________________ 301 बुद्धिविवेचनम् ] न्यायभाष्यम्। दृश्यते, आत्ममनस्संनिकर्षजश्च प्रयत्नो द्विविधः- धारकः प्रेरकच, निस्सृते च शरीरादहिमनसि धारकस्य प्रयत्नस्याऽभावाद् गुरुत्वात्पतनं स्यात् शरीरस्यात्मवत इति // 28 // न तत्- आशुगतित्वान्मनसः // 29 // आशुगति मनस्तस्य बहिः शरीरादात्मप्रदेशेन ज्ञानसंस्कृतेन संनिकर्षः प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यते इति. उत्पाद्य वा धारकं प्रयत्नं शरीरानिस्सरणं मनसोऽतस्तत्रोपपन्नं धारणमिति // 29 // न- स्मरणकालानियमात् // 30 // किंचित् क्षिप्रं स्मर्यते किंचिच्चिरेण. यदा चिरेण तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्य चिदर्थस्य लिङ्गभूतस्य चिन्तनमाराधितं स्मृतिहेतुर्भवति तत्रैतत् चिरनिश्चरिते मनसि नोपपद्यते इति / शरीरसंयोगानपेक्षश्चाऽऽत्ममनस्संयोगो न स्मृतिहेतु:स्मरणेच्छया, अयम्= आत्मा, मन इतिकर्मपदम् , प्रणिधानः= स्मरणव्यापारे नियुजानः, चिरेण सिध्यस्मरणार्थ चिरपर्यन्तं मनसः शरीराभ्यन्तरे आत्मसंयोगः स्वीकार्य इत्यर्थः / स्मरतः शरीरधारणमित्यनेन स्मरणशरीरधारणयोरेककालिकत्वं सिद्धमित्याशयः / स्वाभिप्रायमुद्घाटयति- आत्मेति, धारकः= शरीरधारकः, प्रेरकः= मनःप्रेरकः / पर्यवसितमाह- निस्सृते इति, यदि मनसः शरीराद् बहिर्गमनं स्यात्तदा शरीराद् बहिर्निगते मनसि शरीरधारकप्रयत्नस्यासंभवाद् आत्मवतः= जीवत एव शरीरस्य गुरुत्वात्पतनं स्यात् न चैवमस्तीति शरीरधारणार्थ मनसः शरीरान्तवृत्तित्वं सिद्धं तथा चोक्तरीत्या युगपत्सर्वस्मृतीनामुत्पत्त्यापत्तिस्तदवस्थैवेय॑थः, शरीराभ्यन्तरे एवात्ममनस्संनिकर्षेण स्मरणं जायते न तु शरीरावहिरपि- स्मरणशरीरधारणयोरेककालिकत्वादित्याशयः / / 28 / / . उक्तं परिहरति- नेति, तत्= एतदप्युक्तं नोपपद्यते- मनस: आशुगतित्वात्= शीघ्रगतित्वात्= शरीराभ्यन्तरे शरीरादहिश्च शीघ्रं शीघ्रमात्मना मनस्संनिकर्षः संभवति तेनोक्तरीत्या स्मृतीनामयोगपद्यं शरीरधारणं चेत्युभयमप्युपपद्यते इति सूत्रार्थः, तत्शब्दस्तु संदिग्धार्थ एव / व्याचष्टे- आश्विति, तस्य= मनसः, ज्ञानसंस्कृतेन= ज्ञानजन्यसंस्कारविशिष्टेन, प्रत्यागतस्य= शीघ्रमेव शरीराभ्यन्तरे पुनरागतस्य, प्रयत्नोत्पादनम् शरीरधारकप्रयत्नोत्पादनम् , उभयम्= इत्युभयमपि, युज्यते= उपपद्यते / पक्षान्तरमाहउत्पाद्येति, धारकम्= शरीरधारकम् / अतः= शरीरधारकप्रयत्नस्योत्पादितत्वादेव, तत्र- शरीराद्वहिर्गमनकाले, धारणम्= शरीरधारणम् , स्पष्टमन्यत् , तथा चैवं मनसः शरीराद्वहिरपि गमनं संभवतीति न मनसः शरीरान्तर्वृत्तित्वनियमः संभवतीति न त्वदुक्तं युक्तं किं तु मदुक्तमेवेति संस्कारविशिष्टैरात्मप्रदेशैर्मनसः क्रमेण संयोगसंभवात् स्मृतीनामपि क्रमेण संभवाद् योगपद्यापत्तिर्नास्तीत्यर्थः / अन्यत् पूर्वमुक्तमेव / / 29 // उक्तं निराकरोति-नेति, मनस आशुगतित्वेपि पूर्वसूत्रोक्तरीत्या शरीरधारणं नोपपद्यते- स्मरणकालस्यानियमात्= शीघ्रमेव सर्व स्मयते इति नियमो नास्ति किं तु किंचित् चिरेणापि स्मयते तत्र चिरेण स्मरणसिद्धयर्थ चिरपर्यन्तं शरीराबहिरात्मप्रदेशविशेषेण मनस्संनिकर्षाय चिरपर्यन्तं शरीराद्धहिर्मनसः स्थितौ शरीरधारकप्रयत्नस्यासंभवात् जीवत एव शरीरस्य पतनं स्यादिति न मनसः शरीराद्वहिर्गमनं स्वीकर्तुं शक्यते तथा चोक्तरीत्या युगपदनेकस्मृतिप्रसङ्ग इतिसूत्रार्थः / व्याचष्टे- किंचिदिति / प्रकृतमाह- यदेति, यदा चिरेण स्मयते तदा सुरुमूर्षया= स्मरणेच्छया मनसि= मनसा चिन्ताप्रबन्धे= निरन्तरचिन्तने धार्यमाणे= क्रियमाणे सति लिङ्गभूतस्य= स्मर्तव्यज्ञापकस्य कस्य चिदर्थस्य चिन्तनमाराधितम= संपादितं स्मर्तव्यस्मृतेहेतुर्भवति तथा चैवं चिरेण स्मरणकाले चिरपर्यन्तं शरीरादहिरात्म