्रियाहेतुरितिचेत् ? समानम् // कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थ मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं च सिध्यति चेत्येवं चेन्मन्यसे ?, समानं स्मृतिहेतावपि संयोगविशेषो भवितुमर्हति. तत्र यदुक्तम्- "आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः 31" इत्ययमप्रतिषेध इति, पूर्वस्तु प्रतिषेधः- " नान्तःशरीर वृत्तित्वान्मनसः 26" इति // 32 // कः खल्विदानीं कारणयोगपद्यसद्भावे युगपदस्मरणस्य हेतुरिति ?, प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् // 33 // यथा खल्वात्ममनसोः संनिकर्षः संस्कारश्च स्मृतिहेतुरेवं प्रणिधानं लिङ्गादिज्ञानानि, तानि च न युगपद् भवन्ति तत्कृता स्मृतीनां युगपदनुत्पत्तिरिति // 33 // प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्माते यौगपद्यप्रसङ्गः // 34 // समानं यथा चास्योपपत्तिस्तथा तस्याप्युपपत्तिरित्यपि समानमित्याह- यदृच्छयेति, यदृच्छयापि विशेषः= कार्य न संभवतीति यावत् / उक्ते हेतुमाह- नेति / ननु जीवकृतकर्मजन्यमदृष्टमात्मसमवेतम् उपभोगार्थम्= भोगसंपादकमस्तीति तादृशादृष्टेन मनसि क्रिया जायते ततश्चोदाहृतो मनस्संयोगो जायते इति न स संयोगोऽनुपपन्न इत्याशङ्कते- कर्मेति / उत्तरमाह- समानमिति, यथोदाहृतो मनस्संयोगोऽदृष्टेन संभवति तथा स्मृतिकारणभूतोपि मनस्संयोगोऽदृष्टेन संभवतीति न तदनुपपत्तिरित्यर्थः / स्वयं व्याचष्टे- कर्मेति, पुरुषस्थम्= आत्मसमवेतम् / पर्यवसितमाह- एवमिति, एवम्= उक्तादृष्टेन / शङ्कामुपसंहरति- इत्येवमिति / उत्तरमाह- समानमिति, स्मृतिहेतुरपि संयोगविशेषोऽदृष्टेन संभवतीति न तदनुपपत्तिरित्यर्थः / उपसंहरति- तत्रेति, यदा ह्यदृष्टेन संयोगविशेष उपपद्यते तदा तस्य पूर्वोक्तः आत्मप्रेरणेत्यादिप्रतिषेधो नोपपद्यते किं तु " नान्तः 26" इति पूर्वोक्त एव प्रतिषेध उपपद्यते मनसः शरीरान्तर्वृत्तित्वाददृष्टेनापि शरीराद्वहिर्गमनं जीवतो न संभवतीति न शरीराद्वहिरात्मप्रदेशैर्मनस्संयोग उपपद्यते इत्यर्थः // 32 // अग्रिमसूत्रमवतारयति- क इति, सर्वस्मृतिकारणमात्ममनस्संयोग एव तस्य च योगपद्यं स्पष्टमेवशरीराबहिर्मनसो गमनस्याऽस्वीकारात् अथापि युगपत्सर्वस्मरणं न भवति तत्र युगपदस्मरणस्य को हेतुरिति जिज्ञासा / सूत्रेणोत्तरमाह- प्रणिधानेति, प्रणिधानम्= चित्तैकाग्रता किं वात्मना चित्तस्य तत्र नियोजनम् , लिङ्गादिज्ञानम्= संस्कारोबोधकज्ञानम् , यथा मनस्संयोगः स्मरणस्य कारणं तथा प्रणिधानादिकमपि कारणमस्ति तथा च सर्वस्मरणकारणीभूतसंस्कारविशिष्टात्मना सर्वस्मरणकारणीभूतस्य मनस्संयोगस्य युगपत्सत्त्वेपि प्रणिधानादीनां स्मरणकारणानामयुगपद्भावाद् यौगपद्यं न संभवतीति अयुगपत्स्मरणमुपपद्यते= युगपत्सर्वस्मरणापत्तिर्नास्ति किं तु प्रणिधानादिक्रमेणैव क्रमशः स्मरणं भवतीति सूत्रार्थः / व्याचष्टे- यथेति / प्रकृतमाह- एवमिति / प्रणिधानं लिङ्गादिज्ञानानि च स्मरणकारणानि सन्ति तानि= प्रणिधानादीनि युगपत् न संभवन्ति. तत्कृता-प्रणिधानादीनामयोगपद्यकृता= प्रणिधानादीनामयोगपद्येनैव स्मृतीनां युगपदनुत्पत्तिः= अयुगपदुत्पत्तिरुपपद्यते इति " ज्ञानसमवेतात्म 25" इतिसूत्रोक्तरीत्या स्मृतीनामयोगपद्योपपादनार्थ शरीरादहिरात्मप्रदेशैर्मनसः संयोगो न स्वीकार्य:- मनसः शरीराभ्यन्तर्वृत्तित्वादित्यर्थः, तथा च ज्ञानस्य विभ्वात्मगुणत्वेपि स्मृतीनां योगपद्यापत्तिनास्तीति ज्ञानमात्मगुण एव न तु मनोगुण इति पर्यवसन्नम् // 33 // . सामान्यत: स्मृतीनां योगपद्ये निराकृतेपि स्मृतिविशेष योगपद्यमाशङ्कते- प्रातिभवदिति, "श्वस्ते भ्राताऽऽगन्ता" इत्यादिकं सिद्धपुरुषज्ञानं प्रातिभमित्युच्यते तथा च वैशेषिकसूत्रम्- " आप