________________ बुद्धिविवेचनम् ] न्यायभाष्यमा 303 चायं मनः प्रणिदधानश्चिरादपि कंचिदर्थ स्मरति नाऽकस्मात् / शत्वं च मनसो नास्तिज्ञानप्रतिषेधादिति // 31 // एतच्चव्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् // 32 // यदा खल्वयं व्यासक्तमनाः कचिद् देशे शर्करया कण्टकेन वा पादव्यथनमामोति तदाऽऽत्ममनस्संयोगविशेष एपितव्यः- दृष्टं हि दुःखं दुःखवेदनं चेति. तत्रायं समानः प्रतिपेधः, यदृच्छया तु न विशेष:- नाऽऽकस्मिकी क्रिया नाऽऽकस्मिकः संयोग इति // संस्कारयोरयोग्यत्वेनाप्रत्यक्षत्वादित्यर्थः, तत्र तथा च आत्मप्रदेशसंस्कारविषयाऽऽत्मप्रत्यक्षेण संवित्तिः= स्मृतिरनुपपन्ना- यद्यात्मप्रदेसंशस्कारयोः प्रत्यक्षं स्यात्तदा तत्स्मृतिरपि उक्तेच्छाकाले स्याद् न चैवमस्तीत्यर्थः / द्वितीयकल्पस्यानुपपत्तिमाह- सुरमूर्षयेति, प्रणिधानः= नियुञ्जानः, यदा हि मनःप्रणिधानादिना स्मरति तदा न यदृच्छिया= अकस्मात् स्मरणं वा संयोगविशेषो वा संभवतीत्यर्थः / तृतीयकल्पस्यानुपपत्तिमाह- ज्ञत्वमिति, मनसि ज्ञानसमवायस्य प्रतिषेधादित्यर्थः, तदेतत् "युगपज्ज्ञेयानुपलब्धेश्च 19" इत्यत्र द्रष्टव्यम् / तथा च शरीरादहिरात्मप्रदेशेन मनस्संनिकर्षों नोपपद्यते कारणाभावादित्यर्थः // 31 // अग्रिमसूत्रमवतारयति- एतदिति, एतत्= आत्मप्रेरणेत्यादिसूत्रप्रतिपादितं मनस्संयोगविशेषस्य निराकरणं वक्ष्यमाणेन मनस्संयोगनिराकरणेन समानमेवेत्ययुक्तमेवेत्यर्थः, किं वा एतत्= पूर्वोक्तो मनसंयोगो वक्ष्यमाणेन संयोगेन समान एवेत्यर्थः / व्यासक्तेति- व्यासक्तमनसः= नृत्यादिदर्शनसंलग्नमनसो जीवस्य पादव्यथनेन= पादादिव्यथाज्ञापकेन संयोगविशेषेण= मनस्संयोगेन पूर्वोक्तः संयोगविशेषः समानम्= तुल्य इत्यन्वयः, किं वा पूर्वोक्तं संयोगप्रत्याख्यानमेतत्संयोगप्रत्याख्यानेन समानम् - उभयोरप्यसंभवित्वादित्यन्वयः, यदा हि नृत्यादिकं पश्यत: कण्टकवेधो भवति तदा तादृशकण्टकवेधव्यथाया अनुभवो येन हेतुना जातेनात्ममनस्संयोगेन जायते तस्यावश्यकत्वात् तादृशव्यथानुभवस्य च सर्वप्रसिद्धत्वात् तनैव हेतुना शरिरावहिरप्यात्मप्रदेशैर्मनसः संयोगः संभवतीति पूर्वोक्तपरिहारो न युक्त इति किं वाऽकिंचित्कर इति सूत्रार्थः / अत्र- "एतच्च व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानं भवतीत्यऽपरिहारः / तस्मात् पूर्व एव परिहारः “नान्त: शरीरवृत्तित्वान्मस: 26" इति" इतिवार्तिकम् / ब्याचष्टे- यदेति, अयम्= जीवः, शर्करया= मृत्खण्डेन, तदा एतादशपाहव्यथानुभवकाले आत्ममनस्संयोगविशेषः= उक्तव्यथानुभवकारणीभूत आत्ममनस्संयोगः एषितव्यः= स्वीकार्य एव- मनःसंयोगं विनोक्तव्यथानुभवस्य निरूपयितुमशक्यत्वात् / उक्तपादव्यथायां प्रत्यक्षं प्रमाणयति- दृष्टमिति / उपसंहरति- तत्रेति, तत्र अत्र, अयम्= पूर्वोक्तः प्रतिषेधः समानः, यथा पूर्वोक्तात्मप्रेरणादिभिः शरीराद्वहिर्मनस्संयोगस्यानुपपत्तिः प्रदर्शिता तथात्रोदाहृतव्यथानुभवकालेप्यात्ममनसंयोगस्यानुपपत्तिः स्यात् आत्मनोऽन्यत्र व्यासक्तत्वेन मनःप्रेरणाद्यसंभवात् . न चैवं संभवति- एतादृशपादव्यथायाः प्रत्यक्षत्वेन तदनुभवकारणीभूतस्य मनस्संयोगस्यावश्यकत्वात् , शर्करादिना पादसंयोगश्च शरीराबहिरेवेति मनस्संयोगोपि शरीराद्वहिरेव स्वीकार्य एवं स्मृतिकारणीभूतोपि मनस्संयोगः शरीरादहिः संभवत्येवेति न तस्योक्तः प्रतिषेधः संभवतीत्यर्थः / उदाहृतमनस्संयोग आत्मप्रेरणेन तु न संभवति-- अन्यत्र व्यासक्तत्वात् मनसो ज्ञत्वादपि न संभवति- तस्य प्रतिषिद्धत्वात् , पारिशेष्याद् यदृच्छया वक्तव्यस्तदपि न संभवतियहच्छाया आकस्मिकत्वरूपत्वाद् आकस्मिकत्वं च निष्कारणकत्वमेव न च जायामानं निष्कारणं संभवतीति न मनसः क्रिया संयोगश्चाकस्मिकः- यहच्छया संभवतीति यथा शरीराताहिरात्ममनस्संयोगस्योक्तस्य स्मृतिकारणीभूतस्यानुपपत्तिस्तथोक्तव्यथानुभवकारणीभूतस्याप्यात्ममनस्संयोगस्यानुपपत्तिरिति