________________ 302 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आहिकेशरीरस्योपभोगायतनत्वात् उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनामुत्पत्तौ कल्पते, क्लुप्तौ वा शरीर वैयर्थ्यमिति // 30 // आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः // 31 // आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्याद् यदृच्छया वा= आकस्मिकतया ज्ञतया वा मनसः, सर्वथा चानुपपत्तिः / कथम् ?. स्मर्तव्यत्वाद. इच्छातः स्मरणज्ञानासंभवाच- यदि तावदात्मा- 'अमुष्यार्थस्य स्मृतिहेतुः संस्कारोऽमुष्मिन्नात्मप्रदेशे समवेतस्तेन मनः संयुज्यताम् ' इति मनः प्रेरयति तदा स्मृत एवाऽसावों भवति न स्मर्तव्यः, न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा तत्राऽनुपपन्नाऽऽत्मप्रत्यक्षेण संवित्तिरिति / सुस्मूषेया प्रदेशेन मनस्संनिकर्षार्थ चिरपर्यन्तमेव मनसः शरीराहिः स्थितिः स्वीकार्या तत्र चिरनिश्चरिते= चिरपर्यन्तं शरीराद्वहिर्गते मनसि एतत्= पूर्वसूत्रोक्तम्= शीघ्रं प्रत्यागत्य शरीरधारकप्रयत्नोत्पादनं नोपपद्यते इति शरीरपतनमेव स्यादित्यन्वयः / पूर्वपक्षिमते बाधकान्तरमाह- शरीरेति, शरीरावहिर्य आत्ममनस्संनिकर्षः स एव शरीरसंयोगानपेक्षस्तेन शरीरावहिरेवात्मनः स्मरणं संभवति न चैतद् युक्त शरीरस्य भोगायतनत्वात् स्मृतेरपि भोग्यत्वात् शरीराभ्यन्तरे एव स्मृतिस्वीकारसंभवादित्यर्थः / उक्ते हेतुमाह- शरीरस्येति / उक्तं व्याचष्टे- उपभोगेति, ततः= शरीरात् , निश्चरितस्य= बहिर्गतस्य, शरीराद्वहिर्य आत्मसंयोगः तत् आत्मसंयोगमात्रम्- शरीरेण मनसः संयोगाभावात् / विपक्षे बाधकमाहक्लप्ताविति, यदि शरीरसंयोगरहितोप्यात्ममनस्संयोगः स्मृत्यादिभोगहेतुः स्यात्तदा शरीरवैयर्थ्य स्यादिति स्पष्टमेव न चैतद् युक्तमिति न मनसः शरीराद्वहिर्गमनं पूर्वोक्तं युक्तमित्यर्थः, तथा च स्मृतीनामयोगपद्यप्रयोजकस्य मनसो बहिर्गमनस्यासंभवात् स्मृतीनां योगपद्यापत्तिस्तदवस्थैव न च स्मृतीनां योगपद्यमुपलभ्यते इति तदुपपत्त्यर्थ ज्ञानस्य मनोगुणत्वं स्वीकार्य नात्मगुणत्वमितिशेषः // 30 // शरीरादहिरात्मप्रदेशेन मनस्संनिकर्षेऽनुपपत्तिमाह- आत्मेति, संयोगविशेषः= शरीरावहिरात्मप्रदेशेन मनस्संयोगो नात्मप्रेरणया संभवति- तादृशसंयोगार्थमात्मना मनःप्रेरणं हि 'अस्यार्थस्य स्मृतिहेतुभूतः संस्कारोऽमुष्मिन् मदीयप्रदेशे समवेतस्तेन मदीयप्रदेशेन मनस्संयोगो भवतु' इति संकल्पेनैव संभवति एतादृशसंकल्पश्च तादृशस्मतव्यस्य स्मरणं विना न संभवति यदा हि संकल्पकाले एव स्मर्तव्यस्मरणं जातं तदा तत्स्मरणार्थ प्रेरणं मनसो नोपपद्यते- व्यर्थत्वादिति न शरीरादतिरात्मप्रदेशेन मनस्संयोग आत्मप्रेरणया संभवति, नापि यदृच्छया= आकस्मिकतया संभवति- कार्यमात्रस्य सकारणकत्वनियमेन निष्कारणकत्वलक्षणयादृच्छिकत्वासंभवात् , नापि मनसो ज्ञतया संभवति, ज्ञत्वं हि ज्ञानविशिष्टत्वं तच्च मनसः पूर्वमेव प्रतिषिद्धमिति शरीरादहिरात्मप्रदेशेन मनस्संनिकर्षों नोपपद्यते येनस्मृतीनामयोगपद्यं समाहितं स्यादिति सूत्रार्थः / व्याचष्टे- आत्मेति, एतेन संयोगविशेषस्य कारणं त्रिधा विकल्पितम् , संयोगविशेषमाह- मनस इति, यदृच्छापदार्थमाह- आकस्मिकेति, कल्पत्रयेपि सामान्यतोऽनुपपत्तिमाह- सर्वथेति, संयोगविशेषस्येतिशेषः / अनुपपत्तिहेतुं जिज्ञासते- कथमिति / हेतुमाहस्मर्तव्यत्वादिति, यद्यात्मप्रेरणेन संयोगविशेषः स्यात्तदा तादृशप्रेरणविषया आत्मेच्छा स्वीकार्या तत्र स्मरणार्थप्रेरणार्थविषया चेच्छा स्मर्तव्यविषया स्यादेवेति स्मरणस्य जातत्वेन विषयस्य स्मर्तव्यत्वं न स्यादस्ति च स्मर्तव्यत्वमिति न संयोगविशेषार्थ मनसः प्रेरणं संभवतीत्यर्थः, हेत्वन्तरमाह- इच्छात इति, एवं हीच्छायाः स्मृतिहेतुत्वं स्यात् न चैवमस्तीति न प्रेरणं संभवतीत्यर्थः / उक्तं व्याचष्टे- यदीति, प्रेरणकारणीभूतामिच्छामाह- अमुष्येति, अमुष्य= अस्य, आत्मप्रदेशे= मदीयप्रदेशे, तेन= तादृशप्रदेशेन, इति= इतीच्छया इतिसंकल्प्य / पर्यवसितमाह- तदेति, स्मर्तव्यस्मरणं विनोक्तेच्छाया असंभवात् स्मर्तव्यः स्मृत एवेति तत्स्मरणार्थ प्रेरणानुपपत्तिरित्यर्थः / अत्र पक्षे बाधकान्तरमाह-न चेति, आत्म