________________ 300 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निकेसदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिष्यते तत्रास्य प्राक् प्रायणादन्तःशरीरे वर्तमानस्य मनसः शरीराद् वहिनिसंस्कृतैरात्मप्रदेशैः संयोगो नोपपद्यते इति // 26 // साध्यत्वादहेतुः // 27 / / विपच्यमानकर्माशयमात्रं जीवनम् एवं च सति साध्यमन्तःशरीरवृत्तित्वं मनस इति॥२७॥ स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः // 28 // सुस्मूर्षया खल्वयं मनः प्रणिदधानः चिरादपि कं चिदर्थ स्मरति स्मरतश्च शरीरधारणं वेति सूत्रार्थः / व्याचष्टे- सदेहस्येति, विच्यमानकर्मवासनासहितः सदेहस्यात्मनो मनस्संनिकर्ष एव जीवनमुच्यते तत्र एवं प्राप्ते अस्य= जीवस्य किं वा मनसः प्रायणात् मृत्योः पूर्व शरीराभ्यन्तरे वर्तमानस्य शरीराद् बहिर्ज्ञानसंस्कृतैः= ज्ञानजन्यसंस्कारविशिष्टैरात्मप्रदेशैः संयोगो नोपपद्यते इति न पूर्वसूत्रोक्तरीत्या स्मृतीनां यौगपद्यनिवृत्तिरुपपद्यते, शरीरावच्छिन्नात्मना च शरीराभ्यन्तरे मनस्संनिकर्षोऽस्त्ये. वेति स्मृतीनां युगपदुत्पत्तिः स्यादेवेत्यर्थः / अत्र- " मनसः शरीरासमवेतत्वेपि संयोगमात्रस्यातिप्रसक्तत्वेपि चेन्द्रियार्थसंनिकर्षस्य मनःकार्यस्य शरीराद् बहिः सत्त्वेन शरीरान्तरेव कार्यकारित्वनियमाभावेपि च येनात्मना यच्छरीरं कर्मोपार्जितं तत्संयुक्तस्य मनसो वैशेषिकज्ञानादिलक्षणकार्यकारित्वं न तदसंयुक्तस्येति शरीराश्रितत्वं मनसो नान्यदित्यर्थः” इति श्रीगुरुचरणाः // 26 // उक्तं परिहरति- साध्यत्वादिति, सिद्ध एव हेतुर्भवति न तु साध्योपि मनसश्चान्तःशरीरवृत्तित्वं साध्यमेव न सिद्धमिति साध्यत्वादेवाहेतुः= शरीराद् बहिरात्मप्रदेशैर्मनस्संनिकर्षस्याऽभावसाधको न संभवति तदनेन "ज्ञानसमवेतात्म 25" इतिसूत्रोक्तं स्मृतीनामयोगपद्यं समाहितं भवतीति सूत्रार्थः / व्याचष्टे- विपच्यमानेति, यदि विपच्यमानकर्माशयसहितः सदेहस्यात्मनो मनसा संयोगो जीवनं स्यात्तदा आत्मनः शरीराभ्यन्तरे एव सदेहत्वसंभवादन्यथा बहिरपि घटाद्यवच्छेदेन सदेहत्वं स्यात् मनसश्चाणुत्वात् शरीरान्तर्वृत्तित्वे एव सदेहेनात्मना संयोग उपपद्यते इत्युक्तरीत्या समाधानमुपपद्येतापि न चैवमस्ति किं तु विपच्यमानकर्मणां वासनैव जीवनं न तु तादृशवासनासहितः सदेहस्यात्मनो मनसा संयोगो जीवनं येनैतादृशजीवनेन मनसः शरीरान्तर्वृत्तित्वं सिध्येत. तथा च मनसः शरीराद् बहिवृत्तित्वमपि संभवतीति मनसः शरीरान्तर्वृत्तित्वं साध्यमेव साध्यत्वादेव च शरीराद् बहिरात्मप्रदेशैर्मनस्संनिक भावस्य साधकं न संभवतीति ज्ञानस्यात्मगुणत्वेपि स्मृतीनामुक्तयौंगपद्यस्य निवृत्तिरुपपद्यतेअणुभूतस्य मनसः संस्कारविशिष्टैरात्मप्रदेशैः स्मृतिकारणीभूतसंयोगस्य क्रमेणैव संभवादित्यर्थः // 27 // मनसः शरीरान्तर्वृत्तित्वमुपपादयन् उक्तं परिहरति- स्मरत इति, शरीरधारणकाले किंचिदपि स्मरणं भवत्येवेति स्मरतः= स्मृतिविशिष्टस्यैव शरीरधारणमुपपद्यते= दृश्यते तथा च स्मरणं शरीरधारणं चैककालिकमिति सिद्धं. शरीरधारकप्रयत्नश्चात्ममनस्संनिकर्षजन्य एव स्वीकार्य:- आत्मसंयोगमात्रस्य शरीरधारणप्रयोजकत्वे आत्मनो विभुत्वेन नित्यत्वेन च सर्वदैव शरीरसंयोगसंभवात् कदाचिदपि शरीरपतनं न स्यात्, आत्ममनस्संनिकोंपि शरीराभ्यन्तरे वर्तमान एव शरीरधारकप्रयत्नजनकःसंभवति न तु शरीरादहिवृत्तिरपि शरीराद् बहिर्वृत्तेरात्ममनस्संनिकर्षस्य मृत्योरनन्तरमपि संभवेन मृत्युनापि शरीरपतनं न स्यात् . तथा च मरणपर्यन्तं शरीराभ्यन्तरे अपेक्ष्यमाण आत्ममनस्संनिकों मनसः शरीराभ्यन्तर्वृत्तित्वं विना न संभवतीति मनसः शरीराभ्यन्तर्वृत्तित्वं सिद्धं तथा च शरीराद् बहिरात्मप्रदेशैर्मनस्संनिकों नोपपद्यते इति मनसः शरीरान्तर्वृत्तित्वस्य प्रतिषेधो न संभवति शरीरान्तश्चात्ममनस्संनिकर्षस्य सर्वस्मृतिकारणस्य सत्त्वादेव युगपत्सर्वस्मृत्युत्पत्तिप्रसङ्ग इतिसूत्रार्थः / व्याचष्टे- सुस्मूर्षयेति, सुस्मूर्षया=